SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४२ प्रथमे काण्डेकान्तिकत्वम् । अथ आगमान्तरे परैः कर्तुः स्मरणात् ततो व्यावृत्तमस्मर्यमाणकर्तृकत्वमपौरुषेयत्वेन व्याप्यत इति नानैकान्तिकत्वम्, न; परकीयस्य कर्तुः स्मरणस्य भवता प्रमाणत्वेनानभ्युपगमात्, अभ्युपगमे वा परैवंदेऽपि कर्तुः स्मरणात् 'अस्मयमाणकर्तृकत्वात्' इति प्रतिवाद्यसिद्धो भवतोऽप्यसिद्धः स्यात् । अथ वेदे सविगानं कर्तृविशेषविप्रतिपत्तेः कर्तृस्मरणमसत्यम् । तथाहि५ केचिद् हिरण्यगर्भम् , अपरेऽष्टकादीन् वेदस्य कर्तृन् स्मरन्तीति कर्तृविशेषविप्रतिपत्तिः । नन्वेवं कर्तृविशेषविप्रतिपत्तेस्तद्विशेषस्मरणमेवासत्यं स्यात् तत्र, न कर्तृमात्रस्मरणम्। अन्यथा कादम्बर्यादीनामपि कर्तृविशेषविप्रतिपत्तेः कर्तृमात्रस्मरणस्यासत्यत्वेन तत्राप्यस्मर्यमाणकर्तृकत्वस्य सद्भावात् पुनरप्यनैकान्तिकत्वं प्रकृतहेतोः। अथ वेदे कर्तृविशेषविप्रतिपत्तिवत् कर्तृमात्रेऽपि विप्रतिपत्तिरिति तत्र कर्तृस्मरणमसत्यम्, कादम्बर्यादीनां तु कर्तृविशेषे एव विप्रतिपत्तिर्न कर्तृमात्रे, तेन तत्र कर्तुः १० स्मरणस्य विरुद्धस्य सत्यत्वादू नास्मर्यमाणकर्तृकत्वं तेषु वर्त्तत इति नानैकान्तिकत्वम् । ननु 'वेदे सौगताः कर्तृमात्रं स्मरन्ति न मीमांसकाः' इत्येवं कर्तृमात्रेऽपि विप्रतिपत्तेर्यदि कर्तृस्मरणं मिथ्या तदा कर्तृस्मरणवद् अस्मर्यमाणकर्तृकत्वमप्यसत्यं स्यात्, विप्रतिपत्तेरविशेषात्। तथा च पुनरप्यसिद्धो हेतुः। एतेन 'सत्यम्, वेदे कर्तृस्मरणमस्ति न त्वविगीतं, यथा भारतादिषु' इति निरस्तम् । यदप्युक्तम् 'तथा छिन्नमूलं च वेदे कर्तृस्मरणम् । तस्यानुभवो मूलम् , न चासो तत्र तद्विषयत्वेन १५ विद्यते' इति, तदप्यसङ्गतम् । यतः किं प्रत्यक्षेण तदनुभवाभावात् तत्र तच्छिन्नमूलत्वम् , उत प्रमाणान्तरेण ? तत्र यदि प्रत्यक्षेणेति पक्षस्तदा वक्तव्यम्-किं भवत्संबन्धिना प्रत्यक्षेण तत्र तदनुभवाभावः, उत सर्वसंबन्धिना तत्र तदनुभवाभावः? यदि भवत्संबन्धिना, तदाऽऽगमान्तरऽपि तत्कर्तृग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेस्तत्कर्तृस्मरणस्य छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावा दनैकान्तिकः पुनरपि हेतुः । अथ सर्वसंबन्धिना प्रत्यक्षेणाननुभवः, असावसिद्धः, न ह्याग्दशा २. 'सर्वेषामत्र तद्ग्राहकत्वेन प्रत्यक्षं न प्रवृत्तिमत्' इति निश्चेतुं शक्यमिात तत्र तत्स्मरणस्य छिन्न मूलत्वासिद्धेः 'अस्सयमाणकर्तृकत्वात्' इत्यसिद्धो हेतुः। अथ प्रमाणान्तरेण तदनुभवाभाव:तत्रापि वक्तव्यम्-आगमलक्षणं किं तत् प्रमाणान्तरमभ्युपगम्यते, उत अनुमानस्वरूपम् अपरस्य प्रामाण्यासम्भवात् ? तत्र यद्यागमलक्षणेन तद्ननुभव इात पक्षः, स न युक्तः, "हिरण्यगर्भः सम वर्तताग्रे" [ऋग्वेद अष्ट. ८, मं०१०, सू० १२१ ] इत्यादेरागमस्य तत्र तत्सद्भावाऽऽवेदकस्य संभ२५ वात् । न च मन्त्रार्थवादानां स्वरूपार्थे प्रामाण्याभाव इति वक्तुं शक्यम्, यतो मन्त्राथवादानां स्वाभिधेयप्रतिपादनद्वारेण कार्यार्थोपयोगिता; तेषां तत्राप्रामाण्ये विध्यर्थाङ्गताऽपि न स्यात् । अथानुमानेन तत्र तदननुभवः, सोऽपि न युक्तः; अनुमानेन तत्र तदनुभवस्य प्रतिपादितत्वात् । अथानुपलम्भपूर्वकमस्मर्यमाणकर्तृकत्वं यद्यस्माभिहेतुत्वेनोच्येत तदा पूर्वोक्तप्रकारणासिद्धत्वाऽने कान्तिकत्वे स्याताम्, न तु तत्कनुपलम्भपूर्वकमस्मर्यमाणकर्तृकत्वं हेतुः किन्तु तद्भावपूर्वकम् । ३० नन्वत्रापि यदि तावः प्रमाणान्तरात् सिद्धस्तदाऽस्यानुमानस्य वेयर्थ्यम् । न च तदभावप्रात. पादकमन्यत् प्रमाणमस्तीत्युक्तम् । अस्मादेव अनुमानात् तद्भावसिद्धिस्तदाऽतोऽनुमानात् तद्भावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिध्यति, तत्सिद्धी चातोऽनुमानात् तदभावसिद्धिारतीतरेतराश्रयदोषात् तद्वस्थं सविशेषणस्याप्यस्य हेतोरसिद्धत्वम् । अथ मतं यत्र सिद्धकरीकेषु भावेष्वस्मर्यमाणकर्तृकत्वं तत्र कर्तुः स्मरणयोग्यता नास्तीति निर्विशेषणस्यानेकान्तिकत्वम्। वाद३५ कीनां तु रचनानां सति पौरुषेयत्वेऽवश्यं पुरुषस्य कर्तुः तदर्थानुष्ठानसमयेऽनुष्ठातॄणां स्मरणं स्यात्, ते हि अदृष्टफलेषु कर्मस्वेवं निर्विचिकित्साः प्रवर्त्तन्त यदि तषां तद्विषयः सत्यत्वनिश्चयः, तस्याप्येवंभावो यदि तदुपदेष्टः स्मरणम् , यथा पित्रादिप्रामाण्यवशात् स्वयमदृष्टफलप्वाप कर्मसु तदुपदेशात् प्रवर्तन्ते-पित्रादिभिरेतदुपदिष्टं तेनानुष्ठीयते-एवं वैदिकेष्वपि कर्मस्वनुष्ठीयमानेषु तत्र स्मरणं स्यात् ; न चाभियुक्तानामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां कर्तुः स्मरणमात्त, अतः स्मरण४० योग्यस्य कतुरस्मरणात् अपौरुषेयो वेदः, एवं चायं हेत्वर्थ:-कतुः स्मरणयोग्यत्वऽपि सति अस्मार्थमाणकर्तृकत्वात् अपौरुषेयो वेदः। न चैवंविधस्य हेतोः सिद्धकर्तृकेषु भावेषु वृत्तिः, अतो नानेकान्तिकः; यत्र पौरुषेयत्वं तत्र सविशेषणो हेतुर्न संभवतीति विरुद्धत्वमापे न विद्यते, विपक्षे वर्तमानः १ पृ. ४. पं०३३ । २०४०५०३३। ३ स्वरूपेऽर्थ भां०। ४ पृ. ३९ पं. ३५। २१५० ३८-पृ. ३१ पं०९।६ ब्राह्मण-वैश्य-क्षत्रियाणाम्" गु०, भा०टि। ५ पृ.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy