SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। सपक्षेऽसन् विरुद्ध उच्यते, अस्य तु सविशेषणस्य प्रसिद्धपौरुषेये वस्तुन्यप्रवृत्तिः, नापि सपक्षे आकाशादौ असत्त्वम् ; अतः परिशुद्धान्वय-व्यतिरेकहेतुसद्भावात् कर्तृस्मरणयोग्यत्वे सति अस्मर्यमाणकर्तृकत्वात् अपौरुषेयो वेदः सिध्यति तदप्यसंबद्धम्। आगमान्तरेऽपि 'कर्तः स्मरणयोग्यत्वे सति अमर्यमाणकर्तृकत्वात्' इत्यस्य हेतोः सद्भावबाधकप्रमाणाभावेन सद्भावसंभवात संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकत्वस्य तदवस्थत्वात् । किंच, विपक्षविरुद्धं हि विशेषणं विपक्षाद् ५ व्यावर्त्तमानं स्वविशेष्यमादाय निवर्त्तत इति युक्तम्, न च पौरुषेयत्वेन सह कर्तुः स्मरणयोग्यत्वस्य सहानवस्थानलक्षणः, परस्परपरिहारस्थितलक्षणो वा विरोधः सिद्धः; सिद्धौ वा तत एव साध्यसिद्धः 'अस्मर्यमाणकर्तृकत्वात्' इति विशेष्योपादानं व्यर्थम् । यदप्युक्तम् 'तदर्थानुष्ठानसमयेऽवश्यंतया त्रैवर्णिकानामनिश्चिततत्प्रामाण्यानामप्रवृत्तिप्रसङ्गात् सति कर्तरि तत्स्मरणं स्यात्, न चाभियुक्तानामपि तदस्ति' इति, तद् आगमान्तरेऽपि समानं नवेति चिन्त्यतां स्वयमेव । न चायं १० नियमः-अनुष्ठातारोऽमिप्रेतार्थानुष्ठानसमये तत्कर्तारमनुस्मृत्यैव प्रवर्तन्ते, न हि पाणिन्यादिप्रणीतव्याकरणप्रतिपादितशाब्दव्यवहारानुष्ठानसमये तदनुष्ठातारोऽवश्यंतया व्याकरणप्रणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रवर्त्तन्त इति दृष्टम्; निश्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाप्यविलम्बेन 'भवति' आदिसाधुशब्दोच्चारणदर्शनात् । तत् स्थितमेतत्-सविशेषणस्यापि 'अस्मर्यमाणकर्तृकत्वात्' इति हेतोर्वादिसंबन्धिनोऽनैकान्तिकत्वम्, प्रतिवादिसंबन्धिनोऽसिद्धत्वम्, सर्वसंब-१५ न्धिनोऽपि तदेवेति नास्माद्धेतोरपौरुषेयत्वसिद्धिः। अतोऽपौरुषेयत्वप्रसाधकप्रमाणाभावाच्छासनस्थापौरुषेयत्वासम्भवे यदि सर्वज्ञप्रणीतत्वं नाभ्युपगम्यते तदा प्रामाण्यमपि न स्यात् । तथा च 'धर्मे प्रेरणा प्रमाणमेव' इत्ययोगव्यवच्छेदेनावधारणमनुपपन्नम् । अथ प्रेरणाप्रामाण्य सिद्ध्यर्थ सर्वज्ञः प्रेरणाप्रणेताऽभ्युपगम्यते तदा “चोदनैव च भूतम्, भवन्तम् , भविष्यन्तम् , सूक्ष्मम् , व्यवहितम्एवंजातीयकमर्थमवगमयितुमलम्, नान्यत् किश्चनेन्द्रियम्" इत्याद्यभिधानमसङ्गतं प्राप्नोतीत्युभ-२० यतः पाशारजर्मीमांसकस्य । तत् स्थितमेतद् आचार्येण मीमांसकापेक्षया प्रसङ्गसाधनमेतदुपन्यस्तम्-यदि सिद्धं शासनमभ्युपगम्यते भवद्भिस्तदा जिनानां तत्-जिनप्रणीतम्-अभ्युपगन्तव्यमिति ॥ [सर्वज्ञवादः ] [पूर्वपक्षः-सर्वज्ञसत्तानिरसनम् ] अथ भवतु प्रेरणाप्रामाण्यवादिनां मीमांसकानामेतत् प्रसङ्गसाधनम् , ये तु तदप्रामाण्यवादि-२५ नश्चार्वाकास्तान् प्रति, स्वप्रतिपत्तौ वा भवतः किं प्रमाणम् ? न च प्रमाणाविषयस्य सदृव्यवहारविषयत्वं युक्तम् । तथाहि-ये देश-काल-स्वभावविप्रकर्षवन्तः सदुपलम्भकप्रमाणविषयभावमनापन्ना भावा न ते प्रेक्षावतां सद्व्यवहारपथावतारिणः, यथा नाकपृष्ठादयस्तथात्वेनाभ्युपगमविषयाः, तथा च समस्तवस्तुविस्तारव्यापिज्ञानसंपत्समन्वितःपुरुष इति सदृव्यवहारप्रतिषेधफलाs. नुपलब्धिः । न चासिद्धो हेतुः । तथाहि-सकलपदार्थसाक्षात्कारिज्ञानाङ्गनालिङ्गितः पुरुषः३० प्रत्यक्षसमधिगम्यो वा अभ्युपगम्येत, अनुमानादिसंवेद्यो वा? न तावद्ध्यक्षगोचरः, प्रतिनियतसंनिहितरूपादिविषयनियमितसाक्षात्करणस्वभावा हि चक्षुरादिकरणव्यापारसमासादितात्मलामा ज्ञप्तयो न परस्थं संवेदनमात्रमपि तावदालम्बितुं क्षमाः किमङ्ग ! पुनरनाद्यनन्तातीताऽनागतवर्तमान-सूक्ष्मादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदनविशेषम्, तदध्यासितं वा पुरुषम् अविषये चक्षुरादिकरणप्रवर्तितस्य ज्ञानस्य प्रवृत्त्यसम्भवात् ? सम्भवे वाऽन्यतमकरणप्रवर्तितस्यापि३५ ज्ञानस्य रूपादिसकलविषयग्राहकत्वेन संभवात् शेषेन्द्रियपरिकल्पना व्यर्था । न च सूक्ष्मादिसम• स्तपदार्थग्रहणमन्तरेण प्रत्यक्षण तत्साक्षात्करणप्रवृत्तज्ञानग्रहणम् , ग्राह्याग्रहणे तद्ग्राहकत्वस्यापि तद्गतस्य तेनाग्रहणात् । तदग्रहे च तद्धर्माध्यासितसंवेदनसमन्वितस्यापि न प्रत्यक्षतःप्रतिपत्तिः। नाप्यनुमानतः सकलपदार्थज्ञप्रतिपत्तिः, अनुमानं हि निश्चितस्वसाध्यधर्म-धर्मिसंबन्धादू हेतोरुदयमासादयत् प्रमाणतामानोति प्रतिबन्धश्च समस्तपदार्थज्ञसत्त्वेन स्वसाध्येन हेतोः किं प्रत्यक्षेण ४० १पृ० ४२ पं० ३५। २-प्यविलम्बित 'भवति'-वा०, पू०, बा०, गु० । ३ सूक्ष्ममव्यवहित-भा०, का०, गु०। ४ "चोदना हि भूतम् , भवन्तम् , भविष्यन्तम् , सूक्ष्मम् , व्यवहितम्, विप्रकृष्टम्-इत्येवंजातीयकमर्थ शक्कोत्सवगमयितुं नान्यत् किश्चनेन्द्रियम्"-मीमां० शाब० सू० २, पृ० ३, पं० १२ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy