SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः । ५३ सैवानवस्था। अतीतानागतकालसंबन्धात् पदार्थक्रियाणामतीतानागतत्वं तर्हि कालस्याप्यतीतानागतपदार्थक्रियासंबन्धादतीतानागतत्वमिति व्यक्तमितरेतराश्रयत्वम्, तन्न प्रथमः पक्षः। अथ स्वरूपत एव कालस्यातीतानागतत्वं तदा पदार्थानामपि स्वत एवातीतानागतत्वमस्तु किमतीताना. गतकालसंबन्धित्वेन ? तच्च पदार्थस्वरूपमस्मदादिज्ञानेऽपि प्रतिभातीति नातीतानागतपदार्थग्राहित्वे. नामदादिभ्यःसर्वज्ञस्य विशेषः। अपि च,संबन्धस्यान्यत्र विस्तरतो निषिद्धत्वान्न कस्यचित् केनचित् ५ संबन्ध इत्यतीतानागतादिसंबद्धपदार्थग्राहिज्ञानमसदर्थविषयत्वेन भ्रान्तं स्यादिति न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्तः। भवतु वा सर्वशस्तथाप्यसौ तत्कालेऽप्यसर्वज्ञातुं न शक्यते, तदूग्राह्यपदार्थाज्ञाने तद्ग्राहकज्ञानवतः केनचित् प्रमाणेन प्रतिपत्तुमशक्तेः । तदुक्तम्-- "सर्वज्ञोऽयमिति ह्येतत् तत्कालेऽपि बुभुत्सुमिः। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्?॥ कल्पनीयास्तु सर्वज्ञा भवेयुर्बहवस्तव । य एव स्यादसर्वशः स सर्वशं न बुध्यते" ॥ [श्लो० वा० सू०२, श्लो० १३४-१३५] न च तदपरिज्ञाने तत्प्रणीतत्वेनागमस्थ प्रामाण्यमवगन्तुं शक्यम्। तदनवगमे च तद्विहितानुष्ठाने प्रवृत्तिरप्यसङ्गता । तदुक्तम् "सर्वज्ञो नावबुद्धश्चेद् येनैव स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेन वाक्यवत्" ॥ [श्लो० वा० सू०२, श्लो० १३६] इति । तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्याभावात् तत्सद्भावबाधकस्य चानेकधा प्रतिपादितत्वात् सर्वज्ञाभावव्यवहारः प्रवर्त्तयितुं युक्तः। तथाहि-ये बाधकप्रमाणगोचरतामापन्नास्ते 'असद्' इति व्यवहर्त्तव्याः, यथा अङ्गाल्यग्रे करियूथादयः, बाधकप्रमाणगोचरापन्नश्च भवदभ्युपगमविषय:२० सकलपदार्थसार्थसाक्षात्कारीत्यसयवहारविषयत्वं सर्वविदोऽभ्युपगन्तव्यमिति पूर्वपक्षः॥ [ उत्तरपक्षः-सर्वज्ञसत्तासाधनम् ] अत्र प्रतिविधीयते-यत्तावदुक्तम् 'ये देश-काल-स्वभावव्यवहिताः प्रमाणविषयतामनापन्ना न ते सद्यवहारगोचरचारिणः' इत्यादि, तदयुक्तम्। सर्वविदि प्रमाणविषयत्वस्य प्रतिपादयिष्यमाणत्वाद् असिद्धो हेतुस्तदविषयत्वलक्षणः । यदप्यभ्यधायि 'न ताददक्षसंभवज्ञानसंवेद्यस्तद्भावः,२५ अक्षाणां प्रतिनियतविषयत्वेन तत्साक्षात्करणव्यापारासंभवात् तत् सिद्धमेव साधितए । यदप्युक्तम् 'नाप्यनुमानस्य तत्र व्यापारः, तद्धि प्रतिबन्धग्रहणे पक्षधर्मताग्रहणे चहेतोः प्रवर्तते; न च प्रतिबन्धग्रहणं प्रत्यक्षतस्तत्र संभवति' इत्यादि, तद् धूमादेरग्न्यादिप्रभवत्वानुमानेऽपि समानम् । अथान्यादेः प्रत्यक्षत्वात् तत एव तत्प्रभवत्व-कार्य विशेषत्वयोधूमादौ प्रतिबन्धसिद्धिः, ननु धूमस्य किमग्निस्वरूपग्राहकप्रत्यक्षेण पावकपूर्वकत्वमवगम्यते, उत धूमस्वभावग्राहिणेति कल्पनाद्वयम् ।३० तत्र न तावदाद्यः पक्षा, पावकरूपग्राहि प्रत्यक्षं तत्स्वभावमात्रग्रहणपर्यवसितमेव न धूमरूपप्रवेदन. प्रवणम्, तदप्रवेदने च न तदपेक्षया तेन वह्नः कारणत्वावगमः नहि प्रतियोगिस्वरूपाग्रहणे तं प्रति कस्यचित् कारणत्वमन्यद्वा धर्मान्तरं ग्रहीतुं शक्यम्, अतिप्रसङ्गात् । अथ धूमस्वरूपप्रतिपत्तिमता प्रत्यक्षेण तस्य चित्रभानुं प्रति कार्यत्वस्वभावं तत्प्रभवत्वं गृह्यते, ननु तस्यापि पावकस्वरूपग्राहकत्वेनाप्रवृत्तेस्तद्ग्रहणे तदपेशं कार्यत्वं धूमस्य कथमवगमविषयः? अथाग्नि-धूमद्वयस्वरूपग्राहिणा३५ प्रत्यक्षेण तयोः कार्यकारणभावनिश्चयः, तदप्यसङ्गतम् । द्वयग्राहिण्यपि शाने तयोःस्वरूपमेव भाति न पुनरग्नेछूमं प्रति कारणत्वम् धूमस्य वा तं प्रति कार्यत्वम् न हि पदार्थद्वयस्य स्वस्वरूपनिष्ठस्यैकज्ञानप्रतिभासमात्रेण कार्यकारणभावप्रतिभासः; अन्यथा घट-पटयोरपि स्वस्वरूपनिष्ठयोरेकक्षानप्रतिभासः कचिदस्तीति तयोरपि कार्यकारणभावावगमप्रसङ्गः। अथ यस्य प्रतिभासानन्तरं १-त्वमिति प-वा०, मा०। २ मूलज्ञानेऽशवाक्यवत् वा०। ३ पृ. ४३ पं० २७॥ ४ पृ० ४३ पं०३१। ५पृ.४३ पं०३९। ६-स्य स्वरूप-मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy