SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे रते ॥ [ ] बाधकप्रत्ययस्तावदान्यत्वावधारणम् । सोऽनपेक्षप्रमाणत्वात् पूर्वज्ञानमपोहते ॥ तत्रापि त्वपवादस्य स्यादपेक्षा क्वचित् पुनः । जाताशङ्कस्य पूर्वेण साऽप्यन्येन निवर्तते ॥॥ बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ [ अथान्यदप्रयत्नेन सम्यगन्वेषणे कृते । मूलाभावान विज्ञानं भवेद् बाधकबाधनम् ॥ [ ततो निरपवादत्वात् तेनैवाद्यं बलीयसा। बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते ॥ [ एवं परीक्षकज्ञानत्रितयं नातिवर्तते ।। ततश्चाजातबाधेन नाशयं बाधकं पुनः॥ [ ] इति । तथाहि-अनेने सर्वेणापि ग्रन्थेन स्वतःप्रामाण्यव्याहतिः परिहता, परीक्षकज्ञानत्रितयाधिकज्ञानानपेक्षयाऽनवस्था च" एतद् द्वितयमपि परपक्षे प्रदर्शितं प्राक्तनन्यायेन । यच्चान्यत् पूर्वपक्षे परताप्रामाण्ये दूषणमभिहितं तच्चानभ्युपगमेन निरस्तमिति न प्रतिपदमुच्चार्य दूष्यते । [प्रेरणाबुद्धेः प्रामाण्याभावः ] प्रेरणाबुद्धस्तु प्रामाण्यं न साधननिर्भासिप्रत्यक्षस्येव संवादात्, तस्य तस्यामभावात् । नाप्यव्यमिचारिलिङ्गनिश्चयबलात् स्वसाध्यादुपजायमानत्वादनुमानस्येव । किंच, प्रेरणाप्रभवस्य चेतसः प्रामाण्यसिद्ध्यर्थ स्वतःप्रामाण्यप्रसाधनप्रयासोऽयं भवताम्, चोदनाप्रभवस्य च ज्ञानस्य न केवलं प्रामाण्यं न सिध्यति, किंत्वप्रामाण्यनिश्चयोऽपि तव न्यायेन सम्पद्यते । तथाहि-२० यद् दुष्टकारणजनितं ज्ञानं न तत् प्रमाणम्, यथा तिमिराद्युपद्रवोपहतचक्षुरादिप्रभवं ज्ञानम्, दोष वत्प्रेरणावाक्यजनितंच 'अग्निहोत्रं जुहुयात्' इत्यादिवाक्यप्रभवं ज्ञानमिति कारण विरुद्धोपलब्धिः। न चासिद्धो हेतुः, भवदभिप्रायेण प्रेरणायां गुणवतो वक्तुरभावे तहुणैरनिराकृतैर्दोषैर्जन्यमानत्वस्य प्रेरणाप्रभवे ज्ञाने सिद्धत्वात् । अथ स्यादयं दोषो यदि वक्तगुणैरेव प्रामाण्यापवादकदोषाणां निराकरणमभ्युपगम्यते, यावता वक्तुरभावेनापि निराश्रयाणां दोषाणामसद्भावोऽभ्युपगम्यत २५ एव । तदुक्तम् "शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् । तदभावः क्वचित् तावद् गुणवद्वक्तृकत्वतः॥ तहुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः"॥ [श्लोव्वा०सू०२,६२-६३ श्लो०] इति। ३० भवेदप्येवम् , यद्यपौरुषेयत्वं कुतश्चित् प्रमाणात् सिद्धं स्यात् , तञ्च न सिद्धम् ; तत्प्रतिपादकप्रमाणस्य निषेत्स्यमानत्वात् । अत एव चेदमप्यनुद्धोयम् "तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लघीयसी।। वेदे तेनाप्रमाणत्वं नाशङ्कामपि गच्छति" ॥ [ श्लो० वा० सू० २, ६८ श्लो॰] । तेन गुणवतो वक्तुरनभ्युपगमाद् भवद्भिः अपौरुषेयत्वस्य चासम्भवाद् अनिराकृतैर्दोषैर्जन्यमानत्वं ३५ हेतुःप्रेरणाप्रभवस्य चेतसः सिद्धः; दोषजन्यत्व-अप्रामाण्ययोरविनाभावस्यापि मिथ्याशानेऽन्यत्र निश्चितत्वात् तद्विरुद्धत्व-अनैकान्तिकत्वयोरप्यभाव इति भवत्यतो हेतोःप्रेरणाप्रभवे ज्ञाने प्रामाण्याभावसिद्धिः। १ चापवादस्य गु०। २ एतेन गु०। ३ "व्याहतं तत् (इति) शब्दार्थः" । ४ "बुद्धरित्यर्थः" । ५ "सुलभा" गु० टि.। ६ प्रन्यायम् ७०० श्लो।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy