SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४. प्रथमे काण्डे कूप-प्रासादादिषु पुरुषपूर्वकत्वेऽस्य साध्यधर्मलक्षणस्य विशेषणस्य सिद्धत्वात् । न च हेतोः स्वरूपासिद्धत्वम्, वैदिकीषु वचनरचनासु विशेषग्राहकप्रमाणाभावेन तस्याभावात् । न चाऽप्रा. माण्याभावलक्षणो विशेषस्तत्र इति शक्यमभिधातुम्, तथाभूतस्य विशेषस्य विद्यमानस्यापि पौरुषेयत्वानिराकरणात्: यादृशो हि विशेष उपलभ्यमानः पौरुषेयत्वं निराकरोति तादृशस्य विशेष५स्याभावादविशिष्टत्वमुच्यते, न पुनः सर्वथा विशेषाभावात्; एकान्तेनाविशिष्टस्य कस्यचिदभा. वात् । अप्रामाण्याभावलक्षणश्च विशेषो दोषवन्तमप्रामाण्यकारणं पुरुषं निराकरोति, न च गुणवन्तमप्रामाण्य निवर्त्तकम् । न च गुणवतः पुरुषस्याभावात् अन्यस्य च तेन विशेषेण निवर्तितत्वात् सिद्धमेवापौरुषेयत्वं वेदे इत्यभ्युपगमनीयम्, अपौरुषेयत्वस्य निराकृतत्वाद; गुणवत्पुरुषाभावेs. प्रामाण्याभावलक्षणस्य विशेपस्याभावप्रसङ्गात् । न च गुणवतः पुरुषस्यान्येन विशेषेण निराकरण१० मिति तथाभूतविशेषस्याभावाद् नासिद्धो नररचितवचनरचनाऽविशिष्टत्वलक्षणो हेतुः । पौरुषे. येषु प्रासादादिषु नररचितरचनाऽविशिष्टत्वदर्शनादपौरुषेयेष्वाकाशादिष्वदर्शनाच नानकान्तिकः। अथापौरुषेयेष्वदृष्टमपि नररचितरचनाऽविशिष्टत्वं तत्र विरोधाभावादाशयमानं सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् , न; अपौरुषेयेष्वपि नररचितरचनाऽविशिष्टत्वस्य भावे पौरुषेयत्वेन निश्चिंतेषु प्रासादादिषु सकृदपि तस्य सद्भावो न स्यात्, अन्यहेतुकस्य ततः कदाचिदप्यभावात्। १५भावे वा तहेतुक एवासाविति नापौरुषेये तस्य सद्भावः शङ्कनीयः । अत एव न विरुद्धः, पक्ष. धर्मत्वे सति विपक्ष एव वृत्तिर्यस्य स विरुद्धः, न चास्य विपक्षे वृत्तिरिति प्रतिपादितम् । नापि कालात्ययापदिष्ट-प्रकरणसमाऽप्रयोजकत्वानि हेतोर्दोषाः सम्भवन्ति । तथाहि-प्रत्यक्षाऽऽग. मबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं हेतोः कालात्ययापदिष्टत्वमुच्यते, न च यत्र स्वसाध्याविना भूतो हेतुर्धर्मिणि प्रवर्त्तमानः स्वसाध्यं व्यवस्थापयति तत्रैव प्रमाणान्तरं प्रवृत्तिमासादयत् तमेव २०धर्म व्यावतयतिः एकस्यैकदैकत्र विधि-प्रतिषेधयोर्विरोधात् । तन्न वाधाऽविनाभावयोः सम्भव इति न कालात्ययापदिष्टत्वमविनाभूतस्य हेतोर्दोषः संभवति । प्रकरणसमत्वमपि प्रतिहेतोर्विप. रीतधर्मसाधकस्य प्रकरणचिन्ताप्रवर्तकस्य तत्रैव धर्मिणि सद्भाव उच्यते, न च स्वसाध्याविनाभूतहेतुसाधितधर्मणो धर्मिणो विपरीतत्वं संभवतीति न विपरीतधर्माधायिनो हेत्वन्तरस्य तत्र प्रवृ. त्तिरिति न प्रकरणसमत्वमविनाभूतस्य हेतोर्दोषः । अप्रयोजकत्वं तु पक्षधर्माऽन्वय-व्यतिरेका२५ णामन्यतमरूपाभावः, न च प्रकृते हेतौ तदभाव इति दर्शितम् । अथाऽनुमानलक्षणयुक्तस्य प्रत्यनुमानस्यापौरुषेयत्वसाधकस्य सद्भावात् प्रकरणसमता प्रकृतस्य हेतोः, अनुमानबाधितत्वं वा पक्षस्य दोषः प्रत्यनुमानं च दर्शितम् "वेदाध्ययनमखिलं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा"॥[श्लो० वा० सू०७, श्लो०३६६] इति । ३० न चैतदाशङ्कनीयम्-एवंविधे प्रत्यनुमानेऽभ्युपगम्यमाने कादम्बर्यादीनामप्यपौरुषेयत्वसिद्धिः, यतस्तेषु बाणादीनां कर्तृणां निश्चयः; तथाहि-कालिदासकृतत्वेन कुमारसंभवादीनि काव्यानि अविगानेन स्मर्यन्ते । अथ वेदेऽपि कर्तृस्मरणमस्ति, तथा च केचिद् हिरण्यगर्भ वेदानां कर्त्तार स्मरन्ति, अपरे अष्टकादीन् ऋषीन् , सत्यम्, अस्ति न त्वविगीतं यथा भारतादिषु, तथा छिन्नमूलं च । स्मरणस्यानुभवो मूलम्, न च वेदे कर्तृस्मरणस्य केनचित् प्रमाणेन मुलानुभवो व्यवस्थापयितुं ३५शक्यः; यदपि कर्तृसद्भावप्रतिपादकं वचनं कैश्चित् कृतम्-"हिरण्यगर्भः समवर्तताने" [ऋग्वेद अष्ट० ८ मं०१०, सू० १२१] इत्यादि, तदपि मन्त्राऽर्थवादानां श्रूयमाणेऽर्थे प्रामाण्यायोगाद् न तत्सद्भावावेदकम् । तदुक्तम् "भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदे तु तत्स्मृतिर्या तु साऽर्थवादनिबन्धना" ॥ [श्लो० वा० सू०७, श्लो० ३६७], ४०पतदप्ययुक्तम् । यतः किमत्र प्रतिसाधनत्वेन विवक्षितम् ? किमध्ययनशब्दवाच्यत्वम्, उत कर्तु १ न च प्रामाण्याभावलक्षणो वा०, बा०, पू० विना सर्वत्र। २ निश्चितेषु एषु प्रासा-गु०। ३ प्र. पृ.पं० ११। ४ धर्मिणि गु०। ५पृ० ३९ पं० ३६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy