SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वेदाऽपौरुषेयत्वपरीक्षणम् । ३५ भ्यपगन्तव्या, तस्या अपि ततो भेदेऽनवस्था; अभेदे प्रथमेव शक्तिः कथञ्चिदभिन्नाऽभ्युपगमनीयाः एवं हि पारम्पर्यपरिश्रमः परिहृतो भवति । तथाभ्युपगमे च तन्छक्तिप्रतिघाने वर्णस्वरूपमेव तदभिन्नमावारकेण प्रतिहतं भवति ततश्च कथं नानित्यत्वम् ? व्यञ्जकेनापि शक्तिप्रतिबन्धापनयनद्वारेण विज्ञानजननशक्त्याविर्भावेन वर्णस्वरूपमेवाविर्भावितं भवतीति कथं न वर्णस्य व्यञ्जकजन्यत्वम? व्यञ्जकावाप्तविज्ञानजननस्वरूपो वर्णो यदि तेनैव स्वरूपेणावतिष्ठते तदा सर्वदा तदव- ५ भासिज्ञानप्रसङ्गः, सर्वदा तज्जननस्वभावस्य भावात्। 'सहकार्यपेक्षा च नित्यस्य न भवति' इति प्रतिपादयिष्यामः । अजनने वा न तत्स्वभावतेति प्रथममपि ज्ञानं न जनयेत्, यो हि यन्न जनयति न स तज्जननस्वभावः, यथा शालिबीजं यवाकुरमजनयन्न तजननस्वभावम, न जनयति च वर्णो व्यञ्जकाभिमतवाय्वभिव्यक्तोऽपि सर्वदा स्वप्रतिभासिज्ञानमिति न सर्वदा तजननस्वभावः । तत्स्वभा. वाभावे चोत्तरकालं तदेवानित्यत्वमिति व्यर्थमभिव्यक्तिकल्पनम् । अपि च, वर्णाभिव्यक्तिपक्षे कोष्ठ्येन १० वायुना यावद्वेगमभिसर्पता यावान् वर्ण विभागोऽपनीतावरणः कृतस्तावत एव श्रवणं स्यात् न समस्तस्य वर्णस्येति खण्डशस्तस्य प्रतिपत्तिः स्यात् । अथ वर्णस्य निरवयवत्वादेकत्रोत्सारितावरणः सर्वत्रापनीतावरण इति नायं दोषस्तर्हि निर्विभागत्वादेवैकवानपनीतावरणः सर्वत्र तथेति मनागपि श्रवणं न स्यात् । सर्वत्र सर्वात्मना वर्णस्य परिसमाप्तत्वात् सामस्त्येन श्रवणाभ्युपगमे वर्णस्याव्यापकत्वम् अनेकत्वं च दुर्निवारम् । यदि चैकत्राभिव्यक्तो निर्विभागत्वेन सर्वत्राभिव्यक्तस्तदा १५ सर्वदेशावस्थितैस्तस्य श्रवणं स्यात् । यदप्युच्यते-यथैवोत्पद्यमानोऽयमुत्पत्तिवादिनां पक्षे दिगादीनामविभागादविभक्तदिगादिसंबन्धित्वेन स्वरूपेणासर्वगतोऽपि सर्वान् प्रति भवन्नपि न सर्वेरवगम्यते किन्तु यच्छरीरसमीपवर्ती वर्ण उत्पन्नस्तेनैवासा गृह्यते तथाऽस्मत्पक्षेऽपि स्वतः सर्वगतो. ऽपि वर्णों न सर्वैर्दूरस्थैरवगम्यते किन्तु यच्छरीरसमीपस्थोऽभिव्यक्तस्तैरेवेति व्यञ्जकध्वनिसन्निधानाऽसन्निधानकृतं वर्णस्य श्रवणम् अश्रवणं च युक्तम् । एतदेवाह "यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ दिग्देशाद्यविभागेन सर्वान् प्रति भवन्नपि । तथैव यत्समीपस्थैर्नादैः स्याद् यस्य संस्कृतिः॥ तैरेव गृह्यते शब्दो न दूरस्थैः कथश्चन" । इति, [श्लो० वा० सू० ६, श्लो० ८४-८६] तदपि प्रलापमात्रम्; यतो यदि व्यञ्जका वायवो यत्रैव संनिहितास्तत्रैव वर्णसंस्कारं कुर्युस्तदा २५ स्यादप्येतत्, किन्तु तथाभ्युपगमे वर्णस्य सावयवत्वम् अनभिव्यक्तस्वरूपादभिव्यक्तस्वरूपस्य च भेदादनेकत्वं च स्यात् । सर्वात्मना तु संस्कारे "यच्छरीरसमीपस्थैर्नादैः स्यादू यस्य संस्कृतिः। तैर्यथा श्रूयते शब्दस्तथा दूरगतैर्न किम्'? ॥ [ उत्पत्तिपक्षे तु अव्यापकत्वाद् यत्समीपवर्ती वर्ण उत्पन्न स्तेनैवासौ गृह्यते न दूरस्थैरिति युक्तम् । ३० "दिग्देशाद्य विभागेन"इति चातीवासङ्गतम्, अविभागस्य कस्यचिद् वस्तुनोऽसंभवेनानभ्युपगमात् । किंच, व्यापकत्वेन वर्णानामेकवर्णाऽऽवरणापाये समानदेशत्वेन सर्वेषामनावृतत्वाद् युगपत् सर्ववर्णश्रुतिश्च स्यात् । अथापि स्यात् प्रतिनियतवर्णश्रवणान्यथाऽनुपपत्त्या व्यञ्जकभेदसिद्धेः प्रतिनियतैर्व्यञ्जकैः प्रतिनियताऽऽवारकनिराकरणद्वारेण प्रति नियतवर्णसंस्काराद् न युगपत्सर्ववर्णश्रुतिदोषः, स्यादेतद् यदि व्यञ्जकानां वायूनां भेदः स्यात्, स चावारकभेद निबन्धनः, अन्यथा ३५ तभेदेऽमिन्नावारकापनेतृत्वेन कुतो व्यञ्जकभेदः? आवारकमेदोऽपि वर्णदेशभेदनिबन्धनः, अन्यथा समानदेशानां यदेवैकस्यावारकं तदेवापरस्यापि इत्यावारकभदो न स्यात् । देशभेदोऽपि वर्णानामव्यापकत्वे सति स्यात्, व्यापकत्वे तु परस्परदेशपारहारेण वर्णानामवस्थानाभावाच देशभेदः । न चाव्यापकत्वं वर्णानामभ्युपगम्यते भवद्भिरिति न देशभेदः, तदभावानावारकभेदः, तत्सत्त्वान्न व्यञ्जकभेद इति युगपत्सर्ववर्णश्रुतिरिति तदद्वस्थो दोषः । नाप्यावारकाणां न वर्णपि-४० १-शस्तत्प्रतिप-गु०। २ ईदृशस्तु पाठः वा०, पू०, बा०, चं-ल. प्रतिध्वेव, अन्यत्र सर्वत्र-काणां वर्णपिधायक-इति । किन्तु डे॰, भा॰ प्रतौ 'पूर्वोक्तदोषाभाव इति वक्तुं शक्यम्' इत्यस्य स्थाने 'पूर्वोक्त. दोषाभाव इति वक्तुं न शक्यम्' इति पाठः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy