SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवाद। [ ज्ञातृव्यापारस्यैवाऽसिद्धिः] किंच, प्रमाणे सिद्ध सति 'किं तत्प्रामाण्यं स्वतः, परतो वा' इति चिन्ता युक्तिमती, भवदभ्युपगमेन तु तदेव न सम्भवति । तथाहि-ज्ञातृव्यापारःप्रमाणं भवताऽभ्युपगम्यते, न चासौ युक्तः तद्राहकप्रमाणाभावात् । तथाहि-प्रत्यक्षं वा तबाहकम् , अनुमानम्, अन्यद्वा प्रमाणा५न्तरम् ? तत्र यदि प्रत्यक्षं तद्राहकमभ्युपगम्येत तदाऽत्रापि वक्तव्यम्-स्वसंवेदनम् , वाह्येन्द्रियजम् , मनःप्रभवं वा ? न तावत् स्वसंवेदनं तद्राहकम्, भवता तबाह्यत्वानभ्युपगमात् तस्य । नापि बाह्येन्द्रियजम्, इन्द्रियाणां स्वसंबद्धेऽर्थे ज्ञानजनकत्वाभ्युपगमात्; न च ज्ञातृव्यापारेण सह तेषां संबन्धः, प्रतिनियतरूपादिविषयत्वात् । नापि मनोजन्यं प्रत्यक्षं ज्ञातृव्यापारलक्षणप्रमाणग्रा. हकम्, तथाप्रतीत्यभावात् अनभ्युपगमाच्च । अथानुमानं तद्राहकमभ्युपगम्यते, तदप्ययुक्तम्। १० यतोऽनुमानमपि "ज्ञातसंवन्धस्यैकदेशदर्शनादसन्निकृष्टेऽथै बुद्धिः" इत्येवंलक्षणमभ्युपगम्यते । संबन्धश्चान्यसंबन्धव्युदासेन नियमलक्षणोऽभ्युपगम्यते । यत उक्तम्- "संवन्धो हि न तादा. त्म्यलक्षणो गम्यगमकभावनिवन्धनम् । ययोर्हि तादात्म्यं न तयोर्गम्यगमकभावः, तस्य भेदनिबन्धनत्वात् : अभेदे वा साधनप्रतिपत्तिकाल एव साध्यस्यापि प्रतिपन्नत्वात् कथं गम्यगमक भावः ? अप्रतिपत्तौ वा यस्मिन् प्रतीयमाने यन्न प्रतीयते तत् ततो भिन्नम्, यथा घटे प्रतीयमा१५ नेऽप्रतीयमानः पटः; न प्रतीयते चेत् साधनप्रतीतिकाले साध्यं तदा तत् ततो मिन्नमिति कथं तयोस्तादात्म्यम् ? किंच, यदि तादात्म्याद् गम्यगमकभावोऽभ्युपगम्यते तदा तादात्म्याऽविशेपाद् यथा प्रयत्नानन्तरीयकत्वमनित्यत्वस्य गमकम्, तथाऽनित्यत्वमपि प्रयत्नानन्तरीयकत्वस्य गमकं स्यात्। अथ प्रयत्नानन्तरीयकत्वमेवानित्यत्वनियतत्वेन निश्चितम्, नानित्यत्वं तन्नियतत्वेन: निश्च. यापेक्षश्च गम्यगमकभाव इति, तर्हि 'यस्मिन्निश्चीयमाने यन्न निश्चीयते' इत्यादि पूर्वोक्तमेव दूषणं २०पुनरापतति । अपि च, प्रयत्नानन्तरीयकत्वमेव अनित्यत्वनियतत्वेन निश्चितमिति वदता स एवा. स्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति । नापि तदुत्पत्तिलक्षणः संबन्धो गम्यगमकभावनिबन्धनम् , तथाऽभ्युपगमे वक्तृत्वादेरप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात् । अथ सर्वज्ञत्वे वक्तत्वादेर्बाधकप्रमाणाभावात् सर्वज्ञत्वादिभ्यो वतृत्वादेावृत्तिः सन्दिग्धेति संदिग्धविपक्षव्यावृत्ति कत्वान्नायं गमकस्तर्हि धूमस्याप्यनग्नौ बाधकप्रमाणाभावात् ततो व्यावृत्तिः सन्दिग्धेति सन्दि२५ग्धविपक्षव्यावृत्तिकत्वादग्निं प्रति गमकत्वं न स्यात् । अथ "कार्य धूमो हुतभुजः, कार्यधर्मानुवृत्तितः; स तदभावेऽपि भवन् कार्यमेव न स्यात्" इत्यनग्नौ धूमस्य सद्भावबाधकं प्रमाणं विद्यत इति नासौ सन्दिग्धविपक्षव्यावृत्तिकस्तर्खेतत् प्रकृतेऽपि वक्तृत्वादौ समानमिति तस्याप्यसर्वशत्वं प्रति गमकत्वं स्यात् । किंच, कार्यत्वे सत्यपि वक्तृत्वादेः सन्दिग्धविपक्षव्यावृत्तिकत्वेनासर्वज्ञत्वं प्रत्यनियतत्वाद् यद्यगमकत्वं तर्हि स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति । ३० अपि च, तादात्म्य-तदुत्पत्तिलक्षणसंबन्धाभावेऽपि नियमलक्षणसंबन्धप्रसादात् कृत्तिकोय चन्द्रोद्गमन-अद्यतनसवित्रुद्गम-गृहीताण्डपिपीलिकोत्सर्पण-एकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां यथाक्रमं भाविशकटोदय-समानसमयसमुद्रवृद्धि-श्वस्तनभानूदय-भाविवृष्टि-तत्समानकालसिन्दूरारुणरूपस्वभावेषु साध्येषु गमकत्वं सुप्रसिद्धम् । संयोगादिलक्षणस्तु संबन्धो भवतैव साध्यप्रतिपादनाङ्गत्वेन निरस्त इति तं प्रति न प्रयस्यते । "एवं परोक्तसंबन्धप्रत्याख्याने कृते सति। नियमो नाम संबन्धः स्वमतेनोच्यतेऽधुना ॥ [ ] १प्रामाण्ये गु०, हा०, वि०, आ० । २ अभ्युपगतो न चा-भा०, वा०, वि० । ३ “लिङ्गलिङ्गिसमुदायरूपस्य"। ४ “लिङ्गम्" (एकदेशः) गु० टि। ५ वाक्यं चैतत् शाबरभाष्ये पञ्चमसूत्रव्याख्याने (पृ. ८-पं० ९. का०)। ६ अभ्युपगतो यत भां०, वा०, वि०। ७ अत्र 'संबन्धो हि न तादात्म्यलक्षणः' इत्यत आरभ्य 'न किञ्चिन्नानुमीयते' इत्यादि (पृ. २१५० ४) पर्यन्तं 'यत उक्तम्' अवसेयम् । ८ अत्र "तथाहि" (इति योज्यम् ) गु० टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy