SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः । ग्रहणे समर्थमुपलभ्यत इति धर्मादेरपि देश-काल-स्वभावविप्रकृष्टस्य कस्यचित् पुरुषविशेषस्य पण्यादिसंस्कृतं चक्षुरादि ग्राहकं भविष्यतीति न कश्चित् दृष्टस्वभावव्यतिक्रमः। अथ चक्षुरादेः करणस्य प्रतिनियतरूपादिविषयत्वेनान्यकरण विषयग्राहकत्वे स्वार्थातिक्रमो व्यवहारविलोपी स्यात्। ननु श्रूयत एव चक्षुषा शब्दश्रवणं प्राणि विशेषाणाम्-'चक्षुःश्रवसो भुजङ्गाः' इति लोकप्रवादात् । मिथ्या स प्रवाद इति चेत्, नैतत् ; प्रवादबाधकस्याभावात् कर्णच्छिद्रानुपलब्धेश्च । न च ५ 'दन्दशकचक्षुषो जात्यन्तरत्वात्' इत्युत्तरमत्रोपयोगि, अन्यत्रापि प्रकृष्टपुण्यसंभारजनितसर्वविचक्षुषि समानत्वात् । तदेवं धर्मादिसमस्तपदार्थग्राहकत्वेन चक्षुरादिजनितप्रत्यक्षस्याऽविरोधाद न प्रत्यक्षत्व-सत्संप्रयोगजत्वादेाप्यव्यापकभावसिद्धिरिति न प्रसङ्ग-विपर्यययोः प्रवृत्तिरिति न ततस्तत्प्रतिक्षेपः । एतेन "यदि षडूमिः प्रमाणैः स्यात् सर्वज्ञः” [श्लो० वा० सू०२, श्लो० १११] इत्यादि वार्तिककृत्प्रतिपादितं प्रसङ्गसाधनामिप्रायेण युक्तिजालमखिलं निरस्तम्, व्याप्तिप्रतिषेधस्य पूर्वोक्त.१० प्रकारेण विहितत्वात् । यच्च 'किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वात् इत्यादि तद् धूमादग्न्यनुमानेऽपि समानम् । तथाहि-अत्रापि वक्तुं शक्यम्-किं साध्यधर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्तः' इत्यादि यावत 'सिद्धः प्रतिबन्धोऽसर्वशत्व-वक्तत्वयोरग्नि-धूमयोरिव' इति पर्यन्तम्, तदप्ययुक्तम् । यतोऽ. सर्वज्ञत्व-वक्तृत्वयोरिव नाग्नि-धूमयोः कार्यकारणत्वप्रतिबन्धस्य तद्राहकप्रमाणस्य चाऽभावः इनहि वह्निसद्भावे धूमो दृष्टस्तदभावे च न दृष्ट इत्येतावता धूमस्याग्निकार्यत्वमुच्यते किन्तु "कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः" [ ]। न चासौ दर्शनाऽदर्शनमात्रगम्या किन्तु विशिष्टात् प्रत्यक्षाऽनुपलम्भाख्यात् प्रमाणात् । प्रत्यक्षमेव प्रमाणे प्रत्यक्षाऽनुपलम्भशब्दाभिधेयम् , तदेव कार्यकारणाभिमतपदार्थविषयं प्रत्यक्षम्, तद्विविक्तान्यवस्तुविषयमनुपलम्भशब्दाभिधेयम् ; कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तद्भावसाधकम् , कदाचित् प्रत्यक्षपुरःसरोऽनुपलम्भः । तत्राद्येन येषां कारणाभिमतानां सन्निधानात् प्राग-२० नुपलब्धं सद् धूमादि तत्सन्निधानादुपलभ्यते तस्य तत्कार्यता व्यवस्थाप्यते । तथाहि-एतावद्भिः प्रकारैधूमोऽग्निजन्यो न स्यात्-यद्यग्निसन्निधानात् प्रागपि तत्र देशे स्यात्, अन्यतो वाऽऽग' च्छेत् , तदन्यहेतुको वा भवेत् । तदेतत् सर्वमनुपलम्भपुरस्सरेण प्रत्यक्षेण निरस्तम् । एतेन प्राग नुपलब्धस्य रासभस्य कुम्भकारसन्निधानानन्तरमुपलभ्यमानस्य तत्कार्यता स्यादिति निरस्तम् । तथाहि-तत्रापि यदि रासभस्य तत्र प्रागसत्त्वम् , अन्यदेशादनागमनम्, अन्याकारणत्वं च२५ निश्चेतुं शक्येत तदा स्यादेव कुम्भकारकार्यता, केवलं तदेव निश्चेतुमशक्यम् । एवं तावदनुपलम्भपुरस्सरस्य प्रत्यक्षस्य तत्साधनत्वमुक्तम् । तथा, प्रत्यक्षपुरस्सरोऽनुपलम्भोऽपि तत्साधन:येषां सन्निधाने प्रवर्त्तमानं तत् कार्य दृष्टं तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते, तत् तस्य कारणमितरत् कार्यम् । न चाग्नि-काष्ठादिसन्निधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽस्ति , अग्र्यादौ त्वपनीते भवत्यनुपलम्भः। एवं परस्परसहितौ प्रत्यक्षानुपलम्भावभिमतेष्वेव ३० कार्यकारणेषु निःसन्दिग्धं कार्यकारणभावं साधयतः। ___ सर्वकालं चाग्निसन्निधाने भवतो धूमस्यानग्निजन्यत्वं कदाचित् सदसतोरजन्यत्वेन, अहेतुकत्वेन, अदृश्यहेतुकत्वेन वा भवेत् ? तत्र न तावत् प्रथमः पक्षः, असतो जन्यत्वात्, “सदेव न जन्यते” [ ] इति त्वदभिप्रायात् सत एव जन्यमानत्वानुपपत्तेः; कार्यत्वस्य च कादाचिकत्वेन सिद्धत्वात् । नाप्यहेतुकत्वम्, कादाचित्कत्वेनैव; अहेतुत्वे तदयोगात् । नाप्यदृश्यहेतुकत्वम् , ३५ धूमस्याश्यादिसामग्रयन्वय-व्यतिरेकानुविधानात् । अथापि स्याद् अदृश्यस्यायं स्वभावो यदझ्यादिसनिधान एव धूमम्, कर्पूरोर्णादिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति, तत् किमग्निमन्तरेण कदाचिद् धूमोत्पत्तिदृष्टा येनैवमुच्यते? नेति चेत्, कथं नाग्निकार्यो धूमस्तद्भावे भावात् ? धूमोत्पत्तिकाले च सर्वदा प्रतीयमानोऽग्निः काकतालीयन्यायेन व्यवस्थित इत्यलौकिकम् । अथ स एवाश्यस्य स्वभावो यदग्निसन्निधान एव धूमं करोति ननु यद्यग्निना नासावुपक्रियते किमग्निसन्निधानाद्न पूर्व४० पश्चाद् वा धूमं विद्धाति? न चान्यदा करोतीति तस्य तजन्यस्वभावसव्यपेक्षस्य धूमजनने तदेव १पृ० ४९५०३। २ पृ.४९ पं० १९। ३ पृ. ५० ५०३५। ४ कार्यधर्मानुवृत्तितः वा०। ५-व च प्रमाणं भा०, मां०। ६ कार्यस्य च वा०, बा. विना। -वादृश्यस्वभावो भां०। ८ तदेवं भा०, गु०। स० त०८
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy