SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे न परार्थशब्दोच्चारणान्यथाऽनुपपत्त्या तन्नित्यत्वकल्पना युक्ता, तद् गत्वादिविशिष्टस्य गादेरविवक्षितविशेषस्य स्वार्थेन सङ्गत्यवगमेन न किञ्चिन्नित्यत्वेन । यथा गोत्वादिविशिष्टस्य गोव्यक्तिमात्रस्य वाच्यत्वे न कश्चिद्दोषस्तद्वद् वाचकत्वेऽपि, तद् अर्थप्रतिपादकत्वस्य अन्यथापि सम्भवात् 'दर्शनस्य परार्थत्वाद् नित्यः शब्दः' इत्ययुक्तमभिहितम् । यत् पुनरुक्तम् 'सदृशत्वेनाग्रहणाद् न ५सादृश्यादर्थप्रतिपत्तिः'इति, तत्र यदि सदृशपरिणामलक्षणं सामान्य व्यक्तेः सादृश्यमभिप्रेतं तदा तस्य यथा व्यक्तिविशेषणस्य वाचकत्वं तथा प्रतिपादितम् । अथ अन्यथाभूतं सादृश्यमत्र विवक्षितं तदा तस्य वाचकत्वानभ्युपगमात् स एव परिहारः । यत्तूक्तम् 'वर्णानां निरवयवत्वाद् न भूयोऽवयवसामान्ययोगलक्षणस्य सादृश्यस्य सम्भवः' तदत्यन्तासङ्गतम्; वर्णानां भाषावर्गणारूपपरिणतपुद्गलपरिणामस्यैव सावयवत्वात्। १० अथ पोद्गलिकत्वे वर्णानां महती अदृष्टकल्पना प्रसज्यते। तथाहि-शब्दस्य श्रवणदेशाऽऽग मनम् , मूर्ति-स्पर्शादिमत्त्वं च अनुपलभ्यमानं परिकल्पनीयम्; तेषां च मूर्ति-स्पर्शानां सतामप्यनुद्भूतता कल्पनीया, त्वगग्राह्यत्वं च परिकल्पनीयम्; ये चान्ये सूक्ष्मा भागास्तस्य कल्प्यन्ते तेषां च शब्दकरणवेलायां सर्वथाऽनुपलभ्यमानानां कथं रचनाक्रमः क्रियताम् ? उपलभ्यमानत्वेऽपि कीदृशाद् रचनाभेदाद् गकारादिवर्णभेदः ? द्रवत्वेन च विना कथं वर्णावयवानां परस्प१५ रतः संश्लेषो वर्णनिष्पादकः ? यद्यपि च कथञ्चित् कर्ता निष्पादिता वर्णास्तथापि आगच्छतां कथं न वायुना विश्लेषः ? लघूनां तदवयवानामुदकादिनिबन्धनाभावात् निबद्धानामप्यागच्छतां वृक्षाद्यमिहतानां विश्लेषो लोष्टवत् । न चैकशब्दस्यैकश्रोत्रप्रवेशे मुर्तत्वेन प्रतिबद्धत्वादन्येषां श्रोतृणां तद्देशव्यवस्थितानामपि श्रवणमुपपद्यते, प्रयत्नान्तरस्यासत्वेन पुनर्निष्क्रमणासम्भवात् । न चैकगो शब्दापेक्षयाऽवान्तरवर्णनानात्वकल्पनायामस्ति प्रयोजनम् , एकस्मादेव गोशब्दादर्थप्रतीते; अतो २०गकारादिवर्णनानात्वमदृष्टं परिकल्पनीयम् । न चैकस्यैव गोशब्दावयविनः सर्वासु दिक्ष गमनं युज्यत इत्यनेकाऽदृष्टपरिकल्पना स्यात् । तदुक्तम् "शब्दस्याऽऽगमनं तावदृष्टं परिकल्प्यते ॥ मर्ति-स्पर्शादिमत्वं च तेषाममिभवः सताम् । त्वगग्राह्यत्वमन्ये च सूक्ष्मा भागाःप्रकल्पिताः॥ तेषामदृश्यमानानां कथं च रचनाक्रमः?। कीदृशाद् रचनाभेदादू वर्णभेदश्च जायताम् ? ॥ द्रवत्वेन विना चैषां संश्लेषः कल्प्यतां कथम् ?। आगच्छतां च विश्लेषो न भवेद् वायुना कथम् ? ॥ लघवोऽवयवा ह्येते निबद्धा न च केनचित् । वृक्षाद्यभिहतानां तु विश्लेषो लोष्टवद् भवेत् ॥ एकश्रोत्रप्रवेशे च नान्येषां च पुनः श्रुतिः। न चावान्तरवर्णानां नानात्वस्यास्ति कारणम् ॥ न चैकस्यैव सर्वासु गमनं दिक्षु युज्यते"। [श्लो० वा० सू० ६, श्लो० १०७-११३] इति , ३५ एतद् भवत्पक्षेऽपि सर्व समानम् । तथाहि-वायोरागमनं तावदष्टं परिकल्प्यते' इत्याद्यपि वक्तुं शक्यत एव, केवलं वर्णस्थाने वायुशब्दः पठनीय इति कथं न भवत्पक्षेऽपि भूयस्यदृष्टपरिकल्पना? अपि च, भवत्पक्षेऽयमपरः परिकल्पनागौरवदोषः सम्पद्यते-वर्णस्य पूर्वाऽपरकोट्योः सर्वत्र देशेऽनुपलभ्यमानस्य सत्त्वं परिकल्पनीयम्, तस्य चावारकाः स्तिमिता वायवः प्रमाणतोऽ नुपलभ्यमानास्तदपनोदकाश्चान्ये तथाभूता एव व्यञ्जकाः परिकल्पनीयाः, तेषां चोभयरूपाणामपि ४०शक्तिनानात्वं परिकल्पनीयम् । अस्मत्पक्षे तत् सर्वमपि नास्तीते कथमदृष्टपरिकल्पना गुर्वी ? १ स्वार्थे संगत्यवगमे न वा०, पू०, बा०। २ पृ० ३३ पं० १ ३ पृ. ३३ पं० ३। ४ शक्तिविशेषणस्य वा०, पू०, बा० विना सर्वत्र। ५ पृ. ३४ पं० ३। ६ पृ. ३३ पं. ८ । ७-मलस्येव (-मत्वे. नैव) वा०, बा०, पू० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy