SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २२ प्रामाण्यवादः । स्थितिलक्षणः सोऽपि लक्षणस्य स्वरूपव्यवस्थापकधर्मरूपस्य दृश्यत्वाभ्युपगमनिष्ठो दृश्यत्वाभ्युपगमनिमित्तप्रमाणनिबन्धनो न प्रकृतसाध्यविषये संभवति, तन्न ततोऽपि प्रस्तुतसिद्धिः । तन्न साध्यस्याभावनिश्चयोऽनुपलम्भनिबन्धनः । साधनाभावनिश्चयोऽपि नादृश्यानुपलम्भनिमित्तः, उक्तदोषत्वत्; दृश्यानुपलम्भनिमित्तत्वेऽपि न स्वभावानुपलम्भस्तन्निमित्तम्, उद्दिष्टविषयाभावव्यव५हारसाधकत्वेन तस्य व्यापाराभ्युपगमात् । अनुद्दिष्टविषयत्वेऽपि 'यत्र यत्र साध्याभावस्तत्र तत्र साधनाभावः' इत्येवं न ततः साधनाभावनिश्चयः तन्निश्चयश्च नियमनिश्चय हेतुरिति न स्वभावानु पलम्भोऽपि तन्नियमहेतुः । नापि कारणानुपलम्भः, यतः कारणं ज्ञातृव्यापार एवार्थप्रकटतालक्षस्य हेतोर्भवताऽभ्युपगम्यते, न चासौ प्रत्यक्षसमधिगम्य इति कुतस्तस्य सम्प्रति ( तं प्रति ) कारत्वावगमः ? इति न कारणानुपलम्भोऽपि तदभावनिश्चयहेतुः । व्यापकानुपलम्भेऽप्ययमेव न्यायः, १० यतो व्यापकत्वमपि पूर्वोक्तहेतुं प्रति ज्ञातृव्यापारस्यैवाभ्युपगन्तव्यम्; अन्यथाऽन्यस्य व्यापकत्वे साध्यविपक्षाद् व्यापक निवृत्तिद्वारेण निवर्तमानमपि साधनं न साध्यनियतं स्यात् । अथ यथा सवलक्षणो हेतुः क्षणिकत्वलक्षण साध्यव्यतिरिक्तक्रम - यौगपद्य स्वरूपपदार्थान्तरव्यापक निवृत्तिद्वारेणाऽक्षणिकलक्षणाद् विपक्षाद् व्यावर्त्तमानः स्वसाध्यनियतस्तथा प्रकृतोऽपि हेतुर्भविष्यति, असम्यगेतत् यतस्तत्रापि यद्यर्थक्रियालक्षणसत्त्वव्यापके क्रम- यौगपद्ये कुतश्चित् प्रमाणात् क्षणिके १५ सिद्धे भवतस्तदा तन्निवृत्तिद्वारेण विपक्षाद् व्यावर्त्तमानोऽपि सत्त्वलक्षणो हेतुः स्वसाध्य नियतः स्यात्, अन्यथा तंत्र व्यापकवृत्त्यनिश्चये राश्यन्तरे क्षणिकाऽक्षणिकरूपे तस्याशयमानत्वेन तद्यायस्यापि नैकान्ततः क्षणिकनियतत्वनिश्चयः । न च प्रकृतसाध्येऽयं न्यायः, तस्यात्यन्तपरोक्षत्वेन हेतुव्यापकभावान्तराधिकरणत्वासिद्धेः; तन्न व्यापकानुपलम्भनिमित्तोऽपि विपक्षे साधनाभावनिचयः । नापि विरुद्धोपलब्धिनिमित्तः प्रकृतसाध्यस्यात्यन्तपरोक्षत्वेन तदप्रतिपत्तौ तदभावनियत२० विपक्षस्याप्यप्रतिपत्तितस्तेन सहार्थप्रकाशनलक्षणस्य हेतोः सहानवस्थानलक्षण विरोधासिद्धेः । परस्परपरिहारस्थितलक्षणस्तु विरोधोऽन्योन्यव्यवच्छेद रुपयोरर्थप्रकाशना ऽप्रकाशनयोः सम्भवति, न पुनरर्थप्रकाशन - अज्ञातृव्यापारयोः, अन्योन्यव्यवच्छेदरूपत्वाभावात् । नापि ज्ञातृव्यापारनियतत्वादर्थप्रकाशनस्य साध्यविपक्षेण विरोध इति शक्यमभिधातुम्, अन्योन्याश्रयदोषप्रसक्तेः । तथाहि-सिद्धे तनियतत्वे तद्विपक्षविरोधसिद्धिः, तत्सिद्धेश्च तन्नियतत्व सिद्धिरिति स्पष्ट एवेतरेतराश्रयो २५ दोषः । तन्न विरुद्धोपलब्धिनिमित्तोऽपि विपक्षे साधनाभावनिश्चयः । अथादर्शनशब्देन अभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तमभिधीयते, तदप्यनुपपन्नम् तस्य तन्निमित्तत्वासम्भवात् । तथाहिनिषेध्यविषयप्रमाणपञ्चक स्वरूप तयाऽऽत्मनोऽपरिणामरूपं वा तदभ्युपगम्येत, तदन्यवस्तुविषयज्ञानरूपं वा गत्यन्तराभावात् ? तदुक्तम् - "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । ३० साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तु नि” ॥ [श्लो०वा०सू०५, अभावप०श्लो० ११] तत्र यदि 'निषेध्यविषयप्रमाणपञ्चकरूपत्वेनात्मनोऽपरिणामलक्षणमभावाख्यप्रमाणं साधनाभाव नियतसाध्याभावस्वरूपव्यतिरेकनिश्चयनिमित्तम्' इत्यभ्युपगमः, स न युक्तः तस्य समुद्रोदर्केपल पैरिमानानैकान्तिकत्वात् । अथान्यवस्तुविषयविज्ञानस्वरूपमभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तमिति पक्षः, सोऽपि न युक्तः विकल्पानुपपत्तेः । तथाहि किं तत् साध्य नियतसाधनस्वरूपादन्यद् ३५ वस्तु, यद्विषयं ज्ञानं तदन्यज्ञानमित्युच्यते ? यदि यथोक्तसाधनस्वरूपव्यतिरिक्तं पदार्थान्तरं तदा वक्तव्यम्-तद् एकशानसंसर्गि साधनेन सह, उतान्यथा इति ? यदि यथोक्तसाधनेनैकज्ञानसंसर्गि तदा तद्विपर्यंज्ञानात् सिध्यति यथोक्तसाधनस्याभावनिश्चयः प्रतिनियतविषयः, किन्तु 'यत्र यत्र साध्याभावस्तत्र तत्रावश्यंतया साधनस्याप्यभावः' इत्येवंभूतो व्यतिरेकनिश्चयो न ततः सिध्यति ; सर्वोपसंहारेण साधनाभावनियतसाध्याभावनिश्चयश्च हेतोः साध्यनियतत्वलक्षण नियम निश्चायक इति नैक १ पृ० २१ पं० २२ । २ अन्यथा तद्वयापकवृत्त्य - गु० । ३ प्रन्थाप्रम् - श्लो० ८०० ४ 'समुद्रोदकं कति पलानि' ? इत्येवं समुद्रोदकपलपरिमाणेन । ५ समुद्रोदकपरिणामेन - डे० । ६ " एकसंबन्धिज्ञानमपरसंबविधस्मारकम् ” ( इति नियमेन ) गु० टि० । ७- 'निश्चयस्य हेतोः' वा०, बा० विना सर्वत्र । - निश्चयहेतोः अ०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy