SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रथमे काग्डे प्रवृत्तिप्रतिपादनं तत् तदभावावेदकस्वतन्त्राभावाख्यप्रमाणाभ्युपगमव्यतिरेकेणासंभवद् भवतां मिथ्यावादितां सूचयति । यदप्यादि 'तथा च प्रसङ्गसाधनाभिप्रायेण भगवतो जैमिनेः सूत्रम् इत्यादि, तदप्यसङ्गतम्: यतः प्रसङ्गसाधनस्य तत्पूर्वकस्य च विपर्ययस्य व्याप्यव्यापकभावसिद्धौ यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः व्यापकनिवृत्तितो व्याप्यनिवृत्तिरवश्यंभाविनी च ५प्रदर्श्यते तत्र यथाक्रमं प्रवृत्तिः, अत्र तु प्रत्यक्षत्वस्य सत्संप्रयोगजत्वेन, तस्य च विद्यमानोपलम्भ. नत्वेन, तस्यापि धर्नादिकं प्रत्यनिभित्तत्वेन क्व व्याप्यव्यापकभावावगमो येन प्रसङ्ग-तद्विपर्यययोः प्रवृत्तिः स्यात् ? ननक्तमेवैतत् 'स्वात्मन्येव' सत्यम्; उक्तं नतु युक्तमुक्तम् । अयुक्तता च-सर्व चक्षुरादिकरणग्रामप्रभवं प्रत्यक्षं सन्निहितदेश-काल-पदार्थान्तरस्वभावाविप्रकृष्टप्रतिनियतरूपादिग्राहकं सर्वत्र सर्वदा चेति न व्याप्यव्यापकभावग्राहकं प्रमाणमस्ति, विपर्ययश्चोपलभ्यते-योजन१०शतविप्रकृष्टस्यार्थस्य ग्राहकं संपातिगृध्रराजप्रत्यक्षं रामायण-भारतादौ भवत्प्रमाणत्वेनाभ्युपगते श्रूयते, तथेदानीमपि गृध्र-वराह-पिपीलिकादीनां चक्षुः-श्रोत्र-घ्राणजस्य प्रत्यक्षस्य यथाक्रम रूप-शब्द-गन्धादिषु देशविप्रकृऐषु प्रवृत्तिरुपलभ्यते, तथा कालविप्रकृष्टस्याप्यतीतकालसंबन्धित्वस्य पूर्वदर्शनसंबन्धित्वस्य च स्मरणसव्यपेक्षलोचनादिजन्यप्रत्यभिज्ञाप्रत्यक्षग्राह्यत्वं पुरोव्यव. स्थितेऽर्थे भवताऽभ्युपगम्यते: अन्यथा “देश-कालादिभेदन तदाऽस्त्यवसरो मितेः" । [ श्लो० वा० सू०४, श्लो० २३३ ] ___ "इदानींतनमस्तित्वं नहि पूर्वधिया गतम्"। [ श्लो० वा० सू०४, श्लो०२३४] इत्यादिवचनसंदर्भेण प्रत्यभिज्ञाप्रत्यक्षस्यागृहीतार्थाधिगन्तृत्वं पूर्वापरकालसंबन्धित्वलक्षणनित्यस्वग्राहकत्वं च प्रतिपाद्यमानमसङ्गतं स्यात् । अथातीतातीन्द्रियकालसंबन्धित्वं पूर्वदर्शनसंबन्धित्वं वा वर्तमानकालसंबन्धिनः पुरोग्यवस्थितस्यार्थस्य यदि चक्षुरादिप्रभवप्रत्यभिज्ञानेन गृह्यते तदा२० “संबद्धं वर्तमानं च गृह्यते चक्षुरादिभिः”। [श्लो० वा० सू० ४ श्लो० ८४ ] इति वचन विरुद्धार्थ स्यात् , तथाऽतीन्द्रियकाल-दर्शनादेर्वतमानार्थ विशेषणत्वेन ग्रहणेऽतीन्द्रिय धर्मादेरपि ग्रहणप्रसङ्गात् प्रसङ्गसाधन-तद्विपर्यययोरप्रवृत्तिः स्वयमेव प्रतिपादिता स्यात् ; नन्वयमेवात्र दोषः कालविप्रकृष्टार्थ ग्राहकन्वेन इन्द्रियजप्रत्यक्षस्य प्रतिपादयितुमस्माभिरभिप्रेत इति कस्यात्रोपालम्भः। अथ वर्तमानकालसंबद्ध विशेप्ये पुरोवर्तिनि व्यापारवच्चक्षुस्तद्विशेषणभूतेऽती. २५न्द्रियेऽपि पूर्वकालदर्शनादो प्रवर्त्तते, अन्यथा चक्षुर्व्यापारानन्तरं 'पूर्वदृष्टं पश्यामि' इति विशेष्यालम्बनं प्रत्यभिज्ञानं नोपपद्यत, नागृहीतविशेषणा विशष्ये बुद्धिरुपजायते दण्डाग्रहण इव दण्डिबुद्धिः न च धर्मादावयं न्यायः संभवतीति चेत्, ननु धर्मादेः किमीन्द्रियत्वाच्चक्षुरादिनाऽग्रहणम्, उत अविद्यमानत्वात् , आहोस्विद् अविशेषणत्वात् ? तत्र नाद्यः पक्षः, अतीन्द्रियस्याप्यतीतकालादेर्ग्रहणाभ्युपगमात्। नाप्यविद्यमानत्वात् ,भाविधर्मादेरियातीतकालादेरविद्यमानत्वेऽपि प्रति३०भासस्य भावान् । अथाविशेषणत्वाद्धर्मादेरप्रतिभासः, तदप्यसङ्गतम्। सर्वदा पदार्थजनकत्वेन द्रव्य-गुण-कर्मजन्यत्वेन च धर्मादेः सर्वपदार्थविशषणभावसंभवाद् अतीतातीन्द्रियकालादेरिव तस्यापि विशेष्यग्रहणप्रवृत्तचक्षुरादिना ग्रहणसंभव इति कथं धर्म प्रत्यनिमित्तत्वप्रसङ्गसाधनस्य तद्विपर्ययस्य वा संभवः? तथा, प्रश्नादि-मन्त्रादिद्वारेण संस्कृतं चक्षुर्यथा काल विप्रकृष्टपदार्थग्राहकमुपलभ्यते तथा धर्मादेरपि यदि ग्राहकं कस्यचित् स्यात् तदा न कश्चिद्दोषः। अपि च, अनालो३५कान्धकारव्यवहितस्य मूषिकादेनक्तंचरवृषदंशादेश्चक्षुर्यथा ग्राहकमुपलभ्यते तथा यद्यतीन्द्रियाती. ताऽनागतधर्मादिपदार्थसाक्षात्कारि कस्यचित् तदेव स्यात् तदाऽत्रापि को दोषः ? न च जात्यन्तरस्यान्धकारव्यवहितरूपादिग्राहकं चक्षुईष्टं न पुनर्मनुष्यधर्मण इति प्रतिसमाधानमत्रामिधातुं युक्तम्, मनुष्यधर्मणोऽपि निर्जीविकादेद्रव्यविशेषादिसंस्कृतं चक्षुः समुद्रजलादिव्यवहितपर्वतादि. १ तद्भावा-वा०, बा०, मा० विना। २ पृ. ४८ पं० १५। ३ पृ० ४९ पं०३८ । ४ तत्रा-वा०, बा० । ५ तथा- आ० । ६ श्रश्नादि-वा०, बा। प्रश्रादि-कृ० । अत्र स्थले प्रमेयक मार्तण्टेऽपि एतदेव "प्रश्नादिमन्त्रादिना"-पृ०७१, दि० पृ००२। "प्रश्नाः विद्याविशेषाः' -प्रभव्या० टी० पृ० १। अथवा प्रश्निः-औषधी विशेषः । ७ निजीविका वि०, आ०, कृ. । निजायका-वा । निजीयवा--वा ! “निजीविका"-मेय. पृ. ७१ द्वि.पृ.पं. २। "निजावकः कर्णधारः" प्रेमय. टि. ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy