SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५४ प्रथमे काण्डे यत्प्रतिभास एकमाजिबन्धनस्तयोस्तदवगम इति नायं दोषः, तदपि घटप्रतिभासानन्तरं पटप्रतिभासे क्वचिदाने समानम्। न च क्रमभाविपदार्थद्वयप्रतिभासमन्वय्येकं ज्ञानमिति शक्यं वक्तुम्, प्रतिभासमेदस्य मेदनिबन्धनत्वात्; अन्यत्रापि तद्भेदव्यवस्थापितत्वाद् भेदत्य, स च क्रमभाविप्रतिभासहयाध्यासितज्ञाने समस्सीति कथं न तस्य भेदः? न चैकमेव शानं जन्मानन्तरक्षणादिका५लमास्त इति भवतामभ्युपगमः । तदुक्तम्-"क्षगिका हि सा, न कालान्तरमास्ते" [ ] इति । अथ वह्नि-धूमस्वरूपद्वय माहिशानद्वयानन्तरभाविस्मरणसहकारि इन्द्रियं सविकल्पकशानं जनयति तत्र तवयस्य पूर्वापरकालभाविनःप्रतिभासात् कार्यकारणभावनिश्चयो भविष्यति, तदप्यसङ्गतम् पूर्वप्रवृत्तप्रत्यक्षद्वयस्य तत्राव्यापारान् तदुत्तरस्मरणस्य च पदार्थमात्रग्रहणेऽप्यसामर्थ्याचक्षुरा दीनां च तदवगमशानजननेऽशक्तेः शक्ती वा प्रथमाक्षसन्निपातवेलायामेव तदवगमज्ञानोत्पत्तिप्रस१०ङ्गाद् अकिश्चित्करस्य स्मरणादेरनपेक्षणीयत्वात् परिमलस्मरणसव्यपेक्षस्य लोचनस्य 'सुरमि चन्दनम्' इत्यविषये गन्धादौ ज्ञानजनकत्वस्येव तत्रापि तज्जनकत्वविरोधात् । अथ तत्स्मरणसव्यपेक्षलोचनव्यापारानन्तरं 'कार्यकारणभूते एते वस्तुनी' इत्येतदाकारज्ञानसंवेदनात् कार्यकारणभावावगमः सविकल्पकप्रत्यक्षनिबन्धनो व्यवस्थाप्यते; नन्वेवं परिमलस्मरणसहकारिचक्षुर्व्यापारानन्तरभावी 'सुरमि मलयजम्' इति प्रत्ययः समनुभूयत इति परिमलस्यापि चक्षुर्जप्रत्ययविषयत्वं स्यात् । अथ १५परिमलस्य लोचनाविषयत्वाद् नायं प्रत्ययस्तजः किन्तु गन्धसहचरितरूपदर्शनप्रभवानुमान स्वभावः, तदेतत् प्रकृतेऽपि कार्यकारणभावे लोचनाविषयत्वं समानम् प्रत्ययस्य तु तदध्यवसा. यिनोऽपरं निमित्तं कल्पनीयम्; तन्न प्रत्यक्षतः सविकल्पकादपि धूम-पावकयोः कार्यकारणत्वावगमः। मानसप्रत्यक्षं तु तदवगमनिमित्तं भवता नाभ्युपगम्यते । अपि च, कार्यकारणभाव: सर्वदेश-कालावस्थिताखिलधूम-पावकव्यक्तिकोडीकरणेन अवगतोऽनुमाननिमित्ततामुपगच्छति, २०न च प्रत्यक्षस्येयति वस्तुनि सचिवाल्पकस्य निर्विकल्पकस्य वा व्यापारः संभवतीत्यसकृत् प्रतिपादितम् । किंच, न कारणस्य प्राग्भावित्वमात्रमेव बौद्धानामिव कारणत्वम्-येन तस्य कारणस्वरूपाभेदात् तत्स्वरूपग्राहिणा प्रत्यक्षेण तदमिन्नस्वभावस्य कारणत्वस्याऽप्यवगमः, केवलं कार्यदर्शनादुतरकालं तन्निश्चीयते-किन्तु कारणस्य कार्यजननशक्तिः कारणत्वम् सा च शक्तिर्न प्रत्यक्षावसेया अपि तु कार्यदर्शनसमवगम्या भवता परिकल्पिता । तदुक्तम्२५ "शक्तयः सर्वभावानां कार्याऽर्थापत्तिगोचराः"। श्लोव्वा०सू०५, शून्य० श्लो० २५४] ततः कथं प्रत्यक्षात् कारणस्य कारणत्वावगमः? अथ कार्यादेव कारणस्य कारणत्वावगमो भवतु किं नश्छिन्नम्। ननु कार्यात् कारणस्य कारणत्वावगमेऽनुमानाच्छक्त्यवगमः, तत्र च तदपि कार्य लिङ्गभूतं यदि कारणशक्तिमवगमयति तदा शक्ति-कार्ययोः प्रतिबन्धग्रहणमभ्युपगन्तव्यम् । स च प्रतिबFधावगमो न प्रत्यक्षादिति प्रतिपादितम् । अनुमानात् तदवगमे इतरेतराश्रयाऽनवस्थादोषावारोऽ. ३० त्रापि समानः। अर्थापत्तेस्त्वनुमानेऽन्तर्भावः प्रतिपादित इति न प्रसिद्धानुमानस्यापि प्रवृत्तिर्भवदभिप्रायेण । अथ वहिगतधर्मानुविधानाद् धूमस्य तत्पूर्वकत्वं कुतश्चित् प्रमाणात् प्रसिद्धमिति धूमत्वस्य तत्पूर्वकत्वव्याप्तिसिद्धिः-अन्यथा धूमादग्न्यसिद्धेः सकललोकप्रसिद्धव्यवहाराभावः, अनुमानाभावे प्रत्यक्षतोऽपि व्यवहारासम्भवात्-तर्हि वचनविशेषस्यापि यदि विशिष्टकारणपूर्वकत्वं तत एव प्रमाणात् प्रसिद्धं विवादाध्यासिते वचने वचनविशेषत्वात् साध्येत तदा कोऽपराधः? ३५ यदप्युक्तम् 'पक्षधर्मत्वनिश्चये सति हेतोरनुमानं प्रवर्तते, न च सर्ववित् कुतश्चित् प्रमा णात् सिद्धः' इत्यादि, तदप्ययुक्तम्; यतो यदि सर्वविदो धर्मित्वं क्रियेत तदा तस्यासिद्धत्वात् स्यादप्यपक्षधर्मत्वलक्षणं दूषणम्। यदा तु वचनविशेषस्य धर्मित्वं तस्य विशिष्टकारणपूर्वकत्वं साध्यत्वेनोपक्षिप्तं तदा तत्र तद्विशेषत्वादिलक्षणो हेतुरुपादीयमानः कथमपक्षधर्मः स्यात् ? न चापक्षधर्मादप हेतोरुपजायमानमनुमानं प्रमाणं भवताऽभ्युपगच्छता पक्षधर्मत्वाभावलक्षणं ४० दूषणमासञ्जयितुं युक्तम् । अन्यथा १ अयमर्थः शाबरभाष्ये एवं प्रदर्शितः "क्षणिका हिसा, न बुद्धयन्तरकालमवस्थास्यते इति"-पृ०७पं० २४ का। २ पृ. ३३ पं० २९ तथा पृ० ४३ पं०३२। ३-त्वस्यावगमः वा०, बा०, पू० विना सर्वत्र । ४ कारणे वा०, मा०पू०। ५-६ पृ.१५०२५-३५। ७ पृ.४६ पं०३६ । ८.४ पं०६।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy