SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे किंच, सर्ववेदनं सर्वशशानेन किं समस्तपदार्थग्रहणम्, उत शक्तियुक्तत्वम्, आहोस्वित् प्रधा. नभूतकतिपयपदार्थग्रहणम् ? तत्र यद्याद्यः पक्षस्तत्रापि वक्तव्यम्-किं क्रमेण तद्ब्रहणम् , आहोस्विद् योगपद्येन ? तत्र यदिक्रमेण तद्रहणम्, तदयुक्तम् अतीताऽनागतवर्तमानपदार्थानामपरिसमाप्तेस्तज्ज्ञानस्याप्यपरिसमाप्तितःसर्वशताऽयोगात्। अथ युगपदू अनन्तातीताऽनागतपदार्थसाक्षात्कारितद्वे. ५दनमभ्युपगम्यते, तदप्यसत्: परस्परविरुद्धानां शीतोष्णादीनामेकशाने प्रतिभासासंभवातः संभवे वा न कस्यचिदर्थस्य प्रतिनियतस्य तद् ग्राहकं स्यादिति तज्ज्ञानेन अस्सदादिभ्योऽपि व्यवहारिभ्यो हीनतर इति कथं सर्वज्ञः? किंच, यदि युगपत् सर्वपदार्थग्राहकं तज्ज्ञानम तदैकक्षणे एव सर्वपदार्थग्रहणादू द्वितीयक्षणेऽकिञ्चिज्ज्ञ एव स्यात् । ततश्च किं तेन तादृशाऽकिञ्चिज्ज्ञेन सर्वज्ञत्वेन? न चानाद्यनन्तसंवेदनस्य परिसमाप्तिः, परिसमाप्तौ वा कथमनाद्यनन्तता? किंच, सकलपदार्थ१०साक्षात्करणे परस्थरागादिसाक्षात्करणमिति रागादिमानपि स स्याद् विट इव । अथ रागादिसंवे दनमेव नास्ति न तर्हि सकलपदार्थसाक्षात्करणम् । तन्न प्रथमः पक्षः। अथ शक्तियुक्तत्वेन सकलपदार्थसंवेदनं तज्ज्ञानमभ्युपगम्यते, तदपि न युक्तम् ; सर्वपदार्थाऽवेदने तच्छक्तेातुमशक्ते, कार्यदर्शनानुमेयत्वाच्छक्तीनाम् । किंच, सर्वपदार्थज्ञानपरिसमाप्तावपि इयदेव सर्वम्' इति कथं परिच्छेदशक्तिः ? अथ वेदनाऽभावादभावोऽपरस्येति सर्वसंवेदनम् , अवेदनादभावोऽपरस्येति १५कुतो निश्चयः? तदपेक्षया तस्योपलब्धिलक्षणप्राप्तत्वात् तथाभूतानुपलब्ध्याऽभावनिश्चय इति चेत्, एवं सति स एवेतरेतराश्रयदोषः-सर्वज्ञत्वनिश्चये तदभावनिश्चयः, तदभावनिश्चयेच सर्वज्ञत्वनिश्चय इति नैकस्यापि सिद्धिः, तन्न द्वितीयोऽपि पक्षः। अथ यावदुपयोगि प्रधानभूतपदार्थजातं तावदसौ वेत्तीति तत्परिज्ञानात् सकलज्ञः, तदपि सर्वपदार्थाऽवेदने नियमेन न संभवति; 'सकलपदार्थव्यवच्छेदेन तेषामेव प्रयोजननिवर्त(वर्त)कत्वम्' इति सकलपरिज्ञानमन्तरेणाशक्यसाधनमिति न २० तृतीयोऽपि पक्षो युक्तः। किंच, नित्यसमाधानसंभवे विकल्पाभावात् कथं वचनम् ? वचने वा विकल्पसंभवात् समाधानविरोधान्न समाहितत्वमिति भ्रान्तच्छा स्थिकज्ञानयुक्तः स स्यात् । कथं वाऽतीतानागतग्रहणम् अतीतादेः स्वरूपस्यासंभवात्? असदाकारग्रहणे च तैमिरिकज्ञानवत् प्रमाणत्वं न स्यात् । अथातीतादिकमप्यस्ति, एवं सत्यतीतादित्वादेरप्यभाय एवेति सर्वज्ञव्यवहारोच्छेदः । २५ अथ प्रतिपाद्यापेक्षया तस्याभावः, तदप्ययुक्तम् । नहि विद्यमानमेवापेक्षया तदैवाविद्यमानं भवति । तस्यानुपलब्धेरविद्यमानत्वमेवेति चेत्, तदनुपलधिरेवास्तु कथमविद्यमानम् ? न ह्यन्यस्याभावेऽन्यस्याप्यभावः, अतिप्रसङ्गात् ! रास्यासावविद्यमानत्वेन प्रतिभातीति चेत्, स तर्हि भ्रान्तः, असद्विकल्पसंभवात् तस्यासद्विकल्पस्य विषयीकरणात् सर्वज्ञोऽपि भ्रान्त एवेति कथं सर्ववित् ? अथ विकल्पस्यापि स्वरूपेऽभ्रान्तत्वमेव तेन तस्य वेदनं सर्वज्ञानमभ्रान्तम् , एवं तर्हि ३० स्वरूपसाक्षात्करणमेव केवलम् कथमतीताधविद्यमानसाक्षात्करणम् ? ततश्चातीतानागतपदार्था भावात् तत्साक्षात्करणासंभवान्न तद्ब्रहणात् सर्वज्ञः। किंच, स्वरूपमात्रवेदने तन्मात्रस्यैव विद्यमानत्वात् तद्वेदनेऽद्वैतवेदनाद्न सर्वज्ञव्यवहारः तेद्भावे वा सर्वः सर्ववित् स्यात् । अथापि स्यात् सत्यस्वमदर्शनवद् अतीतानागतादिदर्शनम् ततो व्यवहारः इति, तदप्ययुक्तम्। सत्यस्वप्नदर्शनस्य स्वरूपमात्रवेदने न सत्यासत्यविभागः किन्वानुमानिका, सत्यस्वप्नस्वरूपसंवेदनस्य तन्मात्रपर्यव३५सितत्वात् । किंच, अतीतानागतकालसंबन्धित्वात् पदार्थानामतीतानागतत्वम् तद्धि भवत् किमपरातीतानागतकालसंबन्धाद् अभ्युपगम्यते, आहोस्वित् स्वत एव ? यद्यपरातीतानागतकालसंबन्धात् कालस्यातीतानागतत्वं तदा तस्याप्यपरातीतानागतकालसंबन्धादतीतानागतत्वम्, तस्याप्यपरस्मादित्यनवस्था । अथातीतानागतपदार्थक्रियासंबन्धात् कालस्यातीतानागतत्वं तेनायमदोषः, ननु पदार्थक्रियाणामपि कुतोऽतीतानागतत्वम् ? यद्यपरातीतानागतपदार्थक्रियासद्भावात् तदाऽत्रापि १-विरुद्धार्थानां भां, मां०, वा०। २-दिति किं तज्ज्ञा-भा०, कां०, गु०, आ०। ३ प्रमेयकमलमार्तण्डे एतत्स्थले एवं पाठः-"नाऽपि प्रधानभूतकतिपयार्थग्रहणम् , 'इतरार्थव्यवच्छेदेन एतेषामेव प्रयोजननिष्पादकत्वात् प्राधान्यम्' इति निश्चयो हि सकलार्थज्ञाने सत्येव घटते नान्यथा" -पृ. ७० प्रथ० पृ.पं.५ । ४-च्छन-वा. विना सर्वत्र । ५ सद्भावे वा वा० विना सर्वत्र । ६-लसंबन्धादतीताभ्युपगम्यते वा० विना सर्वत्र । -लसंबन्धादतीताऽनागतत्वमभ्युपगम्यते कां०। ७ अत्र 'कालस्य' इत्यध्याहार्यम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy