SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वेदाऽपौरुषेयत्वपरीक्षणम। नुपलम्मः किन्तु दलितनखशिखरादिप्पियाभावनिमित्त इति लनपुनर्जातनखादिविवापान्तरा. लादर्शनेन गादिप्रत्यमिक्षाया वाध्यमानत्वादप्रामाण्यम। अथ खण्डितपुनरुदिनकररुहममूह विषयाया अपि प्रत्यमिझायास्तत्सामान्य विषयन्वेन नाप्रा. माण्यम्, तस्यास्तद्विपयतयाऽयाध्यमानत्वात् न चायं प्रकागे गादिविषयप्रत्यमिनायाः सम्भवति, तथाभूतकेशादिग्विव गादिभेद विषयावाधिनप्रतिभासाभावेन तद्भदासिद्धा समानानां भावः सामा. ५ न्यम्' इति कृत्वा तत्र सामान्यस्यैवासम्भवान्, अमदेतत् : गादिष्यपि 'पूर्वोपलब्धगादेः सका. शाद् अयमल्पः महान् कर्कशः मधुगे वा गादिः' इत्यवाधिताभजप्रतिभाससद्भावेन भेद निवन्धनसामान्यसम्भवस्य न्यायानुगतत्वात् । न च यथा तुरगजवस्य पुरुऽध्यारोपात् 'पुरुषो याति' इति प्रत्ययः व्यपदेशश्च तथा व्यञ्जकध्वनिगतस्याल्प-कर्कशादेर्गादावुपचारात् तथाप्रत्ययः व्यपदेशश्चेत्यभ्युपगन्तुं शक्यम्, तथाऽभ्युपगमे वाहीके गोप्रत्ययवद् गादिप्रत्ययस्य भ्रान्तत्वेन १० गादिस्वरूपासिद्धिप्रसङ्गात् नहि भ्रान्तप्रत्ययसंवेद्या द्विचन्द्रादयः स्वरूपसंगतिमनुभवन्ति । न चाल्प-महत्त्वप्रत्यययोन्तित्वे अल्प-महत्त्वे एव गादिविषये अव्यवस्थितस्वरूप न पुनर्गादिको वर्णः, तत्प्रत्ययस्याभ्रान्तत्वात् : न चान्यविषयप्रत्ययस्य भ्रान्तत्वेऽन्यस्य तथाभावोऽतिप्रसङ्गादिति वक्तुं युक्तम्, यतो यद्यल्प-महत्त्वादिधर्मव्यतिरिक्तस्य गादेईित्वरहितस्येव निशीथिनीनाथस्य प्रत्ययविषयत्वं स्यात् तदैव तदू युज्येतापि वक्तुम् : न च स्वप्नेऽपि तद्धर्मानध्यासिनो गादिः केनचित् १५ प्रतीयत इति कथं तस्य महत्त्वादिधर्मरहितस्य स्वरूपव्यवस्था ? अत एव महत्त्वादिधर्मयुक्तस्य सर्षदा प्रतीयमानत्वादू गादेन तद्धर्मयुक्ततया प्रतीयमानस्य उपचरितप्रत्ययविषयता । तदुक्तम् ___ "यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथाऽपि वा। स भ्रान्तो न तु तेनैव यो नित्यमुपलभ्यते" ॥ [ ] इति । तन्न व्याकधर्माध्यारोपादुपचरितप्रत्ययविषयत्वं तथाभूतस्य गादेः, सर्वभावानामुपचरितप्रत्यय-२० विषयत्वेन स्वरूपाभावप्रसङ्गात् । न च व्यञ्जकस्य प्रदीपादेरल्प-महत्त्वभेदाद् व्यङ्गयस्य घटादेरल्पमहत्त्वभेदप्रतिभासो दृष्टः । अथ व्याकधमोनुकारित्वं व्यङ्गये उपलभ्यते । तथाहि-एकस्वरूपमपि मुखं खड्ने प्रतिविम्बितं दीर्घम्, आदर्श वर्तुलम्, नीलकाचे गौरमपि श्यामं व्यञ्जकधर्मानुकारितया प्रतिभासविषयमुपलभ्यत इति प्रकृतेऽपि तथा स्यात् , एतदप्यसङ्गतम् ; दृष्टान्तमात्रादासिद्धेः, तस्य हि साध्य-साधनप्रतिबन्धसाधकप्रमाणविषयतया साध्यसिद्धावुपयोगो न स्वतन्त्रस्य, अन्यथा-२५ "एक एव हि भूतात्मा भूते भूते व्यवस्थितः” [ अमृतविन्दु-उपनि० प० १२, पृ० १५] इत्यादिष्टान्तमात्रतोऽद्वैतवा दिनोऽपि पुरुषाद्वैतसिद्धः शब्दस्वरूपस्याप्यभावात् कस्योपचाराद् महत्त्वादिप्रतिभास इत्युच्यते? मुखादीनां च छाया खड्गादो संक्रान्ता तद्धर्मानुकारिणी प्रतिभाति न मुखादयः। न च गादीनां छाया व्यञ्जकध्वनिसंक्रान्ता तद्धर्मानुकारिणी प्रतिभातीति शक्यं वक्तुम्, शब्दस्य भवताऽमूर्त्तत्वेनाभ्युपगमात् , अमूर्तस्य च मूत्तध्वनी छायाप्रतिबिम्ब-३० नाऽसंभवात् ; मूर्तीनामेव हि मुखादीनां मूर्ते आदर्शादौ छायाप्रतिबिम्बनं दृष्टं नामूर्तीनामात्मादीनाम् । अदृ च ध्वनौ छाया प्रातविम्बिताऽपि न गृह्यत कयं तद्धर्मानुकारितया प्रतीतिविषयः? न च ध्वनेः शब्दप्रतिभासकाले श्रवणप्रतिपत्तिविषयत्वम्, उभयाकारप्रतिपत्तरसंवेदनात्। तन्न व्यञ्जके ध्वनी प्रतिबिम्बिता गकारादिच्छाया प्रतिभाति । नाप्यमूर्त गादी ध्वनिच्छायाप्रतिबिम्बनं युक्तम्, अमूर्ते आकाशादौ घटादिच्छायाप्रतिबिम्बनानुपलब्धेः । तदयुक्तमुक्तम् ३५ 'खङ्गादौ दीर्घमुखादिप्रतिभासवद् अल्प-महत्त्वादियुक्तशब्दप्रतिभासः' इति, दृष्टान्त-दान्तिक। योर्वेषम्यात् । अतोऽबाधितमहत्त्वादिभेदमिन्नगादिप्रतिभासाद् गादिभेदसिद्धस्तन्निबन्धनस्य सामा. न्यस्य गादौ सद्भावात् तन्निबन्धना प्रत्यमिक्षा दलितोदितनखशिखरादिग्विव गादावभ्युपगमनीया। अत एव धूमादीनामिवानित्यत्वेऽपि गादीनां सामान्यसद्भावतः सङ्गत्यवगमस्य सभवाद् १ प्रन्याप्रम् १४०० । २ "सामान्यविषयत्वप्रयोज्याबाभ्यमानत्वप्रयोज्याप्रामाण्याभावरूपः" गु. टि. । ३-ओन्तित्वे कां., गु०। ४ प्रतिबिम्बसाधक का., गु०। ५ अत्र 'इति' अध्याहार्यम् । ६ प्र. पृ. पं. २३।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy