SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। "पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा। सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते" ॥ [ ] इत्याद्यपक्षधर्महेतुसमुत्थानुमानप्रामाण्यप्रतिपादनं भवतोऽप्ययुक्तं स्यात् । यदप्यभ्यधायि 'सर्वशसत्तायां साध्यायां त्रयीं दोषजाति हेतु तिवर्त्तते' इत्यादि, तत्र स्यादप्ययं दोषः यदि तत्सत्ता साध्यत्वेनाभ्युपगम्यते; यावता पूर्वोक्तप्रकारेण वचनविशेषस्य विशिष्टकारणपूर्वकत्वं साध्यमित्यु- ५ तम्, तत्र चास्य दोषस्योपक्षेपोऽगुक्त एव । यदप्यभ्यधायि 'यद्यनियतः कश्चित् सकलपदार्थज्ञः साध्योऽभिप्रेतः' इत्यादि, तदप्यसङ्गतमेव; यतो नास्माभिः प्रतिनियत एव कश्चित् सर्वशोऽनुमानात् साध्यते किन्तु विशिष्टकारणपूर्वक्रत्वं विशिष्टशब्दस्य; तच्च स्वसाध्यव्याप्तहेतुबलात् साध्यधर्मिणि सिद्धिमासादयद् हेतुपक्षधर्मत्वनलात् प्रतिनियतसर्वज्ञपूर्वकत्वेनैव सिद्धिमासादयति।नच 'तत एव हेतोरन्यस्यापि सर्वज्ञस्य सिद्धरन्यागमाश्रयणपपि भवतां प्रसज्यते' इति दूषणम्, अन्याग-१० मानां दृष्टविषय एव प्रमाणविरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यय व्यवस्थापयिष्यमाणत्वात् कथं तत्प्रणेतृणामपि सर्वज्ञत्वसिद्धिः। यश्चान्यदभिहितम् 'न कथित् सक्षप्रतिपादकः सम्यग् हेतुः संभवति', तदप्यसङ्गतम्। तत्प्रतिपादकस्य सम्यग्घेतोर्वचनविशेषत्वादेः प्रतिपाविप्यमाणत्वाता यश्चान्यदभिहितम् ‘सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वार, अग्न्यादिवत्' इत्यत्र 'यदि सकलपदार्थमाहिप्रत्यक्षत्वं साध्यम्' इत्यादि, तदप्यसङ्गतम् ; एवं साध्यधिकल्पनेऽश्यादेरप्यनुमानान्न १५ सिद्धिः स्यात् । तथाहि-अत्राप्येवं वणुं शक्यते-यदि प्रतिनियतसाध्यधर्मिधर्मो वह्निः साध्यत्वेनाभिप्रेतस्तदा तद्विरुद्धेन दृष्टान्तधर्मिणि तद्धर्मिधर्मेण पावकेन व्याप्तस्य धूमलक्षणस्य हेतोरसिद्धत्वाद् विरुद्धो हेतुः स्यात् साध्य विकलश्च दृष्टान्तः। अथ दृष्टान्तधर्मिधर्मः साध्यधर्मिणि साध्यते तदा प्रत्यक्षादिविरोधः। अथोभयगतं वह्निसामान्यं तदा सिद्धसाध्यतादोपः। 'तथा प्रमेयत्वमपि हेतुस्वेनोपन्यस्यमानम्' इत्यादि यर्दुक्तं तद् धूमलक्षणेऽपि हेतौ समानम् । तथाहि-अत्रापि किं साध्य-२० धर्मिधर्मों हेतुत्वेनोपात्तः, उत दृष्टान्तधर्मिधर्मः, अथोभयगतं सामान्यम् ? तत्र यदि साध्यधर्मिधर्मो हेतुः, स दृष्टान्तधर्मिणि नान्वेतीत्यनन्वयो हेतुदोषः । अथ दृष्टान्तधार्मिधर्मः, स साध्यधर्मिण्यसिद्ध इत्यसिद्धताहेतुदोषः। अथोभयगतं सामान्यम्, तदपि प्रत्यक्षाऽप्रत्यक्षमहानसपर्वतप्रदेशविलक्षणव्यक्तिद्वयाश्रितं न संभवतीति हेतोरसिद्धता तदवस्थिता । अथ पर्वतप्रदेशाश्रिताग्नितमव्यक्तरुत्तरकालभाविप्रत्यक्षप्रतीयमानत्वेन न महानसोपलब्धधूमव्यक्त्याऽत्यन्तवैलक्षण्यमिति २५ नोभयगतसामान्याभावः; ननूभयगतसामान्यप्रतिपत्तौ ततोऽनुमानप्रवृत्तिः, तत्प्रवृत्तौ च तदर्थक्रियार्थिनस्तत्र प्रवर्तमानस्य प्रत्यक्षप्रवृत्तिः, तस्यां च सत्यामत्यन्तवैलक्षण्याभावस्तद्यक्तेः, तत्सद्भावे चोभयगतसामान्यसिद्धितस्तदनुमानप्रवृत्तिरिति चक्रकदूषणावकाशः। अथ कण्ठक्षीणतादिलक्षणधमैकलापसाधान्न महानस-पर्वतप्रदेशलगतधूमव्यक्त्योरत्यन्तवैलक्षण्यमित्युभयगतसामान्यसिद्धौ न धूमानुमाने हेत्वसिद्धतादिदोषस्तर्हि वाच्याविसंवादादिधर्मकलापसाधर्म्यस्य वचनविशेषव्यक्तिद्व-३० येऽप्यत्यन्तवैलक्षण्यनिवर्तकस्य सद्भावेन कथं न तद्विशेषत्वसामान्यसंभवः? प्रमेयत्वं तु यथा प्रकृतसाध्ये हेतुर्भवति तथा प्रतिपादयिष्यामः, आस्तांतावत्। यत्तु 'नापि शब्दात् तत्सिद्धिः' इत्यादि प्रति. पादितं तत् सिद्धसाध्यतादोषाघ्रातत्वान्निरस्तम् । यदप्युक्तम् 'ये देश-काल-इत्यादिप्रयोगे नासिद्धो हेतुः' इति,एतदप्ययुक्तम् ; अनुमानस्य तदुपलम्भस्वभावस्य प्रतिपादयिप्यमाणत्वेनानुपलम्भलक्षणस्य हेतोः परप्रयुक्तस्यासिद्धत्वात्। अत एव 'सद्यवहारनिषेधश्चानुपलम्भनिमित्तोऽनेन' इत्याद्यसारतया ३५ स्थितम् । 'अथ यथाऽस्माकं तत्सद्भावाऽऽवेदकं प्रमाणं नास्ति तथा भवतां तदभावाऽऽवेदकमपि नास्ति' इत्यादि यावत् 'प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितम्' इति यदुक्तम्, तदप्यचारु, यतः "सर्वशो दृश्यते तावन्नेदानीम्" [श्लो० वा० सू०२, श्लोक ११७ ] इत्यादिना तत्सद्भावोपलम्भकप्रमाणपञ्चकनिवृत्तिप्रतिपादनद्वारेण यद् अभावाख्यप्रमाण १पृ. ४४ पं०८॥ २ पृ. ४४ पं० १३ । ३ पृ. ४४ पं. १६। ४ पृ०४४ पं०१३। ५ पृ. ४४ पं. १७।६ पृ. ४४ पं० १८ । ७-साध्यधर्मो भां०, वा०, मां० विना । ८ पृ. ४४ पं० २३ । ९ धूमस्वलक्षणे भां०, का. वा०, मां०। १०पृ. ४४ पं० ३३ । ११ पृ. ४५पं०१५। १२ पृ० ४५ पं०१५-१६ । १३ पृ. ४५ 4.१७॥ १४ पृ०४८ पं०१४। १५ पृ.४५ पं. ८॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy