SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सर्वशवादः । अथ यद् अभ्यासविकलचक्षुरादिजनितं प्रत्यक्षं तद् धर्मादिप्राहकं न भवतीति प्रसङ्गसाधनात् सिध्यति न पुनरवादग्भूतम्, चोदनावदन्यादशस्य धर्मग्राहकत्वाविरोधात् । ननु किं तज्ज्ञानं प्रतिनियतचक्षुरादिजनितं धर्मादिग्राहकम्, उताभ्यासजनितम् , आहोस्वित् शब्दजनितम्, किंवाऽनुमानप्रभावितम् ? तत्र यदि चक्षुरादिप्रभवम्, तदयुक्तम् चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तत्प्रभवस्य तज्ज्ञानस्य धर्मादिग्राहकत्वायोगात् । अत एव "यदि ५ षद्भिः" इत्यांद्युक्तं दूषणमत्र पक्षे । अथाभ्यासजनितं तदिति पक्षा-तथाहि-शानाभ्यासात् प्रकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात् सकलभावातिशयपर्यन्तं संवेदनमवाप्यत इति, तदपि मनोरथमात्रम्; यतोऽभ्यासो हि नाम कस्यचित् प्रतिनियतशिल्पकलादौ प्रतिनियतोपदेशसद्धाववतो जन्मतो जनस्य संभाव्यते न तु सर्वपदार्थविषयोपदेशसंभवः । न च सर्वपदार्थविषयानुपदेशज्ञानसंभवो येन तज्ज्ञानाभ्यासात् सकलज्ञानप्राप्तिः,१० तत्संभवे वा सकलपदार्थविषयज्ञानस्य सिद्धत्वात् किमभ्यासप्रयासेन? किंच, तदभ्यासप्रवर्तकं शानं यदि चक्षुरादिप्रतिनियतकरणप्रभवमप्यन्येन्द्रियविषयरसादिगोचरम् अतीन्द्रियार्थगोचरं च स्यात् तदा पदार्थशके प्रतिनियतत्वेन प्रमाणसिद्धाया अभावात् प्रतिनियतकार्यकारणभावाभा. वप्रसक्तिसद्भावात् सकलव्यवहारोच्छेदप्रसक्तिः । अथाभ्याससहायानां चक्षुरादीनामपि सर्वज्ञाव. स्थायामतीन्द्रियदर्शनशक्तिर्न च व्यवहारोच्छेदः, अस्मदादिचक्षुरादीनामनभ्यासदशायां शक्तिप्र-१५ तिनियमाद् अस्मदादय एव व्यवहारिण इति, एतदप्यसमीचीनम् ; न खल्वभ्यासे सत्यप्यन्यतो वा हेतोः कस्यचिदतीन्द्रियदर्शनं चक्षुरादिश्य उपलभ्यते; दृष्टानुसारिण्यश्च कल्पना भवन्तीति । किंच, सर्वपदार्थवेदने चक्षुरादिजनितज्ञानात् तद्भ्यासः, तत्सहायं च चक्षुरादिकं सर्वशावस्थायां सर्वपदार्थसाक्षात्कारिक्षानं जनयतीति कथमितरेतराश्रयमेतत् कल्पनागोचरचारि चतुरचेतसो भवत इति न द्वितीयोऽपि पक्षो युक्तिक्षमः। अथ शब्दजनितं तज्ज्ञानम्, ननु शब्दस्य तत्प्रणीतत्वेन प्रामाण्ये २० सर्वपदार्थविषयज्ञानसंभवः, तज्ज्ञानसंभवे च सर्वज्ञस्य तथाभूतशब्दप्रणेतृत्वमितीतरेतराश्रयदोषा. नुषणः । अत एवोक्तम्"नर्ते तदागमात् सिध्येद् न च तेनागमो विना" । [श्लोक. वा० सू० २, श्लो. १४२] इति । न च शब्दजनितं स्पष्टाभमिति न तज्ज्ञानवान् सकलश इत्यभ्युपगम्यते, एवं च प्रेरणाजनि-२५ तज्ञानवतो धर्मशत्वम् अत एवोक्तम्-"चोदना हि भूतं भवन्तम्" इत्यादि, तन्न तृतीयपक्षोऽपि युक्तिसङ्गतः । अनुमानजनितज्ञानेन तु सर्ववित्त्वे न धर्मशत्वम्, धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गत्वेनाभ्युपगम्यमानस्यार्थस्य तेन सह संबन्धासिद्धेः असिद्धसंबन्धस्य चाsशापकत्वान्न ततो धर्माद्यनुमानम् इत्यनुमानजनितं ज्ञानं न सकलधर्मादिपदार्थाssवेदकम् । किंच, तथाभूतपदार्थज्ञानेन यदि सर्वविदभ्युपगम्यते तदा अस्मदादीनामपि सर्ववित्त्वमनि-३० वारितप्रसरम्, 'भावाभावोभयरूपं जगत्, प्रमेयत्वात्' इत्यनुमानस्यास्मदादीनामपि भावात्। अस्पष्टं चाऽनुमानमिति तजनितस्याप्यवैशद्यसंभवान्न तज्ज्ञानवान् सर्वज्ञो युक्तः। अथानुमानज्ञानं प्रागविशदमपि तदेवाशेषपदार्थविषयं पुनःपुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपतामासादयद् वैशद्यभाग् भवति, दृष्टं चाभ्यासबलाद् ज्ञानस्यानक्षजस्यापि काम-शोक-भयो-न्मादचौरस्वप्नाद्युपप्लुतस्य वैशद्यम् । नन्वेवं तज्ज्ञानवद् अतीन्द्रियार्थ विद्विज्ञानस्याप्युपप्लुतत्वं स्यादिति ३५ तज्ज्ञानवतः कामाद्युपप्लुतपुरुषवद् विपर्यस्तत्वम् । अथ यथा रजो-नीहाराद्यावरणावृतवृक्षादिदर्शनमविशदंतदावरणापाये वैशद्यमनुभवति एवं रागाद्यावारकाणां विज्ञानावैशद्यहेतूनामपाये सर्वज्ञानं विशदतामनुभविष्यतीति, असदेतत् ; रागादीनामावरणत्वासिद्धेः, कुड्यादीनामेव ह्यावारकत्वं लोके प्रसिद्धं न रागादीनाम् । तथाहि-रागादिसद्भावेऽपि कुड्याद्यावारकाभावे विज्ञानमुत्पद्यमानं दृष्टम् , रागाद्यभावेऽपि कुड्याद्यावारकसद्भावेन विज्ञानोदय इत्यन्वय-व्यतिरेकाभ्यां कुड्यादीनामेवाऽऽवर-४० णत्वावगमो न रागादीनामिति न रागादय आवारका इति न तद्विगमोऽपि सर्वविद्विज्ञानस्य वैशघहेतुः। १ प्रन्याप्रम्-२००० । २ पृ. ४९ पं० ३। ३ तदाऽर्थशक्तेः मां । ४ पृ. ४३ गतं ४ टिप्पणं दृश्यम् । ५-परका-मा०।-वरणका गु०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy