SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेत्मन्युपलप्स्यते सर्वशान्तरेण वा तत् तत्र संवेदिप्यते इति न सम्भवः सर्वसंबन्धिनोऽनुपलम्भस्य । अथ सर्वज्ञस्य कस्यचिदभावात सर्वसंबन्धिनोऽनुपलम्भस्य संभवः ननु सर्वज्ञाभावः कुतः सिद्धः? अन्यतः प्रमाणात् चेत्, तत एव तदभावसिद्धरस्य वैयर्थ्यम् । 'अत एवानुमानात्' इति म वक्तव्यम् , इतरेतराश्रयदोषप्रसङ्गात्-सिद्धेऽतोऽनुमानात् सर्वज्ञाभावे सर्वसंबन्ध्यनुपलम्भसं५भवसामर्थ्याद हेतोर्विपक्षतो व्यावृत्तिः स्यात्, तस्य च विपक्षाद् व्यावृत्तस्य तत्साधकत्वमिति व्यक्तमितरेतराश्रयत्वम् । भवतु वा सर्वसंबन्ध्यनुपलम्भसंभवस्तथापि सकलपुरुषचेतोवृत्तिविशेषाणामसर्वशेन ज्ञातुमशक्तेरसिद्धः सर्वसंबन्ध्यनुपलम्भ इति न ततो विपक्षव्यावृत्तिनिश्चयो वक्तत्वस्येति कुतःसंदिग्धविपक्षव्यावृत्तिकाद् हेतोस्तदभावसिद्धिः? नापि स्वसंबन्धिनोऽनुपलम्भात् तद्यतिरे कनिश्चयः, तस्य स्वपितृव्यपदेशहेतुनाऽप्यनैकान्तिकत्वात् । न चैवंभूतादपि हेतोः साध्यसिद्धिः १० तथाऽभ्युपगमे 'न कश्चित् सर्वज्ञाभावमवबुध्यते, वक्तृत्वात्, रथ्यापुरुषवत्' इति तदभावावगमाभावस्यापि सिद्धिः स्यात् । अथान्यत्रापि हेतावयं दोषः समान इति सर्वानुमानोच्छेदः, तदयुक्तम् । अन्यत्र विपक्षव्यावृत्तिनिमित्तस्यानुपलम्भव्यतिरेकेण बाधकप्रमाणस्य सद्भावात् । न चात्रापि तस्य सद्भाव इति शक्यं वक्तुम् , तदभावस्य हेतुलक्षणप्रस्तावे वक्ष्यमाणत्वात् । किंच, सर्वज्ञप्रतिपादकप्रमाणाभावे तस्यासिद्धत्वात् तदभावसाधनायोपन्यस्यमानः सर्वोऽपि हेतुराश्रयासिद्ध इति १५न तस्मादभावसिद्धिः। अथ तह्राहकत्वेन प्रमाणं प्रवर्तत इत्याश्रयासिद्धत्वाभावस्तर्हि तत्साध कप्रमाणबाधितत्वात् पक्षस्य न तत्साधनाय हेतुप्रयोगसाफल्यमिति नानुमानावसेयः सर्वज्ञाभावः। अपौरुषेयत्वस्य प्राक्तनन्यायेनासिद्धत्वात् सर्वज्ञप्रणीतत्वानभ्युपगमे शब्दस्य पुरुषदोषसंक्रान्त्याऽप्रामाण्याद् न ततोऽपि तदभावसिद्धिः। न च तदभावाभिधायकं किञ्चिद् वेदवाक्यं श्रूयते, केवलं तद्भावाऽऽवेदकवेदवचनोपलब्धिरविगानेन समस्ति "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं नहि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्" ॥ [ श्वेताश्वत० ३-१९] तथा हिरण्यगर्भ प्रकृत्य "सर्वज्ञः” [ ] इत्यादि । न च स्वरूपेऽर्थे तस्याप्रामाण्यम्, तत्र तत्प्रामाण्यस्य प्रतिपादयिष्यमाणत्वात्। तन्न शब्दादपि तदभावसिद्धिः । नाप्युपमानात् तद्भा२५वावगमः, यत उपमानमुपमानोपमेययोरध्यक्षत्वे सादृश्यालम्बनमुदेति; अन्यथा "तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्" ॥ [ श्लो० वा० सू० ५, उपमान० श्लो० ३७] इत्यभिधानात् प्रत्यक्षेणोपमानोपमेययोरग्रहणे उपमेयस्मरणासंभवात् कथं स्मर्यमाणपदार्थविशिष्टं ३० सादृश्यम् सादृश्य विशिष्टं वा स्मर्यमाणं वस्तु उपमानविषयः स्यात् ? तस्मादिदानींतनोपमानभूताशेषपुरुषप्रत्यक्षत्वम् , उपमेयाशेषान्यकालमनुष्यवर्गसाक्षात्करणं चावश्यमभ्युपगमनीयम्; तदभ्युपगमे च स एव सर्वज्ञ इति कथं उपमानात् तद्भावावगमो युक्तः? अतो यदुक्तम् “यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत्" ॥ [ श्लो० वा० सू० २, श्लो० ११३], ३५ तन्निरस्तम्: उपमानस्योक्तंन्यायेनात्र वस्तुन्यप्रवृत्तेः। नाप्यर्थापत्तितस्तदभावावगमः, तस्याः प्रमा णत्वेऽनुमानेऽन्तर्भूतत्वात् । तथाहि-"दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः” [ मीमां० शाबर० सू० ५, पृ०८, पं० १७] नै चासावर्थोऽन्यथानुपपद्यमानत्वानवगमे अदृष्टार्थपरिकल्पनानिमित्तम्-अन्यथा स येन विनोपपद्यमानत्वेन निश्चितस्तमपि परिकल्पयेत् येन विना नोपपद्यते तमपि वा न कल्पयेत्-अनवगतस्य अन्यथाऽनुपपन्नत्वेन अर्थापत्त्युत्थाप४० कस्यार्थस्य अन्यथाऽनुपपद्यमानत्वे सत्यप्यदृष्टार्थपरिकल्पकत्वासंभवात्संभवे वा लिङ्गस्याप्यनिश्चितनियमस्य परोक्षार्थानुमापकत्वं स्यादिति तदपि नार्थापत्त्युत्थापकादाद् भिद्येत । स चान्यथाऽनु. १ अनुपलम्भस्य सर्व-आत्मसंबन्धिरूपपूर्वोक्तविकल्पद्वयद्वारा विपक्षव्यावृत्त्यसाधकत्वे संदिग्धविपक्षव्यावृत्तिकत्वरूपो दोषः। २-मेये स्मर-भां। ३ प्र० पृ० पं० २४ । ४ नास्त्यसावर्थो- का।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy