SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डै युक्तम् ? न च दर्शनादर्शन शब्दवाच्यस्यास्मदभ्युपगतप्रमाणस्य प्रत्यक्षानुपलम्भशब्दवाच्यस्य वा भवदभिप्रेतस्य कश्चिद्विशेषः प्रकृत हेतु-साध्यप्रतिबन्धसाधने उपलभ्यते । अथ किञ्चित्व-रागादिवसद्भावेऽपि स्वात्मनि न तद्धेतुकं वक्तृत्वं प्रतिपन्नम् किन्तु वक्तृकामताहेतुकम् ; रागादिसद्भावेऽपि वक्तुकामताऽभावेऽभावाद् वचनस्य । नन्वेवं व्यभिचारे विवक्षाऽपि न वचने निमित्तं ५ स्यात्, तत्राप्यन्यविवक्षायामन्यशब्ददर्शनात्; अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात् । अथार्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचारः, नः स्वप्नावस्थायाम् अन्यगतचित्तस्य वा शब्दविवक्षाऽभावेऽपि वक्तृत्वसंवेदनात् । न च व्यवहिता विवक्षा तस्य निमित्तमिति परिहारः, एवमभ्युपगमे प्रतिनियत कार्यकारणभावाभावप्रसङ्गात् सर्वस्य तत्प्राप्तेः । तन्न वक्तुकामतानिमित्तमयेकान्ततो वचनं सिद्धम्, व्यतिरेकासिद्धेः । अन्वयस्तु किञ्चिज्ज्ञत्वेन रागादिमत्त्वेन वा वचनस्य १० सिद्धो न वक्तुकामतया । अथ किञ्चिज्ज्ञत्वाद्यभावे सर्वत्र वक्तृत्वं न भवतीत्यत्र प्रमाणाभावानासर्वश- वक्तृत्वयोः कार्यकारणभावलक्षणः प्रतिबन्धः सिध्यति, तर्हि वह्न्यभावे धूमः सर्वत्र न भवतीत्यत्रापि प्रमाणाभावस्तुल्य इति न प्रतिबन्धग्रहः । अथान्यभावेऽपि यदि धूमः स्यात् तदाऽसौ तद्धेतुक एव न भवेदिति सकृदप्य हेतोरग्नेस्तस्य न भावः स्यात्, दृश्यते च महानसादावग्नित इति नानग्नेर्धूमसद्भाव इति प्रतिबन्धसिद्धिः । ननु यथेन्धनादेरेकदा समुद्भूतोऽपि १५ वहिरन्यदाऽरणितो मण्यादेर्वा भवन्नुपलभ्यते, धूमो वा वह्नित उपजायमानोऽपि गोपालघटिकादौ पावकोद्भूतधूमादप्युपजायते इत्यवगमस्तथा कदाचिदश्यभावेऽपि भविष्यतीति कुतः प्रतिबन्धसिद्धिः ? अथ यादृशो वह्निरिन्धनादिसामग्रीत उपजायमानो दृष्टो न तादृशोऽरणितो मण्यादेर्वा, धूमोsपि यादृशोऽग्नित उपजायते न तादृश एव गोपालघटिकादावग्निप्रभवधूमात् । अन्यादृशात् तदभावे तादृशत्वम हेतुकमिति न तस्य क्वचिदपि प्रतिनियमः स्यात्, अहेतोर्देश-काल-स्वभाव२० नियमायोगादिति नाग्निजन्यधूमस्य तत्सदृशस्य वाऽनग्नेर्भावः भावे वा तादृशधूमजनकस्याग्निस्वभा वतैवेति न व्यभिचारः । तदुक्तम् ५० "अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् " ॥ [ [] इत्यादि । तदेतद्वक्तृत्वेऽपि समानम् । तथाहि यदि सर्वज्ञे वीतरागे वा वचनं स्याद् असर्वशाद् रागादियु२५ काद् वा कदाचिदपि न स्यात्, अहेतोः सकृदप्यसंभवात् भवति च तत् ततः । अतो न सर्वशे तस्य तत्सदृशस्य वा संभव इति प्रतिबन्धसिद्धिः । अथ देशान्तरे कालान्तरे वाऽसर्वज्ञकार्यमेव वचनं न सर्वशप्रभवमिति न दर्शनाऽदर्शनप्रमाणगम्यम् - दर्शनस्येय व्यापारासंभवात् अदर्शनस्य च प्रागेवैवंभूतार्थग्राहकत्वेन निषिद्धत्वात् तर्हि सर्वदाऽग्निप्रभव एव धूमोऽन्यभावे कदाचनापि न भवतीत्यत्रापि प्रत्यक्षस्य सन्निहितवर्त्तमानार्थग्राहकत्वेनाप्रवृत्तेः, अनुपलम्भस्यापि तद्विविक्तप्रदेश३० विषय प्रत्यक्षस्वभावस्यात्र वस्तुनि व्यापारासंभवाद् न कार्यकारणभावलक्षणः प्रतिबन्धः प्रत्यक्षानुपलम्भसाधनः स्यात् । नाप्यनुमानतोऽपि प्रकृतः प्रतिबन्धः सिद्धिमासादयति, इतरेतराश्रयानवस्थादोषप्रसङ्गस्य प्रदर्शितत्वात् । न चान्यत् प्रतिबन्धप्रसाधकं प्रमाणमस्तीति प्रसिद्धानुमानस्यापि सर्वज्ञाभावाऽऽवेदकानुमान निरासयुक्त्युपक्षेपमिच्छतोऽत्राभावः प्रसक्तः । अथ प्रसिद्धानुमाने साध्यसाधनयोः प्रतिबन्धः तत्प्रसाधकं च प्रमाणं किञ्चिदस्ति तर्हि स एव प्रतिबन्धः किञ्चिज्ज्ञत्व३५ वक्तृत्वयोः तत्प्रसाधकं च तदेव प्रमाणं भविष्यतीति सिद्धः प्रतिबन्धः किञ्चिज्ज्ञत्व- वक्तृत्वयोर - धूमयोरिव अत एव 'व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र दर्श्यते तत् प्रसङ्गसाधनम्' इति तल्लक्षणस्य युष्मदभ्युपगमेनात्र सद्भावाद भवत्येवातोऽनुमानात् सर्वज्ञाभावसिद्धिः । पक्षधर्मताऽभावप्रतिपादन च यत् प्रकृतप्रसङ्गसाधने प्रतिपादितं तद् अभ्युपगमवादान्निरस्तम्, तत्र पक्षधर्मताया हेतोरभावेऽपि गमकत्वस्य सिद्धत्वात् । शेषस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्त इति ४० न प्रत्युश्चार्य दूषितः । अतोऽयुक्तमुक्तम् 'सर्वज्ञवादिनां यथा तत्साधकप्रमाणाभावाद् न तद्विषयः सद्व्यवहारस्तथा तदभाववादिनां मीमांसकादीनां तद्भावग्राहकप्रमाणाभावादेव न तदभावव्यव हार:' इति, प्रसङ्गसाधनस्य तदभावसाधकस्य समर्थितत्वात् । १ जलवे रागा- कां० । २ वा भाव इति गु०, आ०, वि० । ३० २१ पं० २० । ४ पृ० २१ ६० १५ । ५ पृ० ४५ पं० १७ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy