SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३३ वेदाऽपौरुषेयत्वपरीक्षणम् । गृहीतसम्बन्धोऽर्थप्रतिपादकः शब्दो नित्यः। तदुक्तम्-“दर्शनस्य परार्थत्वान्नित्यः शब्दः" इति । अथ मतम्-भूयो भूय उच्चार्यमाणः शब्दः सादृश्यादेकत्वेन निश्चीयमानोऽर्थप्रतिपत्तिं विदधाति, न पुनर्नित्यत्वात्। तन्न किंचिन्नित्यत्वपरिकल्पनेन प्रमाणबाधितेन, तदयुक्तम्; सादृश्येन शब्दा. दर्थाप्रतिपत्तेः-नहि सदृशतया शब्दः प्रतीयमानो वाचकत्वेनाध्यवसीयते किन्त्वेकत्वेन । तथाहोवं प्रतिपत्तिः–'य एव संबन्धग्रहणसमये मया प्रतिपन्नः शब्दः स एवायम' इति । किंच, साह. ५ श्यादर्थप्रतिपत्तौ भ्रान्तः शब्दादर्थप्रत्ययः स्यात् । न ह्यन्यस्मिन् गृहीतसङ्केतेऽन्यस्मादर्थप्रत्ययोs. भ्रान्तः, यथा गोशब्दे गृहीतसंबन्धेऽश्वशब्दाद् गवार्थप्रत्ययः । न च भूयोऽवयवसामान्ययोगस्वरूपं सादृश्यं शब्दे संभवति, विशिष्टवर्णात्मकत्वाच्छब्दस्य; वर्णानां च निरवयवत्वात् । न च समानस्थान-करणजन्यत्वलक्षणं सादृश्यं प्रतिपत्तुं शक्यम्, परकीयस्थान-करणादेरतीन्द्रियत्वेन तजन्य(न्यत्वस्याप्यप्रतिपत्तेः । न च गत्वादिविशिष्टानां गादीनां वाचकत्वमभ्युपगन्तुं १० युक्तम्, गत्वादिसामान्यस्याभावात् । तदभावश्च गादीनां नानात्वायोगात्, तदयोगश्च प्रत्यभिज्ञया गादीनामेकत्वनिश्चयात् । अत एव न सामान्यनिबन्धना गादिषु प्रत्यभिज्ञा, भेदनिबन्धनस्य सामान्यस्यैव गादिष्वभावात् कुतस्तन्निबन्धना गादिषु प्रत्यभिज्ञा? किंच, किं गत्वादीनां वाचकत्वम्, उत गादिव्यक्तीनाम् ? न तावद् गत्वादीनाम्, नित्यत्वेनास्मदभ्युपगमाश्रयणप्रसङ्गात् । नापि गादीनां वाचकत्वम्, विकल्पानुपपत्तेः। तथाहि-किं गत्वादिविशिष्टं व्यक्तिमात्रं वाचकम् ,१५ उत गादिव्यक्तिविशेषः ? तत्र न तावद् गादिव्यक्तिविशेषः, सामान्ययुक्तस्यापि तस्यानन्वयात्; अनन्विताच नार्थप्रतिभासः।नापि गादिव्यक्तिमात्रम्, यतस्तदपि व्यक्तिमात्रं किं सामान्यान्तर्भूतम् , उत व्यक्त्यन्तर्भूतम् इति कल्पनाद्वयम् । यदि सामान्यान्तःपाति तदा पुनरपि नित्यस्य वाचकत्वम् इत्यस्मत्पक्षप्रवेशः । अथ व्यक्त्यन्तर्भूतमिति पक्षस्तदाऽनन्वयदोषस्तदवस्थित इति । किंच, यद्यनित्यः शब्दस्तदाऽऽलम्बनरहिताच्छब्दप्रतिभासमात्रादर्थप्रतिपत्तिरभ्युपगता स्यात् ।२० तथाहि-शब्दश्रवणम्, ततः सङ्केतकालानुभूतस्मरणम्, ततः तत्सदृशत्वेनाध्यवसायः, न चैतावन्तं कालं शब्दस्यावस्थानं भवत्परिकल्पनया, तद् वाचकशून्यात् तत्प्रतिभासादर्थप्रतिपत्तिः स्यात् । अतोऽर्थप्रतिभासाभावप्रसङ्गाद् नानित्यत्वं शब्दस्य ॥ [ उत्तरपक्षः-शब्दनित्यत्वनिरसनम् ] अत्र प्रतिविधीयते, यदुक्तम् दर्शनस्य परार्थत्वान्नित्यः शब्दः, अनित्यत्वे पुनः पुनरुच्चारणा-२५ संभवाद् न समयग्रहः, तदभावे शब्दादर्थप्रतिपत्तिर्न स्यादिति परार्थशब्दोचारणान्यथाऽनुपपत्तेनित्यः शब्दः' तदयुक्तम्। अनित्यस्यापि धूमादेरिवावगतसंबन्धस्यार्थप्रत्यायकत्वसंभवात् शब्दस्य; न हि धूमादीनामप्येकैव व्यक्तिरग्यादिप्रतिपादिका किन्त्वन्यैव । न चानाश्रितसमानपरिणतीनां सर्वधूमादिव्यक्तीनामर्वाग्दृशा स्वसाध्येन संबन्धः शक्यो ग्रहीतुम् , असाधारणरूपेण सर्वधूमा. दिव्यक्तीनामदर्शनात् । न च लिङ्गाऽनुमेयसामान्ययोस्तत्र संबन्धग्रहणम्, शब्देऽप्यस्य न्यायस्य ३० समानत्वात् । न च 'धूमत्वाद् मया प्रतिपन्नोऽग्निः' इति प्रतिपत्तिः किन्तु धूमादिति । सा च लिङ्गाऽनुमेययोः सामान्यविशिष्टव्यक्तिमात्रयोः संबन्धग्रहणे सति सामान्य विशिष्टाग्निव्यक्त्यवगमे युक्ता, न च धूमसामान्यादग्निसामान्यस्य । यथा च सामान्यविशिष्टस्य विशेषस्य अनुमेयत्वम् वाच्यत्वं वाऽभ्युपगमनीयम्-अन्यथा सामान्यमात्रस्य दाहाद्यर्थक्रियाऽजनकत्वे ज्ञानाद्यर्थक्रियायाश्च सामान्यसाध्यायास्तदैव समद्धतेर्दाहाद्यर्थिनामनुमेय-वाच्यप्रतिभासात् प्रवृत्त्यमा ३५ वेन लिङ्गि-वाच्यप्रतिभासयोरप्रामाण्यप्रसङ्गः-तथा धूम-शब्दयोस्तद्विशिष्टयोः तत्त्वमभ्युपगन्त. व्यम्, न्यायस्य समानत्वात् । न चानुमेयत्व-वाच्यत्वसामान्य व्यक्तिव्यतिरेकेणानुपपद्यमानं तां लक्षयतीति लक्षणया प्रवृत्तिर्भविष्यतीति वक्तुं शक्यम्, क्रमप्रतीतेरभावात्-नहि लिङ्ग-वाचकज १ "वेदस्य" गु० टि। २"नित्यस्तु स्याद् दर्शनस्य परार्थत्वात्" मीमांसादर्शने १-१-१८। ३ तदप्ययुक्तम् भां०। ४ स्थानानि उच्चारणस्थानानि, करणानि उच्चारणप्रयत्नाः। ५ तज्जन्यतस्याऽपि डे०, चं-पू०, आ० । ६ पृ. ३२ पं० ३६ । ७ (वा) “समुच्चायकः गु. भा. टि. । ८ वाच्यत्वं सामान्य वा०, पू०, मां०, बा। स० त०५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy