SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे धायकत्वेनावारकत्वं किन्तु वर्णे दृश्यस्वभावखण्डनात्; व्यञ्जकानामपि न तदावारकापनेतृत्वेन व्यञ्जकत्वं किन्तु वर्णे दृश्यस्वभावाधानादिति पूर्वोक्तदोषाभाव इति वक्तुं शक्यम्, एत एवममिधाने स्ववाचैव तस्य परिणामित्वममिहितं स्यादित्यविप्रतिपत्तिप्रसङ्गः; तन्न वर्णसंस्कारोऽमिव्यक्तिरिति पक्षो युक्तः। नापि श्रोत्रसंस्कारोऽभिव्यक्तिरिति पक्षो यक्तः, तस्मिन्नपि पक्षे सकृत् सं५स्कृतं श्रोत्रं सर्ववर्णान् युगपत् शृणुयात्; नह्यञ्जनादिना संस्कृतं चक्षुःसंनिहितं स्वविषयं किञ्चित् पश्यति किश्चिन्नेति दृष्टम् । अथ व्यञ्जकानां वायूनां मिन्नेषु कर्णमूलावयवेषु वर्तमानानां संस्काराधायकत्वेनार्थापत्त्या प्रतिनियतवर्णश्रवणान्यथाऽनुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन सं. स्काराधायकत्वस्य प्रतीतेनैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान् युगपद गृहातीति । तथाहिवायवीयशब्दपक्षे यथा गकारादेर्निष्पत्त्यर्थ प्रयत्नप्रेरितो वायुर्नान्यं वर्णमुत्पादयति तथाऽस्मत्पक्षेऽ१०प्यन्यवर्णग्राहकश्रोत्रसंस्कारे समर्थो नान्यवर्णग्राहकश्रोत्रसंस्कारं विधास्यति । येषां तु ताल्वादि संयोग-विभागनिमित्तः शब्द इति पक्षस्तेषां यथाऽन्यगकारादिजनकैः संयोग-विभागैर्नान्यो वर्णो जन्यते तथाऽस्मत्पक्षेऽपि नान्यवर्णग्राहकश्रोत्रसंस्काराधायकव्यञ्जकप्रेरकैरन्यवर्णग्राहकश्रोत्रसंस्काराधायकवायुप्रेरणं क्रियत इत्युत्पत्त्य-भिव्यक्तिपक्षयोः कार्यदर्शनान्यथाऽनुपपत्त्या समः सामर्थ्य भेदः प्रयत्न-विवक्षयोः सिद्धः । अतश्च यदुक्तं कैश्चित् “समानेन्द्रियग्राह्येष्वर्थेषु व्यञ्जकेषु न दृष्टो १५ नियमः” इति, एतदयुक्तम् । अर्थापत्तेदृष्टान्तानपेक्षत्वात्, दृष्टश्च तैलाभ्यक्तस्य मरीचिभिः, भूमेस्तूदकसेकेन गन्धाभिव्यक्तिभेद इति कथं न व्यञ्जकनियमः? तदुक्तम्-- "व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ॥ जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते । अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न करोति वैः॥ तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति। अन्यैस्ताल्वादिसंयोगै न्यो वर्णों यथैव हि ॥ तथा ध्वन्यन्तराक्षेपो न ध्वन्यन्तरसारिभिः। तस्मादुत्पत्त्य-मिव्यक्त्योः कार्यार्थापत्तितः समः॥ सामर्थभेदः सर्वत्र स्यात् प्रयत्न-विवक्षयोः" । इति, [ श्लो० वा० सू० ६, - श्लो० ७९-८३] एतदसंबद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां समानदेश-समानेन्द्रियग्राह्येष्वर्थेषु प्रतिनियतविषयग्राहकत्वेनेन्द्रियसंस्कारकत्वस्य कदाचिददर्शनात्; नह्यञ्जनादिना संस्कृतं चक्षुः सन्निहितं स्वविषयं किश्चित् पश्यति, किश्चिन्नेत्युपलब्धम् । तथा बाधिर्यनिराकरणद्वारेण वैलातैलादिना संस्कृतं श्रोत्रं स्वग्राह्यान् गकारादीन् वर्णानविशेषेणैवोपलभमानमुपलभ्यते; एवं घ्राणादीनीन्द्रि३.याणि स्वव्यजकैः संस्कृतानि स्वविषयग्राहकत्वेनाविशेषेण प्रवर्त्तमानानि प्रतीयन्त इति प्रकृतेऽप्य. यमेव न्यायो युक्तः। यश्च तैलाभ्यक्तस्य मरीचिमिः, भूमेस्तूदकसेकेन गन्धामिव्यक्तिरिति व्यञ्जकं प्रति नियमो दर्शितैः सोऽपि विषयसंस्कारकव्यञ्जकप्रतिनियमः नेन्द्रियसंस्कारकव्यञ्जकप्रतिनियमः । विषयसंस्कारकेश्वप्ययं नियमो भिन्नदेशेषु दर्शितः न समानदेश-समानेन्द्रियग्राह्येषु । तत इन्द्रियसंस्कारकेषु समानेन्द्रियग्राह्ये समानदेशेऽर्थे प्रतिनियतविषयग्राहकत्वेन इन्द्रियान्तरविषय३५ ग्राहकत्वेन च इन्द्रियसंस्कारकत्वस्यादर्शनाद् अत्यन्तासंभविनो नापत्तिसामर्थ्यात् कल्पना युक्ता; कारकाणां तु प्रतिनियतकार्यकर्तृत्वस्यान्यत्राप्युपलब्धेः प्रतिनियतवर्णोत्पादनसामर्थ्यभेदस्य ताल्वादिष्वर्थापत्तितः कल्पना संभाव्यत एव। किंच, इन्द्रियं संस्कुर्वद व्याकं यदि यथावस्थित. वर्णग्राहकत्वेनेन्द्रियसंस्कारं विदध्यात् तदा सकलनभस्तलव्यापिनो गादेः प्रतिपत्तिः स्यात्, न चासो दृष्टा; अथान्यथा, न तर्हि वर्णस्वरूपप्रतिभास इति न तत्स्वरूपसिद्धिः, तन्न श्रोत्रसंस्का' १० रोऽप्यमिव्यक्तिः । नाप्युभयसंस्कारोऽभिव्यक्तिः, प्रत्येकपक्षोक्तदोषप्रसङ्गात् । न चान्यप्रकार: संस्कारोऽमिव्यक्तिः संभवति, तद् अभिव्यक्तेरसंभवादू नानमिव्यक्तिनिमित्तोऽन्तराले गादीनाम १च कां०, गु०। २ बला-गु०।३ प्र. पृ. पं०१६।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy