SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५८ प्रथमे काण्डेपारंपर्येणाग्निजन्यत्वं धूमस्य। किंच, यथा देश-कालादिकमन्तरेण धूमस्यानुत्पत्तेस्तदपेक्षा प्रतीयते तथाऽग्निमन्तरेणापि धूमस्यानुत्पत्तिदर्शनात् तदपेक्षा केन वार्यते? तदपेक्षा च तत्कार्यतैव । यथा चादृश्यभावे एव धूमस्य भावात् तज्जन्यत्वमिष्यते तथा सर्वदाऽग्निभावे एव धूमस्य भावदर्शनात् तजन्यता किं नेष्यते? यावतां च सन्निधाने भावो दृश्यते तावतां हेतुत्वं सर्वेषामित्यन्यादिसाम५ग्रीजन्यत्वाद् धूमस्य कुतोऽग्निव्यभिचारः? न चायं प्रकारोऽसर्वज्ञत्व-वक्तृत्वयोः संभवति, असर्वज्ञत्वधर्मानुविधानस्य वचने अदर्शनात् । तथाहि-यदि सर्वशत्वादन्यत् पर्युदासवृत्त्या किश्चिज्ज्ञत्वमसर्वज्ञत्वमुच्यते तदा तद्धर्मानुविधानाऽदर्शनान्न तजन्यता वचनस्य । नहि किश्चिज्ज्ञत्वतरतमभावात् वचनस्य तरतमभाव उपलभ्यते । तथाहि-किञ्चिज्ज्ञत्वं प्रकृष्टम् अत्यल्पविज्ञानेषु कम्यादिपु, न च तेषु वचनप्रवृत्तेरुत्कर्ष उपलभ्यते । अथ १०प्रसज्यप्रतिषेधवृत्त्या सर्वज्ञत्वाभावोऽसर्वज्ञत्वं तत्कार्य तु वचनं तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात्, न च कदाचनापि तत् तत्रोपलभ्यते । शानातिशयवत्सु च सकलशास्त्रव्याख्यातृषु वचनस्यातिशयभावो दृश्यते इति ज्ञानप्रकर्षतरतमाधनुविधानदर्शनात् तत्कार्यता तस्य-धूमस्येवान्यादिसामग्रीगतसुरभिगन्धाद्यनुविधायिनो-यथोक्तप्रत्यक्षाऽनुपलम्भाभ्यां व्यवस्थाप्यते । अत एव कारणगतधर्मानुविधानमेव कार्यस्य तत्कार्यतावगमनि१५मित्तम् न पुनरन्वय-व्यतिरेकानुविधानमात्रम् । तदुक्तम् "कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः”। [ ] इति । यञ्च यत्कार्यत्वेन निश्चितं तत् तदभावे न कदाचिदपि भवति, अन्यथा तहेतुकमेव तन्न स्यादिति सकृदपि ततो न भवेत् ः भवति च यद् यत्र निश्चिताविसंवादं वचनं तत् तद्विसंवादिज्ञानविशेषाद् इत्यात्मन्येवासकृनिश्चितमिति नान्यतस्तस्य भावः: तेन "यद् यस्यैव गुण-दोषान् नियमेनानुवर्तते । तन्नान्तरीयकं तत् स्यादतो ज्ञानोद्भवं वचः॥ [ ] अथ यदि नामाविसंवादिज्ञानधर्मानुकरणतोऽविसंवादि वचनमेकं तत्प्रभवं यथोक्तप्रत्यक्षाऽनुपलम्भतोऽवगतं तदन्यतो न भवति, तथाप्यन्यवचनस्य तद्धर्मानुकरणतो न तत्कार्यत्वसिद्धिरिति तस्यान्य तोऽपि भावसंभवात् कुतोऽव्यभिचारः? नः ईदृग्भूतं वचनमीदृक्षज्ञानतः सर्वत्र भवतीति सकृत्प्रवृ२५त्तप्रत्यक्षतोऽवगमात् । ननु सकलव्यक्त्यनुगततिर्यक्सामान्यानभ्युपगमे यावन्ति तथाभूतवचांसि तानि सर्वाणि प्रत्यक्षीकरणीयानि तथाभूतज्ञानकार्यतया, अन्यथैकस्यापि वचसस्तद्याप्ततयाऽप्रत्यक्षीकरणे तेनैव व्यभिचारी हेतुः स्यात्। न चैतावत्प्रत्यक्षीकरणसमर्थ प्रत्यक्षम्, तस्य सन्निहितविषयत्वात्। न चान्येषां स्वलक्षणानामनुमानात् साध्यधर्मेण व्याप्तिग्रहणम्, अनवस्थाप्रसङ्गत्: तयुक्ताम् । यतःप्रत्यक्षं तथाभूतज्ञानसन्निधान एव तथाभूतवचनमेदात् (दान् ) प्रतिपद्य एषु अतथाभूतवचनव्यावृत्तं रूपम३० तथाभूतज्ञानव्यावृत्तज्ञानजन्यम्'इत्यवधारयति, यथाऽत्र तथाऽन्यत्रापि देश-कालादौ 'तथाभूतज्ञानजन्यमेव'इत्यप्यवधारयति; अन्यथाऽत्रापि तथाभूतज्ञानजन्यतया न प्रत्यक्षेणावधार्यत। एवं हि तथाभूताऽतथाभूतज्ञानजन्यतया तथाभूतवचनस्य प्रतीतिः स्यात् न तथाभूतज्ञानजन्यतयैव; प्रतीयते च तथाभूतज्ञानजन्यतया तथाभूतं वचनम्। तस्मादन्यत्रान्यदा च तथाभूतज्ञानादेव तथाभूतवचनमिति कुतो व्यभिचारः? यश्च तद्रूपमन्यतो व्यावृत्तमवधारयितुं शक्नोति तस्यैव तदनुमानम् , यथा बाष्पा३५दिवि लक्षणधूमावधारणेऽत्यनुमानम् । किंच, तिर्यक्सामान्यवादिनोऽपि गोपालघटिकादौ धूमसामा न्यस्याग्निमन्तरेणापि दर्शनाद् व्यभिचाराशङ्कयाऽग्निनियतधूमसामान्यावधारणेनैव तदनुमानम् अग्निनियतधूमसामान्यावधारणं चाग्निसंबद्धधूमव्यक्त्यवधारणपुरस्सरमेव; न च सर्वदेशादावग्निसंबद्धधूमव्यक्तिविशिष्टस्य धूमसामान्यस्य केनचित् प्रमाणेनावधारणं संभवति; न च महानसादावग्निनियतधूमव्यक्तिविशिष्टं धूमसामान्यं प्रतिपन्नमन्यत्रानुयायि, व्यक्तेरनन्वयात्; यच्च धूमसामान्यमनुयायि तद् ४० नाग्यव्यभिचारि; तस्मात् सामान्यव्याप्तिग्रहणवादिनामपि कथं विशिष्टधूमसामान्यं सर्वत्राग्निना व्याप्तं प्रतिपन्न मिति तुल्यं चोद्यम् । अथ विशिष्टधूमस्यान्यत्राग्निजन्यत्वे न किञ्चिद् बाधकमस्ति, 'तदेवेदम्' इति च प्रतीतेः तत्सामान्यं प्रतीतमिष्यते; अस्माकमपि 'तदेवेदं वचनम् इति प्रत्ययस्योत्पत्तेस्तत् प्रतिपन्नमिति सदृशपरिणामलक्षणसामान्यवादिनो जैनस्य भवतो वा को विशेषोऽत्र वस्तुनि? इति १-त्रप्रभवती-बा०,मां०,वा०।२ तथाभूतातथाभूतवचनस्य भा०, का०मा० । ३ तथाभूतवचनम् गु.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy