SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः । पपद्यमानत्वावगमस्तस्यार्थस्य न भूयोदर्शननिमित्तः सपक्षे, अन्यथा 'लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठवत्' इत्यत्रापि साध्यसिद्धिः स्यात् । नापि विपक्षे तस्यानुपलम्भनिमित्तोऽसौ - व्यतिरेक नि श्चायकत्वेनानुपलम्भस्य पूर्वमेव निषिद्धत्वात् - किन्तु विपर्यये तद्वाधकप्रमाण निमित्तः; तच्च बाधकं प्रमाणमर्थापत्तिप्रवृत्तेः प्रागेवानुपपद्यमानस्यार्थस्य तत्र प्रवृत्तिमदभ्युपगन्तव्यम्, अन्यथाऽर्थापत्त्या तस्यान्यथाऽनुपपद्यमानत्वावगमेऽभ्युपगम्यमाने यावत् तस्यान्यथाऽनुपपद्यमानत्वं नावगतं न ताव - ५ दर्थापत्तिप्रवृत्तिः, यावश्च न तत्प्रवृत्तिर्न तावदर्थापत्त्युत्थापकस्यार्थस्यान्यथानुपपद्यमानत्वावगम इतीतरेतराश्रयत्वान्नार्थापत्तिप्रवृत्तिः । अत एव यदुक्तम् ४७ "अविनाभाविता चात्र तदैव परिगृह्यते । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ तेन संबन्धवेलायां संवन्ध्यन्यतरो ध्रुवम् । अर्थापत्त्यैव मन्तव्यः पश्चादस्त्वनुमानता " ॥ [ श्लो० वा० सू० ५, अर्थापत्ति० श्लो० ३०-३३ ] इत्यादि, तन्निरस्तम् एवमभ्युपगमेऽर्थापत्तेरनुत्थानस्य प्रतिपादितत्वात् । स च तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं दृष्टान्तधर्मिप्रवृत्तप्रमाणसंपाद्यः, आहास्वित् स्वमाध्यधर्मिप्रवृत्तप्रमाण संपाद्य इति ? तत्र यद्याद्यः पक्षस्तदाऽत्रापि वक्तव्यम् - किं तत् दृष्टान्तधर्मिणि प्रवृत्तं प्रमाणं साध्यध- १५ र्मिण्यपि साध्यान्यथाऽनुपपन्नत्वं तस्यार्थस्य निश्चाययति, आहोस्वित् दृष्टान्तधर्मिण्येव ? तत्र द्याद्यः पक्षस्तदाऽर्थापत्त्युत्थापकस्यार्थस्य लिङ्गस्य वा स्वसाध्यप्रतिपादनव्यापारं प्रति न कश्चिद् विशेषः । अथ द्वितीयः, स न युक्तः: नहि दृष्टान्तधर्मिणि निश्चितस्व साध्यान्यथाऽनुपपद्यमानवोsर्थोऽन्यत्र साध्यधर्मिणि तथा भवति । न च तथात्वेनानिश्चितः स साध्यधर्मिणि स्वसाध्यं परिकल्पयतीति युक्तम्, अतिप्रसङ्गात् । अथ लिङ्गस्य दृष्टान्तधर्मिप्रवृत्तप्रमाणवशात् सर्वोपसंहारेण २० स्वसाध्यनियतत्वनिश्वयः, अर्थापत्त्युत्थापकस्य त्वर्थस्य स्व साध्यधर्मिण्येव प्रवृत्तात् प्रमाणात् सर्वोपसंहारेणादृष्टार्थान्यथाऽनुपपद्यमानत्व निश्चय इति लिङ्गाऽर्थापत्त्युत्थापक योर्भेदः । नास्माद् भेदादर्थापत्तेरनुमानं भेदमासादयति । अनुमानेऽपि स्वमाध्यधर्मिण्येव विपर्ययाद्धेतुव्यावर्त्तकत्वेन प्रवृत्तं प्रमाणं सर्वोपसंहारेण स्वसाध्य नियतत्व निश्चायकमभ्युपगन्तव्यम् ः अन्यथा 'सर्वमनेकान्तात्मकम्, सत्त्वात्' इत्यस्य हेतोः पक्षीकृतवस्तुव्यतिरेकेण दृष्टान्तधर्मिणोऽभावात् कथं तत्र प्रवर्त्तमानं बाधकं २५ प्रमाणमनेकान्तात्मकत्व नियतत्वमवगमयेत् सत्त्वस्य । न च साध्यधर्मिणि दृष्टान्तधर्मिणि च प्रवर्त्त - मानेन प्रमाणेनार्थापत्त्युत्थापकस्यार्थस्य लिङ्गस्य च यथाक्रमं प्रतिबन्धो गृह्यत इत्येतावन्मात्रेणार्थापत्यनुमानयोर्भेदोऽभ्युपगन्तुं युक्तः, अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात् तद्रहितहेतुसमुत्थमनुमानं प्रमाणान्तरं स्यादिति प्रमाणपट्टवादा विशीर्यत । नियमवतो लिङ्गात् परोक्षार्थप्रातपत्तेरविशेषादू 'न ततस्तद् भिन्नम्' इत्यभ्युपगमे स्वसाध्या विनाभूतादर्थादर्थप्रतिपत्तरविशेषादनु- ३० मानादर्थापत्तेः कथं नामेदः ? तदेवं प्रमाणत्वेऽर्थापत्तेरनुमानेऽन्तर्भावात् अनुमानस्य च सर्वशाभावप्रतिपादकस्य निषेधात् तन्निषेधे चार्थापत्तेरपि तदभावग्राहकत्वेन निषेधान्नार्थापत्तिसमधिगम्योऽपि सर्वज्ञाभावः । अभावाख्यं तु प्रमाणमप्रमाणत्वादेव न तदभावसाधकम् प्रमाणत्वेऽपि किमात्मनोऽपरिणामलक्षणं तत्, आहोस्विदन्यवस्तुविज्ञानलक्षणमिति ? तत्र यद्यात्मनोऽपरिणामलक्षणं तद्भावसाधकमिति पक्षः, स न युक्तः; तस्य सत्त्वेनाभ्युपगते परचेतोवृत्तिविशेषेऽपि सद्भा- ३५ वेनानेकान्तिकत्वात् । अथान्यविज्ञानलक्षणमिति पक्षः, सोऽप्यसंबद्धः; यतः सर्वशत्वादन्यद् यदि किञ्चिशत्वं तद्विषयं ज्ञानं तदन्यज्ञानं तदाऽत्रापि वक्तव्यम् किं सकल देश - कालव्यवस्थित पुरुषाधारं किञ्चिज्ज्ञत्वम् अभ्युपगम्यते, आहोस्वित् कतिपय पुरुषव्यक्तिसमाश्रितमिति ? तत्र यदि समस्तदेशकालातिपुरुषाधारं किञ्चिज्शत्वं तद्विषयं ज्ञानं तदन्यज्ञानं तत् सर्वशाभावप्रसाधकम्, तदयुक्तम्; सकलदेश - कालव्यवस्थित पुरुग्परिषत् साक्षात्करणव्यतिरेकेण तदाधारस्य किञ्चिज्ज्ञत्वस्य विषयी - ४० कर्तुमशक्तेर्न तद्विषयस्य तदन्यज्ञानस्य सर्वशाभावावगमनिमित्तत्वं युक्तम्; सर्वदेश - कालव्यवस्थि १ पृ० २१ पं० २१ । २ संबन्धान्यतरो का०, गु० । ३ प्र० पृ० पं० ७ । ४- त्मकनिय - गु० । ५० ४५ पं० ३३ । १०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy