SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। ४५ शस्य सिद्धत्वानोपमानादपि तत्सिद्धिः। सर्वसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषट्रक विज्ञात. स्यार्थस्य कस्यचिदभावाद् नार्थापनेरपि सर्वज्ञसत्त्वसिद्धिः । न चागमप्रामाण्यलक्षणस्यार्थस्य तमन्तरेणानुपपद्यमानस्य तत्परिकल्पकत्वम, अतीन्द्रिये स्वर्गाद्यर्थ तत्प्रणीतत्वनिश्चयमन्तरेण तस्य प्रामाण्यानिश्चयात् अपौरुषेयत्वादपि तत्प्रामाण्यसंभवात् कुतस्तस्य तमन्तरेणानुपपद्यमानता? तन्नार्थापतितोऽपि तत्सिद्धिः। अभावाख्यस्य त प्रमाणस्याभावसाधकत्वेन व्यापारादन तत्स. ५ द्भावसाधकत्वम् । न चोपमानाऽर्थापत्त्य-भावप्रमाणानां भवता प्रामाण्यमभ्युपगम्यते इति न तेभ्यस्तत्सिद्धिः। तदुक्तम् "सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत् ॥ न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः । न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम्?॥" [ श्लो० वा० सू० २, श्लो० ११७ ११९-११८] ततो 'ये देश-काल-' इत्यादिप्रयोगे नासिद्धो हेतुः। सद्यवहारनिषेधश्च अनुपलम्भमात्रनिमित्तः१५ अनेकधाऽनेन अन्यत्र प्रवर्तित इति अत्रापि तन्निमित्तसद्भावात् प्रवर्ती यतुं युक्तः। {अथ 'यथाऽस्माकं तत्सद्भावाऽऽवेदकं प्रमाणं नास्ति तथा भवतां तदभावाऽऽवेदकमपि नास्तीति सद्यवहारबदभावव्यवहारोऽपि न प्रवर्तयितव्यः । तथाहि-सर्वविदोऽभावः किं प्रत्यक्षसमधिगम्या, प्रमाणान्तरगस्यो वा? तत्र न तावत् प्रत्यक्षसमधिगम्यः' यतः प्रत्यक्षं सर्वज्ञाभावाऽऽवेदकमभ्युपगम्यमानं 'किं सर्वत्र सर्वदा सर्वः सर्वज्ञो न' इत्येवं प्रवर्तते, उत 'क्वचित् कदाचित् कश्चित् सर्वशो२० नास्ति' इत्येवम् इति कल्पनाद्वयम्। तत्र यदि 'सर्वत्र सर्वदा सर्वःसर्वज्ञो न' इति प्रत्यक्षस्य प्रवृत्तिस्तर्हि नसर्वज्ञाभावः, तज्ज्ञानवत एव सर्वज्ञत्वात् ;नहि सकलदेश-कालव्यवस्थितपुरुषपरिषत्साक्षात्करणमन्तरेण तदाधारमसर्वज्ञत्वमवगन्तुं शक्यम्, तत्साक्षात्करणे च कथं न तज्ज्ञानवतः सर्वज्ञत्वम् ? इति नाद्यः पक्षः। द्वितीयेऽपि पक्षेन सर्वथा सर्वज्ञाभावसिद्धिरिति न प्रत्यक्षात् सर्वज्ञाभावसिद्धिः। अथ न प्रवर्त्तमानं प्रत्यक्षं सर्वज्ञाभावसाधकं किंतु निवर्तमानम्। ननु यदि निखिलदेश-का-२५ लाधारसकलपुरुषपरिषदाश्रितानन्तपदार्थसंविद्यापकम् कारणं वा तत् स्यात् तदा तन्निवर्तमानं तथाभूतं सर्वज्ञत्वं व्यावर्त्तयेद् नान्यथा, अंतथाभूतनिवृत्तौ तन्निवृत्तेरसिद्धेः, तथाऽभ्युपगमे वा स एव सर्वश इति न तेन तनिषेधः । किंच, प्रत्यक्षनिवृत्तिर्यदि प्रत्यक्षमेव तदा स एव दोषः । अथ प्रत्यक्षादन्या तदाऽसौ प्रमाणम्, अप्रमाणं वा? अप्रमाणत्वे नातः सर्वज्ञाभावसिद्धिः । प्रमाणत्वे नानुमानत्वम्, सर्वाऽऽत्मसंबन्धिन्यास्तनिवृत्तेर्यथासङ्ख्यमसिद्धाऽनैका-३० न्तिकत्वदोषद्वयसद्भावात् । न च तुच्छा तन्निवृत्तिस्तदभावज्ञापिका, तुच्छायाः केनचित् सह प्रतिबन्धाभावेन सर्वसामर्थ्य विरहेण च ज्ञापकत्वासम्भवात् । तन्न प्रवर्त्तमानम्, निवर्तमानं वा प्रत्यक्षं तदभावं साधयति । प्रमाणान्तरगम्यत्वेऽपि तदभावो न तावदनुमानगम्यः, तदभावसाधकानुमानाभावात् । अथ 'विवादाध्यासितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात्, रथ्यापुरुषवत्' इत्यनुमानं तदभावसाधकम् , नन्वत्र किं प्रमाणान्तरसंवादिनोऽर्थस्य वक्तृत्वं हेतुः, उत तद्वि-३५ परीतस्य, आहोस्वित् वक्तृत्वमात्रमिति वक्तव्यम् । यदि 'प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वात्' इति हेतुस्तदा विरुद्धो हेतुः, तथाभूतवक्तृत्वस्य सर्वज्ञे एव भावात् । अथ 'प्रमाणान्तरविसंवादिनोऽर्थस्य वक्तृत्वात्' इति हेतुस्तदा सिद्धसाधनम् , तथाभूतस्य वक्तुरसर्वशत्वेनास्माभिरप्यभ्युपगमात् । अथ वक्तृत्वमात्रं हेतुः, न तस्य साध्यविपर्ययेण सर्वज्ञत्वेनानुपलब्धेन सहानवस्थानलक्षणस्य, तव्यवच्छेदस्वभावेन च परस्परपरिहारस्वरूपस्य च विरोधस्याभावाद् न ततो व्यावृ-४० त्तिसिद्धि रिति न स्वसाध्यनियतत्वम्। तदभावान्न स्वसाध्यसाधकत्वम् । अथ सर्वज्ञो वक्ता नोपलब्ध इति ततो व्यावृत्तिसिद्धिः, न; सर्वसंबन्धिनोऽनुपलम्भस्यासंभवात्-सर्वज्ञ एव वक्तृत्वमा. १ पृ० ४३ पं० २६ । २ तथाभूत भां०, वा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy