SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १० दर्शनात् ॥ [ सर्ववादः। संप्रयोगजत्वे न प्रत्यक्षम्, नापि तच्छब्दवाच्यम्' । प्रसङ्गसाधनाभिप्रायेणैव 'यदि'अर्थोपक्षेपेण वार्तिककृताऽप्यभिहितम् "यदि षभिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते ॥ एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुपा सर्वत्रसादीन् ( सर्वान् रसादीन् ) प्रतिपद्यते ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत्" ॥ [ श्लो० वा० सू० २, श्लो० १११-११३] पुनरप्युक्तम् "येऽपि सातिशया दृष्टाः प्रज्ञा-मेधादिभिर्नराः। स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ [ यत्राप्यतिशयो दृष्टः स स्वार्थानतिलहनात् । दूर-सूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तितः" ॥ [ श्लो० वा० सू०२, श्लो० ११४ ] इत्यादि। तेनात्रापि 'स्वतन्त्रानुमानाभिप्रायेणाश्रयासिद्धत्वादिदर्षणम्' 'उपमानोपन्यासबुद्ध्या वाऽशेषोपमा-१५ नोपमेयभूतपुरुषपरिषत्साक्षात्करणे उपमानं प्रवर्त्तते' इत्यादि दूषणामिधानं च सर्वज्ञवादिनःस्वजात्याविष्करणमात्रकमेव । अतः 'अतीन्द्रियसर्वविदो न प्रत्यक्षं प्रवृत्तिद्वारेण निवृत्तिद्वारेण वाऽभावसाधनम्' इत्यादि सर्वमभ्युपगमवादान्निरस्तम् ।। यच्चानुमानेन सर्वज्ञाभावसाधने दूषणमभिहितम् 'किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वात्' इत्यादि, तद धूमाद म्यनुमानेऽपि समानम् । तथाहि-तत्रापि वक्तुं शक्यते-किं साध्य-२० धर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्तः, उत दृष्टान्तधर्मिसंबन्धी? तत्र यदि साध्यधर्मिसंबन्धी हेतुस्तदा तस्य दृष्टान्तेऽसंभवादनन्वयदोषः । अथ दृष्टान्तधर्मिसंबन्धी, सोऽसिद्धः; दृष्टान्त. धर्मिधर्मस्य साध्यधर्मिण्यसंभवात् । अथोभयसाधारणं धूमत्वसामान्यं हेतुस्तदा तस्य विप. क्षेऽनग्नौ विरोधासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वेन स्वसाध्यागमकत्वम् । अथ विपक्षेऽनग्नौ धूमस्यानुपलम्भादू विरोधसिद्धर्न सन्दिग्धविपक्षव्यावृत्तिकत्वम्। नन्वत्रापि वक्तुं शक्यम्-सर्व-२५ संबन्धिनोऽनुपलम्भस्यासंभवात् अनग्नौ देशान्तरे कालान्तरे वा केनचिदू धूमस्योपलम्भात् । तदुपलब्धिमतः कस्यचिदभावात् सर्वसंबन्धिनोऽनुपलम्भस्य संभव इति चेत्, केन पुनः प्रमाणेनानग्नौ धूमसत्त्वग्राहकपुरुषाभावः प्रतिपन्नः ? यद्यन्यतः प्रमाणात्, तत एवानग्ने—मस्य व्यावृत्तिसिद्धर्व्यर्थ सर्वसंबन्ध्यनुपलम्भलक्षणस्य विपक्षे धूमविरोधसाधकस्य प्रमाणस्याभिधानम् । अथ तथाभूतानुपलम्भात् तदभावावगमः, ननु तथाभूतपुरुषाभावे तदनुपलम्भसंभवः,३० तत्संभवाच्च तथाभूतपुरुषाभावसिद्धिरितीतरेतराश्रयत्वाद् न सर्वसंबन्धिनोऽनुपलम्भस्य संभवःः संभवेऽपि तस्यासिद्धर्न 'विपर्यये विरोधसाधकत्वम् । अथात्मसंबन्धिनोऽनुपलम्भस्य धूमत्वलक्षणहेतोर्विपक्षाद व्यावृत्तिसाधकत्वम्, नः तस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । अथानुपलम्भव्यतिरिक्तं धूमलक्षणस्य हेतोविपर्यये बाधकं प्रमाणमस्ति न तु वक्तृत्वलक्षणस्य, किं पुनस्तदिति वक्तव्यम् ? अग्नि-धूमयोः कार्यकारणभावलक्षणप्रतिबन्धग्राहकमिति चेत्, क.३५ पुनरसौ कार्यकारणभावः, किं वा तब्राहकं प्रमाणम् ? अग्निभावे एव धूमस्य भावस्तदभावे चाभाव एव असो, तबाहकं च प्रमाणे प्रत्यक्षाऽनुपलम्भस्वभावम् । ननु किञ्चिज्ज्ञत्वस्य तद्यापकस्य वा रागादिमत्त्वस्य भावे एव वक्तृत्वस्य भावः स्वात्मन्येव दृष्टः, तदभावे चाऽभाव एवोपलादावविगानेनानुपलम्भतो ज्ञात इति कथं न विपर्यये सर्वज्ञत्वे वीतरागत्वे वा वक्तृत्वलक्षणस्य हेतो. र्बाधकं कार्यकारणभावलक्षणप्रतिबन्धग्राहकं प्रत्यक्षानुपलम्भाख्यं प्रमाणं दर्शनादर्शनशब्दवाच्यं ४० १ -ता भा० । २ पृ. ४६ पं० १४ । पं. ३५। ६ विपर्ययविरोधसा-मां। स.त.. ३ पृ. ४६ पं० २४-३१। ४ पृ० ४५ पं० ३२ । ५ पृ० ४५ -क्षाव्यावृत्ति-भां०, मा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy