SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - ३२ मस्ति ? नापि विधिवाक्यादपरस्य भवद्भिः प्रामाण्यमभ्युपगम्यतेः अभ्युपगमे वा पौरुषेयत्वमेव स्यान् । तथाहि तत्प्रतिपादकानि वेदवचांसि श्रूयन्ते - " हिरण्यगर्भः समवर्तताग्रे” [ ऋग्वेद अष्ट०८, मं० १०, सू० १२१ ] " तस्यैव चैतानि निःश्वसितानि" [ वृह० उ० अ० २, ब्रा० ४, सू० १०] " याज्ञवल्क्य इतिहोवाच" [ वृह० उ० अ० २, ब्रा० ४, सू० १] तन शब्दादपि तत्सिद्धिः । नाप्युपमानात् तत्सिद्धिः, यदि हि चोदनासदृशं वाक्यमपौरुषेयत्वेन किंचित् सिद्धं स्यात् तदा तत्सादयोपमानेन वेदस्या पौरुषेयत्वमुपमानात् सिद्धं स्यात् न च तत् सिद्धम्, इत्युपमानादपि न तत्सिद्धिः । नाप्यर्थापत्तेः, अपौरुषेयत्वव्यतिरेकेणानुपपद्यमानस्य वेदे' कस्यचिद्धर्मस्याभावात् । नाप्रामाण्याभावलक्षणो धर्मोऽनुपपद्यमानो वेदस्यापौरुषेयत्वं १० परिकल्पयति, आगमान्तरेऽपि तस्य धर्मस्य भावादपौरुषेयत्वं स्यात् । न चासौ तत्र मिथ्या, वेदेऽपि तन्मिथ्यात्वप्रसङ्गात् । अथागमान्तरे पुरुषस्य कर्तुरभ्युपगमात् पुरुषाणां च सर्वेषामपि आगमादिषु रक्तत्वात् तद्द्वेषजनितस्याऽप्रामाण्यस्य तत्र संभवाद् नाऽप्रामाण्याभावलक्षणो धर्मस्तत्र सत्यः वेदे त्वप्रामाण्यजनक दोषास्पदस्य पुरुषस्य कर्तुरभावादप्रामाण्याभावलक्षणो धर्मः सत्यः । कुतः पुनस्तत्र पुरुषाभावो निश्चितः ? अन्यतः प्रमाणादिति चेत्, तदेवोच्यताम्, १५ किमर्थापत्त्या ? अर्थापत्तितश्चेत्, नः इतरेतराश्रयदोषप्रसङ्गात् । तथाहि - अर्थापत्तितः पुरुषाभावसिद्धावप्रामाण्यासिद्धिः, एतत्सिद्धी चार्थापत्तितः पुरुषाभावसिद्धिरितीतरेतराश्रयत्वम् । चक्रकचोयं चात्रापि । तथाहि - यद्यप्रामाण्याभावलक्षणो धर्मोऽनुपपद्यमानो वेदेऽपौरुषेयत्वं कल्पयति, आगमान्तरेऽप्यसौ धर्मस्तत् किं न कल्पयति ? तत्र पुरुषदोष सम्भवादसौ धर्मो मिथ्या तेन तत्र तन्न कल्पयति । वेदे कुतः पुरुषाभावः ? अर्थापत्तेश्चेत्, तदाऽऽगमान्तरे से स्याद् इत्यादि २० तदेवावर्त्तत इति चक्रकानुपरमः । नाप्यतीन्द्रियार्थप्रतिपादन लक्षणो धर्मोऽनुपपद्यमानो वेदे पुरुषाभावं कल्पयति, आगमान्तरेऽपि समानत्वात् । न चाप्रामाण्याभावे पुरुषाभावः सिध्यति, कार्याभावस्य कारणाभावं प्रति व्यभिचारित्वेनान्यथानुपपन्नत्वासम्भवात् । अप्रतिबद्धासमर्थस्य पुरुषस्याभावसिद्धावपि न सर्वथा पुरुष भावसिद्धिः, पुरुषमात्रस्यापि निराकरणादिष्टसिद्धिश्व अप्रामाण्यकरणस्य तत्कर्तृत्वेनास्माकमप्यनिष्टत्वात् । नापि प्रामाण्यधर्मोऽन्यथाऽनुपपद्यमानो वेदे २५ पुरुषाभावं साधयति, आगमान्तरेऽपि तुल्यत्वात् । शेषमत्र चिन्तितमिति न पुनरुच्यते । [ पूर्वपक्ष:- शब्दनित्यत्वसाधनम् ] परार्थवाक्योच्चारणान्यथाऽनुपपत्तेस्तत्प्रतिपत्तिरिति चेत्, अयमर्थः - स्वार्थेनावगत संबन्धः शब्दः स्वार्थ प्रतिपादयति, अन्यथाऽगृहीत संकेत स्यापि पुंसस्ततो वाच्यार्थप्रतिपत्तिः स्यात् । स च संवन्धावगमः प्रमाणत्रयसंपाद्यः । तथाहि--यदैको वृद्धोऽन्यस्सै प्रतिपन्नसङ्गतये प्रतिपादयति३० 'देवदत्त ! गामभ्याज एनां शुक्लां दण्डेन' इति तदा पार्श्वस्थितोऽभ्युत्पन्नसङ्केतः शब्दाऽर्थी प्रत्यक्षतः प्रतिपद्यते, श्रोतुश्च तद्विषयक्षेपणादिचेष्टादर्शनाद् अनुमानतो गवादिविषयां प्रतिपत्तिमवगच्छति, तत्प्रतीत्यन्यथाऽनुपपत्त्या शब्दस्य च तत्र वाचिकां शक्तिं स एव परिकल्पयति । संच प्रमाणत्रय संपाद्योऽपि सङ्गत्यवगमो न सकृद्ध (क्यप्रयोगात् संभवति, वाक्यात् संमुग्धार्थप्रतिपत्ताववयवशक्तेरवापाsपोद्धाराभ्यां निश्चयात् । न चास्थिरस्य पुनः पुनरुच्चारणं संभवति, तदभावे ३५ नान्वयव्यतिरेकाभ्यां वाचकशक्त्यवगमः, तदसत्त्वाद् न प्रेक्षावद्भिः पराववोधाय वाक्यमुच्चार्यम्, 'उच्चार्यते च पराववोधाय वाक्यम्; अतः परार्थ वाक्योच्चारणान्यथानुपपत्या निश्चीयते धूमादिरिव १ ग्रन्थानम् - १२०० । २ सिद्धवेदे अ० । सिद्धे वेदे आ० । ३ अत्र ' तद्दोषजनितस्याऽप्रामाव्यस्य' इति पाठः सुयोग्यः । ४- गमान्तरे समानमित्यादि वा० पू०, बा० विना सर्वत्र । ५ सः - पुरु षाभावः स्यात् । ६ प्रतिबद्धासमर्थस्य वा पू० वा० 1 ७- कारणस्य वि० । ८ अप्रामाण्यकारणस्य कस्यचित् पुरुषस्य वेदकर्तृत्वेन । ९ प्रत्यक्ष अनुमान - अर्थापत्तिरूपप्रमाणत्रय संपाद्यः, एतच 'गामभ्याज एनां शुक्लां दण्डेन' अत्र वाक्ये एव दर्शयति अवापोद्धाराभ्याम् आ० चं०, डे, । १० स एव गु० । ११ आवापो द्वाराभ्याम् वि० । कां०। आवापो द्वापाभ्याम् भा०, गु०, सा० गं० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy