SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे-- कार्यकारणभावादिसंबन्धानां द्वयी गतिः। नियमाऽनियमाभ्यां स्यादनियमादतद्गता ॥[ ] सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् ।। नियमात् केवलादेव न किञ्चिन्नानुमीयते" ॥[ ] इत्यादि। स च संबन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, उत व्यतिरेकनिश्चयद्वारेण इति विकल्पद्वयम् । ५ तत्र यदि प्रथमो विकल्पोऽभ्युपगम्यते, तत्रापि वक्तव्यम्-किं प्रत्यक्षेणान्वयनिश्चयः, उतानुमानेन इति? न तावत् प्रत्यक्षेणान्वयनिश्चयः, अन्वयस्य हि रूपम् 'तद्भावे एव भावः', न च ज्ञातृव्यापारस्य प्रमाणत्वेनाभ्युपगतस्य प्रत्यक्षेण सद्भावःशक्यते ग्रहीतुम, तद्वाहकत्वेन प्रत्यक्षस्य पूर्वमेव निषिद्धत्वात् त्वयाऽनभ्युपगमाञ्च । नापि ज्ञातृव्यापारसद्भावे एवार्थप्रकाशनलक्षणस्य हेतोः सद्भावः प्रत्यक्षेण ज्ञातुं शक्यः, तस्यापीन्द्रियव्यापारजेन प्रत्यक्षेण प्रतिपत्तुमशक्तेः तदशक्तिश्च-अक्षाणां तेन १० सह संबन्धाभावात् । नापि स्वसंवेदनलक्षणेन प्रत्यक्षेण पूर्वोक्तस्य हेतोः सद्भावः शक्यो निश्चेतुम् , भवदभिप्रायेण तत्र तस्याव्यापारात्, तन्न प्रत्यक्षेण साध्यसद्भावे एव हेतुसद्भावलक्षणोऽन्वयो निश्चेतुं शक्यः। नाप्यनुमानेन तन्निश्चयः, अनुमानस्य निश्चितान्वयहेतुप्रभवत्वाभ्युपगमात् । न च तस्यान्वयः प्रत्यक्षसमधिगम्यः, पूर्वोक्तदोषप्रसङ्गात् । अनुमानात् तन्निश्चयेऽनवस्थे-तरेतराश्रयदोषावनुषज्येते इति प्रागेव प्रतिपादितम् । न च प्रत्यक्षाऽनुमानव्यतिरिक्तं प्रमाणान्तरं सम्भवति । तन्न अन्व-१५ यनिश्चयद्वारेण ज्ञातृव्यापारे साध्ये पूर्वोक्तस्य हेतोर्नियमलक्षणः संबन्धो निश्चेतुं शक्यः। नापि व्यतिरेकनिश्चयद्वारेण, यतो व्यतिरेकः 'साध्याभावे हेतोरभाव एव' इत्येवंस्वरूपः, न च प्रकृतस्य साध्यस्याभावः प्रत्यक्षेण समधिगम्यः, तस्याभावविषयत्व विरोधात्, अनभ्युपगमात् , अभावप्रमाणवैयर्थ्यप्र. सङ्गाच्च । नाप्यनुमानादिसद्भावग्राहकप्रमाणनिश्चयः, अत एव दोषात् । अथादर्शननिश्चय इति पक्षः, सोऽपि न युक्तः, यतोऽदर्शनं किमनुपलम्भरूपम् , आहोस्विद् अभावप्रमाणस्वरूपम् इति वक्तव्यम् १२० तत्र यद्याद्यः पक्षः, स न युक्तः; यतोऽत्रापि वक्तव्यम्-अनुपलम्भः किं दृश्यानुपलम्भोऽभिप्रेतः, आहोस्विदू अदृश्यानुपलम्भः इति ? तत्र यद्यदृश्यानुपलम्भः प्रकृतसाध्याभावनिश्चायकोऽभिप्रेतः, तदाऽत्रापि कल्पनाद्वयम्-किं स्वसंबन्धी अनुपलम्भस्तन्निश्चायकः, उत सर्वसंबन्धी? यद्यात्मसंबन्धी तन्निश्चायकः, स न युक्तः, परचेतोवृत्तिविशेषैस्तस्यानैकान्तिकत्वात् । अथ सर्वसंबन्धी अनुपलम्भस्तन्निश्चायक इत्यभ्युपगमः, अयमप्ययुक्तः; सर्वसंबन्धिनोऽनुपलम्भस्यासिद्धत्वात् । अथ २५ दृश्यानुपलम्भस्तन्निश्चायक इति पक्षः, सोऽप्यसङ्गतः, यतो दृश्यानुपलम्भश्चतुर्धा व्यवस्थितः-स्वभावानुपलम्भः, कारणानुपलम्भः, व्यापकानुपलम्भः, विरुद्ध विधिश्चेति । तत्र यदि स्वभावानुपलम्भस्तन्निश्वायकत्वेनाभिमतः, स न युक्तः; स्वभावानुपलम्भस्यैवंविधे विषये व्यापारासंभवात् । तथाहि-एकज्ञानसंसर्गिणस्तुल्ययोग्यतास्वरूपस्य भावान्तरस्याभावव्यवहारसाधकत्वेन पर्युदासवृत्त्या तदन्यज्ञानस्वभावोऽसावभ्युपगम्यते न च प्रकृतस्य साध्यस्य केनचित् सहैकज्ञानसंसर्गित्वं संभव-३० तीति नात्र स्वभावानुपलम्भस्य व्यापारः। नापि कारणानुपलम्भः प्रकृतसाध्याभावनिश्चायकः, यतः सिद्धे कार्यकारणभावे कारणानुपलम्भः कार्याभावनिश्चायकत्वेन प्रवर्तते; न च प्रकृतस्य साध्यस्य केनचित् सह कार्यत्वं निश्चितम्, तस्यादृश्यत्वेन प्रागेव प्रतिपादनात्। 'प्रत्यक्षाऽनुपलम्भनिबन्धनश्च कार्यकारणभावः' इति कारणानुपलम्भोऽपि न तन्निश्चायकः । व्यापकानुपलम्भस्तु सिद्ध व्याप्यव्यापकभावे व्याप्याभावसाधकोऽभ्युपगम्यते । न च प्रकृतसाध्यव्यापकत्वेन कश्चित् पदार्थो ३५ निश्चेतुं शक्यः, प्रकृतसाध्यस्यादृश्यत्वप्रतिपादनात् तन्न व्यापकानुपलम्भोऽपि तन्निश्चायकः। विरुद्धोपलब्धिरप्यत्र विषये न प्रवर्तते । तथाहि-एको विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽ. भावात् सहानवस्थानलक्षणो निश्चीयते शीतो-णयोरिव विशिष्टात् प्रत्यक्षात् । न च प्रकृतं साध्य. मविकलकारणं कस्यचिद् भावे निवर्तमानमुपलभ्यते तस्यादृश्यत्वादेव । द्वितीयस्तु परस्परपरिहार १ पृ. २० ५० ५। २ तस्यान्वयनिश्चयः प्रत्य- भा०, कां। ३ प्र० पृ. पं० । ४ पृ. २ पं० ३२-३४ । ५ पृ० २० पं० ५। ६ “अनेन हि सिद्धावस्थाऽभिहिता, तेन साध्यावस्थायां विरोधो न संभवति इति सूचितम् । एतेन कारणस्यैव विरोधः प्रदर्शित इति न भ्रमितव्यम्" गु.टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy