SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४८ प्रथमे काण्डेताशेषपुरुषसाक्षात्करणे च स एव सर्वदर्शी इति न तदभावाभ्युपगमः श्रेयान् । अथ कतिपय पुरुषव्यक्तिव्यवस्थितं किश्चिज्ज्ञत्वं तदन्यत् तद्विषयं ज्ञानं तदन्यज्ञानं सर्वज्ञाभावावेदकम् , तदप्ययुक्तम् ; तज्ज्ञानात् तदभावावगमे कतिपयपुरुषव्यक्तिव्यवस्थितस्यैव सर्वशत्वस्याभावः सिध्येत्, न सर्वत्र सर्वदा सर्वपुरुषेषुः तथा च सिद्धसाधनम् , अस्माभिरपि कुत्रचित् कस्यचिद् रथ्यापुरुषादेर. ५सर्वज्ञत्वेनाभ्युपगमात् । अथ सर्वज्ञत्वादन्यस्तदभावस्तद्विषयं ज्ञानं तदन्यज्ञानं तदाऽत्रापि किं 'सर्वदा सर्वत्र सर्वः सर्वज्ञो न' इत्येवं तत् प्रवर्तते, उत 'कुत्रचित् कदाचित् कश्चित् सर्वज्ञो न' इत्येवम् ? तत्र नाद्यः पक्षः, सकलदेश-कालपुरुषासाक्षात्करणे तदाधारस्य तदभावस्यावगन्तुमशक्यत्वात् प्रदेशाप्रत्यक्षीकरणे तदाधारम्य घटाभावस्येव, तत्साक्षात्करणे च तदेव सर्वज्ञत्वम् इति न तदभावसिद्धिः। अथ द्वितीयः पक्षस्तदान सर्वत्र सर्वदा सर्वज्ञाभावसिद्धिरिति तदेव सिद्ध१०साधनम् । 'प्रमाणपञ्चकनिवृत्तस्तदभावज्ञानम्' इत्यादि सर्व प्रतिविहितमिति नाभावप्रमाणादपि तभावावगमोऽभ्युपगन्तुं युकः । इत्यादि यत् तदप्यविदितपराभिप्रायस्य सर्वशवादिनोऽभिधानम् । यतो नास्माकम् 'अतीन्द्रियसर्वज्ञादि पदार्थबाधकं प्रत्यक्षादिप्रमाणं स्वतन्त्रं प्रवर्त्तते' इत्यभ्युपगमः-अतीन्द्रियेपु स्वतन्त्रस्य प्रत्यक्षादिप्रमाणस्य भवदभिहितप्राक्तनदोपदुष्टत्वेन प्रवृत्त्यसंभवात्-किन्तु प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितं यथा१५र्थमभिधानमुद्वहद्भिर्मीमांसकैः। अत एव तदभिप्रायप्रकाशनपर भगवतो जैमिनेः सूत्रम्-"सत्सम्प्रयोगे पुरुपस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्” [जैमि० सू०१-१-४] इति, यतो नानेनापि सूत्रेण स्वातम्येण प्रत्यक्षलक्षणमभ्यधायि भगवता किन्तु लोकप्रसिद्धलक्षणलक्षितप्रत्यक्षानुवादेन तस्य धर्म प्रत्यानिमित्तत्वं विधीयते। न चतदत्रापि वक्तव्यम्-कतरस्य प्रत्यक्षस्य धर्म प्रत्यानिमित्तत्वं विधीयते अस्मदादिप्रत्यक्षस्य, सर्वज्ञप्रत्यक्षस्य वा? अस्मदादिप्रत्यक्षस्य तदनिमित्तत्वप्रतिपादने २०सिद्धसाधनम् । सर्वज्ञप्रत्यक्षस्य भवन्मतेनाप्रसिद्धत्वाच्छशविषाणस्येव कथं तं प्रत्यानिमित्तताविधिः? अथापि स्यात् परेण तस्याभ्युपगतत्वात् तं प्रत्यनिमित्तत्वं तन्प्रसिद्ध्यवोच्यते, तदयुक्तम्। परीक्षापूर्वकत्वेनाभ्युपगमस्य स्थितत्वात्, तत्पूर्वकश्चेत् परस्याभ्युपगमस्तदा भवतोऽपि तस्य तद्भावः, परीक्षायाः प्रमाणरूपत्वात्। प्रमाणसिद्धं च न परस्यैव सिद्धम्, प्रमाणसिद्धस्य सर्वैरेवाभ्युपगमनीय. त्वात् । अथ प्रमाणव्यतिरेकेण परेण सर्वज्ञप्रत्यक्षमभ्युपगतं तदाऽसौ प्रमाणाभावादेव नाभ्युपगमो २५ युक्तः । न च प्रमाणाभ्युपगतस्यास्सदादिप्रत्यक्षविलक्षणस्य सर्ववित्प्रत्यक्षस्य तं प्रत्यनिमित्तत्वं विधातुं युक्तम् , यतोऽस्मदादिप्रत्यक्षविलक्षणवं सर्ववित्प्रत्यक्षस्य धर्मादिग्राइकत्वेनैव; तच्चेत् प्रमाणतोऽभ्यु. पगतम्, कथं तस्य तं प्रत्यानिमित्तत्वमुपपद्येत तदृग्राहकप्रमाणबाधितत्वात् ? किञ्च, अयं परस्परविरुद्धोऽपि वाक्यार्थः स्यात्-प्रमाणतो धर्मादिग्राहकं सर्ववित्प्रत्यक्षं यत् प्रसिद्धं तद धर्मादिग्राहक म भवतीति} यतो म प्रसङ्गसाधने आश्रयासिद्धत्वादिदृषणं क्रमते; नहिं प्रमाणमूलपराभ्युपगम३० पूर्वकमेव प्रसङ्गसाधनं प्रवर्तते. किं तर्हि ? 'यदि'अर्थाभ्युपगमदर्शनपूर्वकम् । अत एव 'प्रसङ्गसाधनस्य विपर्ययफलत्वम, विपर्ययस्य च अतीन्द्रियपदार्थविषयप्रत्यक्षनिषेधफलत्वम्, तनिषेधे च किं प्रत्यक्षस्य धर्मिणो निषेधः, अथ तद्धर्मस्य प्रत्यक्षत्वस्येति ? पूर्वस्मिन् पक्षे हेतूनामाश्रयासिद्धतेति प्रतिपादितम् । उत्तरत्र प्रत्यक्षत्वनिषेधे प्रमाणान्तरत्वप्रसक्तिः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानल क्षणत्वात्' इति न प्रेर्यम्, यतो विशेषनिषेधे तस्य विशेषरूपत्वेन सत्त्वस्यैव प्रतिषेधः। न च धर्म्य३५ सिद्धत्वादिदोपः, 'यदि'अर्थस्याभ्युपगतत्वात् । कथं पुनरत्र प्रसङ्गः विपर्ययो वा क्रियते इति चेत्, तदुच्यते-'सार्वज्ञ प्रत्यक्षं यद्यभ्युपगम्यते तदा तदू धर्मग्राहकं न भवति, विद्यमानोपलम्भनत्वात् । न चासिद्धो हेतुः । तथाहि-विद्यमानोपलम्भनमतीन्द्रियार्थजप्रत्यक्षम्, सत्संप्रयोगजत्वात् । अस्याप्यसिद्धतोद्भावने एवं वक्तव्यम्-'विवादगोचरं प्रत्यक्षं सरसंप्रयोगजम्, प्रत्यक्षत्वात् तच्छब्दवाच्यत्वाद् वा, अस्मदादिप्रत्यक्षम् स दृष्टान्तः' इति प्रसङ्गः। विपर्ययस्त्वेवम्-'तधर्मग्राहकं चेते न ४० विद्यमानोपलम्भनम् , अविद्यमानत्वाद् धर्मस्य । अविद्यमानोपलम्भनत्वे न सत्संप्रयोगजम् । अस १-वस्याप्यभावः कां। २ कुत्रचिद रथ्या-गु० । ३० ४३ पं० २६-पृ. ४५ पं. ७। ४ पृ०४७ पं० ३३ । ५ "वृत्ति-सर्ग-तायने (हे. ३-३-४८) इत्यात्मनेपदम्" मां० टि०।६ "यदि'अङ्कितकारिकाप्रतिपादितार्थाभ्युपगमदर्शनपूर्वकम्" भा०, गु० टि.। ७० ४६ पं० १४। ८ सर्वस्यैव गु०, वि०, अ० । ९चेत् तर्हि अविद्यमा-वि०, आ०, वृ०। १० "भविष्यत्तया वर्तमानकाले अविद्यमानत्वम्" भां.टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy