SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ वेदाऽपौरुषेयत्वपरीक्षणम् । रस्मरणम् ? पूर्वस्मिन् पक्षे निर्विशेषणो वा हेतुरपौरुषेयत्वप्रतिपादकः, कर्वस्मरणविशिष्टो वा ? निर्विशेषणस्य निश्चितकर्तृकेषु भारतादिष्वपि भावादनैकान्तिकत्वम् । किंच, किं यथाभूतानां पुरुषाणामध्ययनपूर्वकं दृष्टं तथाभूतानामेवाध्ययनवाच्यत्वमध्ययनपूर्वकत्वं साधयति, उत अन्यथाभूतानाम् ? यदि तथाभूतानां तदा सिद्धसाधनम् । अथान्यथाभूतानां तदा सन्निवेशादिवदप्रयोजको हेतुः। अथ तथाभूतानामेव साधयति न च सिद्धसाधनम् , सर्वपुरुषाणामतीन्द्रियार्थ- ५ दर्शनशक्तिवैकल्येन अतीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वात् ; स्यादेतदू यदि प्रेरणायास्तथाभूतार्थप्रतिपादनेऽप्रामाण्याभावः सिद्धः स्यात्, यावता गुणवद्वक्तुरभावे तहुणैरनिराकृतैर्दोषैरपोदितत्वात् सापवादं प्रामाण्यमित्युक्तम् । तथाभूतां च प्रेरणामतीन्द्रियदर्शनशक्ति. विकला अपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदशत्वसिद्धि. र्यतः सिद्धसाधनं न स्यात् ? अथ न गुणवद्वक्तृकृतत्वेन चोदनाया अप्रामाण्यनिवृत्तिः किन्त्वपौ-१० रुषेयत्वेन, ततो नायं दोषः; ननु कुतः पुनरपौरुषेयत्वं चोदनाया अवगतम् ? यद्यन्यतोऽनुमानात् तदा तत एवापौरुषेयत्वसिद्धर्व्यर्थ प्रकृतमनुमानम् । अत एवानुमानाच्चत् , नन्वतोऽनुमानादपौरुषेयत्वसिद्धौ प्रेरणाया अप्रामाण्याभावः, तदभावाच्च तथाभूतप्रेरणाप्रणेतृत्वासामर्जेन सर्वपुरु. पाणामीहशत्वसिद्धिरितीतरेतराश्रयदोषसद्भावः । अतः स्थितमेतत्-तथाभूतानां तथाभूताध्यय. नसाधने सिद्धसाधनम् ; तन्न निर्विशेषणो हेतुः प्राक्तनोऽपौरुषेयत्वं साधयति । अथ सविशेषणो १५ हेतुः पूर्वोक्तः प्रकृतसाध्यगमकस्तदा विशेषणस्यैव केवलस्य गमकत्वाद् विशेष्योपादानमनर्थकम् । भवतु विशेषणस्यैव गमकत्वं सर्वथा अपौरुषेयत्वसिझ्या नः प्रयोजनमिति चेत्, असदेतत् । यतः कस्मरणं विशेषणं किमभावाख्यं प्रमाणम्, अर्थापत्तिः, अनुमानं वा? यद्यभावाख्यमिति पक्षः, सन युक्तः, अभावप्रमाणस्य प्रामाण्याभावात् । किंच, सदुपलम्मकप्रमाणपञ्चकनिवृत्तिनिबन्धना अस्य प्रवृत्तिरभ्युपगम्यते भवता “प्रमाणपञ्चकं यत्र" [श्लो वा० सू० ५, अभाव० श्लो० १]२० इत्याद्यभिधानात्, न च प्रमाणपञ्चकस्य वेदे पुरुषसद्भावाऽऽवेदकस्य निवृत्तिः, नररचितरचनाऽविशिष्टत्वस्य पौरुषेयत्वप्रतिपादकत्वेनानुमानस्य प्रतिपादनात् । न चास्याऽप्रामाण्यमभिधातुं शक्यम्, यतोऽस्याऽप्रामाण्यं किम् अभावप्रमाणबाधितत्वेन, उत स्वसाध्याविनाभाविवाभावेन ? तत्र न तावदभावप्रमाणबाधितत्वेन, चक्रकदोषप्रसङ्गात् । तथाहि-ज यावदभावनमाणप्रवृत्तिन तावत् प्रस्तुतानुमानबाधा, यावच्च न तस्य वाधा न तावत् सदुपलम्भकप्रमाणनित्तिः , यावच्च न तस्य २५ निवृत्तिर्न तावत् तन्निबन्धना अभावाख्यप्रमाणप्रवृत्तिः, तदप्रवृत्तौ च नानुमानबाधेति दुरुत्तरं चक्रकम्; तन्नाभावप्रमाणबाधितत्वात् प्रस्तुतानुमानस्याप्रामाण्यम् । न चाबाधितत्वमनुमानप्रामाण्य निबन्धनम्-तथाऽभ्युपगमे तस्य प्रामाण्यमेव न स्यात् । तस्य निश्चेतुमशक्यत्वात् । तथाहिबाधाऽभावो नानुपलम्मान्निश्चीयते, विद्यमानबाधकेष्वपि वाधानुपलम्भस्य भावात् । नापि बाध काभावज्ञानात्, यतस्तदपि ज्ञानं यदि तदैव बाधकामावं निश्चाययति तदा न तत् प्रामाण्यनि-३० बन्धनम् । तथाभूतज्ञानस्य संभवद्वाधकेष्वपि भावात् । अथ सर्वदा तद् बाधकामावं निश्वाययति, तदसत् 'न पूर्व बाधकमत्र प्रवृत्तम्, नाप्युत्तरकालं प्रवर्तिप्यते' इत्येवंभूतस्य ज्ञानस्यार्वाग्रहशामभावात् ; भावे वा तस्यैव सर्वज्ञत्वाद् न 'प्रेरणैव धर्म प्रमाणम्' इत्यन्ययोगव्यवच्छेदेन तद्विषयतप्रामाण्यावधारणोपपत्तिः स्यात्-किन्तु निश्चितस्वसाध्याविनाभूतलिङ्गप्रभवत्वम् । स्वसाध्या. विनाभावनिश्चायकं च प्रकृतस्य हेतोः पौरुषेयत्वेन कार्यकारणभावनिश्चायकम्, तदेव च३५ स्वसाध्यविपर्यये तस्य सद्भावबाधकम् , तस्य च प्रकते हेतौ सत्त्वेन दर्शितत्वाद् न तत्प्रभवस्यानुमानस्याप्रामाण्यम् । अत एव स्वसाध्याविनामावित्वाभावेन तस्य अप्रामाण्यम् इति द्वितीयोऽपि पक्षो न युक्तः, तन्नाभावाख्यं कर्चस्मरणलक्षणं प्रमाणम् अपौरुषेयत्वसाधकम्, नापि पौरुषेयत्वबाधकम् । अथ अर्थापत्तिः कर्बस्मरणम्, तदप्यसङ्गतम् ; अर्थापत्तेरनुमानेऽन्तर्भावस्य प्रतिपादयिष्यमाणत्वात्। तहषणैश्चास्य पक्षस्य दूषितत्वात् । अथानुमानम्, तदप्यसङ्गतम् ; 'अपौरुषेयो वेद:४० कञस्मरणात्' इत्येवंप्रयोगे हेतोय॑धिकरणत्वदोषात् । अथ 'अमर्यमाणकर्तृकत्वात्' इति हेतुप्र. योगान्न व्यधिकरणत्वदोषस्तर्हि अस्मर्यमाणकर्तृकत्वं भारतादिषु निश्चितकर्तृकेष्वपि विद्यत इत्यनै. १ 'अध्ययनम्' इति शेषः। २ पृ. १९ पं० २३। ३ पृ. ३९ पं०३५। ४ संभवादू बाधके-भाग कां०, गु०। ५-कृतहेतौ भा०, मा०, अ०।६ पृ.४०५० १३ । स० त०६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy