SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वेदाऽपौरुषेयत्वपरीक्षणम् । पौगलिकत्वं च शब्दस्य अम्बरगुणप्रतिषेधप्रस्तावे प्रमाणोपपन्नं करिष्यत इस्यास्तां तावत् । यत् पुनन्तित्वं शब्दादर्थप्रत्ययस्याभिहितं तद् धूमाल्लिङ्गाल्लिङ्गिप्रत्ययेन प्रत्युक्तम् । 'गत्वादिविशिष्टस्य गादेर्वाचकत्वमयुक्तम् , गत्वादेः सामान्यस्यासम्भवात्'; तद् अनन्तरं निराकृतम् । यत् पुनरुक्तम् 'गादिव्यक्तिमात्रं गत्वादिविशिष्टं नोपपद्यते, तस्य सामान्य-विशेषयोरन्यतरत्रान्तर्भावे एकत्र वाचकस्य नित्यत्वपसङ्गात्, अन्यत्रानन्वयात् वाचकत्वायोगात्' एतदसारम: व्यक्तिमात्रस्य सामा- ५ न्यविशिष्टस्य पूर्व वाचक त्वव्यवस्थापनात्, ता एव व्यक्तयोऽविवक्षितासाधारणविशेषाः सामान्यविशिष्टव्यक्तिमात्रशब्दामिधेयाः। किंच, किं वर्णानां नित्यत्वमभ्युपगम्यते, उत वर्णक्रमस्य, आहोस्विद् वर्णाभिव्यक्तेः, किं वा तत्क्रमस्य? तत्र न तावदभिव्यक्तेर्नित्यत्वम् , तस्या निषिद्धत्वात्; अनिषेधेऽपि पुरुषप्रयत्नप्रेरितवायुजन्यत्वेनापौरुषेयत्वासम्भवात् । नाप्यभिव्यक्तिक्रमस्य, अभिव्यक्त्यभावे तत्क्रमस्याप्यभावात्,१० तत्पौरुषेयत्वे तस्यापि पौरुषेयत्वात् । अथैवं पौरुषेयत्वस्यानादिसिद्धस्य केनचिदादावकृतस्य सर्वपुरुषैः परिग्रहात पुरुषाणां स्वातच्याभावादपौरुषेयत्वमुच्यते । तदुक्तम् "वक्ता नहि क्रम कश्चित स्वातन्येण प्रपद्यते । यथैवास्य परैरुक्तः तथैवैनं विवक्षति ॥ परोऽप्येवं ततश्चास्य संबन्धवदनादिता। तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ॥ यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता"। [ श्लो० वा० सू० ६, श्लो० २८८ २९० ] इति, एतदसंबद्धम् ; अपौरुषेयत्वप्रतिपादकप्रमाणस्यासिद्धत्वात् । अथ वर्णक्रमस्यापौरुषेयत्वमभ्युपगम्यते, तदप्यचारु; वर्णानां नित्यत्वेन कालकृतस्य तन्तुपटवद्, व्यापकत्वेन देशकृतस्य मुक्ताव-२० लीमुक्ताफलमालावद् अस्यासंभवात् । 1अथ वर्णानामपौरुषेयत्वमङ्गीक्रियते, तदप्यसङ्गतम् ; “य एव लौकिकाः शब्दास्त एव वैदिकाः" इत्यभिधानाद् वेदवल्लोकायतशास्त्रमपि प्रमाणं स्यादिति तदर्थानुष्ठानं भवतः प्रसज्यते । लौकिके च वाक्ये यो विसंवादः क्वचिदपलभ्यते स भवन्नीत्या न प्राप्नोति । अथ लौकिक-वैदिकशब्दयोर्भेदोऽभ्युपगम्यते, तथा (तदा) रागादिसमन्वितत्वाभ्युपगमात् सर्वपु-२५ रुषाणां न तेषां यथावस्थितवेदार्थपरिज्ञानमः स्वयं वेदोऽपि न भवतां वेदार्थ प्रतिपादयति; नापि वेदार्थप्रतिपादकमपौरुषेयं वेदव्याख्यानमवगतार्थ सिद्धं येन ततो वेदार्थप्रतिपत्तिः लौकिकशब्दानुसारेण वेदशब्दार्थप्रकल्पनमपि तद्भेदाभ्युपगमेऽनुपपन्नमिति न वेदार्थप्रसिद्धिः स्यादिति न वैदिक-लौकिकशब्दयोर्भेदाभ्युपगमः श्रेयानिति लौकिकवद वैदिकस्यापि पौरुषेयत्वमभ्युपगन्तव्यम् । न च लौकिक-वैदिकशब्दयोः शब्दस्वरूपाविशेषे, सङ्केतग्रहणव्यपेक्षत्वेनार्थप्रतिपादकत्वे, ३० अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे संम्यते (समाने )अपरो विशेषो विद्यते यतो वैदिका अपी. रुषेयाः, लौकिकाः पौरुषेयाः स्यः । तथा नियोगे चार्थप्रत्यायनमुभयोरपि । न च नित्यत्वे पुरुषेच्छावशादर्थप्रतिपादकत्वं युक्तम, उपलभ्यन्ते च यत्र पुरुषैः सङ्केतितास्तमर्थमविगानेन प्रति. पादयन्तः; अन्यथा नियोगाद्यर्थभेदपरिकल्पनमसारं स्यात् । अतः पौरुषेयत्वमनुमानादवसीयते । तथाहि-ये नररचितरचनाऽविशिष्टास्ते पौरुषेयाः, यथाऽमिनवकृप-प्रासादादिरचनाऽविशिष्टा ३५ जीर्णकूप-प्रासादादयः, नररचितवचनरचनाऽविशिष्टं च वैदिकं वचन मिति प्रयोगः। न चात्राऽऽश्रयासिद्धो हेतुः, वैदिकीनां रचनानां प्रत्यक्षत उपलब्धेः। नाप्यप्रसिद्ध विशेषणः पक्षः, अमिनव १ पृ. ३३ पं०६। २ पृ. ३३ पं० २७। ३ पृ० ३३ पं० १०। ४ पृ० ३४ पं०३। ५ पृ० ३३ पं० १८ । ६ पृ० ३४ पं०३। ७ पृ. ३४ पं. ३३ । ८ वा०, पू०, बा०, मां० विना सर्वत्र सस्यते । सत्यतो भा०, गु० । प्रमेयकमलमार्तण्डे अत्र स्थले एवं पाठः-"न च लौकिक-वैदिकशब्दयोः शब्दखरूपाविशेषे, संकेतग्रहणस. व्यपेक्षत्वेन अर्थप्रतिपादकत्वे, अनुच्चार्यमाणयोश्च पुरुषेण अश्रवणे समाने अन्यो विशेषो विद्यते यतो वैदिका अपौरुषेयाः शब्दाः, लौकिकास्तु पौरुषेयाः स्युः"-(पृ. ११६, पं०६-७)। ९ नियोगः संकेतः । नियोगं भा०, गु०, वि., का• विना। १० वियोगाद्यर्थ-वा०, गु०, भा० विना। ११ नररचितरचना- गु० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy