SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १८ प्रामाण्यवादः। निश्चयनिमित्तत्वासम्भवात् , न ह्यन्यकाला अनुपलब्धिरन्यकालमभावनिश्चयं विदधाति अतिप्रसङ्गात् । नापि प्रवृत्त्युत्तरकालभाविनी बाधकानुपलब्धिस्तन्निश्चयनिमित्तम्, प्राक प्रवृत्तेः 'उत्तरकालं बाधकोपलब्धिर्न भविष्यति' इति अर्वाग्दर्शिना निश्चेतुमशक्यत्वेन तस्या असिद्धत्वात् । नापि प्रवृत्त्युत्तरकालभाविन्यनुपलब्धिस्तदैव निश्चीयमाना तत्कालभाविबाधकामावनिश्चयस्य निमित्तं ५भविष्यतीति वक्तं शक्यम्, तत्कालभाविनो निश्चयस्याकिञ्चित्करत्वप्रतिपादनात् । किंच, बाधकानुपलब्धिः सर्वसम्बन्धिनी किं तन्निश्चयहेतुः, उताऽऽत्मसम्बन्धिनी इति पुनरपि पक्षद्वयम् । यदि सर्वसम्बन्धिनीति पक्षः, स न युक्तः तस्या असिद्धत्वात्-न हि 'सर्वे प्रमातारो बाधकं नोपलभन्ते' इति अर्वागदर्शिना निश्चेतुं शक्यम् । अथात्मसम्बन्धिनीत्यभ्युपगमः, सोऽप्ययुक्तः; आत्मसम्बन्धिन्या अनुपलब्धेः परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । तन्न बाधाऽभावनिश्चयेऽनुपलब्धिर्नि: १०मित्तम् । नाऽपि संवादो निमित्तम्, भवदभ्युपगमेनानवस्थाप्रसङ्गस्य प्रतिपादितत्वात् । न च बाधाऽभावो विशेषः सम्यकप्रत्ययस्य सम्भवति इति प्रागेव प्रतिपादितम् । कारणदोषाभावेऽप्ययमेव न्यायो वक्तव्य इति नासावपि तस्य विशेषः । किंच, कारणदोष-बाधकाभावयोर्भवदभ्युपगमेन कारणगुण-संवादकप्रत्ययरूपत्वस्य प्रतिपादनात् तन्निश्चये तस्य विशेषेऽभ्युपगम्यमाने परतः प्रामाण्यनिश्चयोऽभ्युपगत एव स्यात्, न च सोऽपि युक्तः; अनवस्थादोषस्य भवदभिप्रायेण प्राक् प्रति१५पादितत्वात् । यदप्युक्तम् ‘एवं त्रिचतुरज्ञान'-इत्यादि, तत्रैकस्य ज्ञानस्य प्रामाण्यम् , पुनरप्रामाण्यम्, पुनः प्रामाण्यम् इत्यवस्थात्रयदर्शनादू बाधके, तद्वाधकादौ वाऽवस्थात्रयमाशङ्कमानस्य कथं परीक्षकस्य नापराऽपेक्षा येनानवस्था न स्यात् ? यदप्युक्तम् 'अपेक्षातः' इत्यादि, तदप्यसङ्गतम् ; यतो नायं छलव्यवहारः प्रस्तुतो येन कतिपयप्रत्ययमात्रं निरूप्यते । न हि प्रमाणमन्तरेण बाधकाशङ्कानिवृत्तिः, न चाशङ्काव्यावर्तकं प्रमाणं भवदभिप्रायेण सम्भवतीत्युक्तम् । तथा कारण२० दोषज्ञानेऽपि पूर्वेण जाताशङ्कस्य कारणदोषज्ञानान्तरापेक्षायां कथमनवस्थानिवृत्तिः? कारणदोषज्ञानस्य तत्कारणदोषग्राहकज्ञानाभावमात्रतःप्रमाणत्वाद् नात्रानवस्था। यदाह "यदा स्वतः प्रमाणत्वं तदाऽन्यन्नैव मृग्यते। निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः" ॥ [श्लो० वा० सू० २, श्लो० ५२] इति, पतच्चानद्धोष्यम: प्रागेव विहितोत्तरत्वात । न च दोषाज्ञानाद दोषाभावः, सत्स्वपि दोषेषु २५ तदज्ञानस्य सम्भवात् । सम्यग्ज्ञानोत्पादनशक्तिवैपरीत्येन मिथ्याप्रत्ययोत्पादनयोग्यं हि रूपं तिमि रादिनिमित्तमिन्द्रियदोषः, स चातीन्द्रियत्वात् सन्नपि नोपलक्ष्यते । न च दोषा ज्ञानेन व्याप्ताः येन तन्निवृत्त्या निवर्तेरन् । दोषाभावज्ञाने तु संवादाद्यपेक्षायां सैवानवस्था प्राकू प्रतिपादिता। पतेनैतदपि निराकृतं यदुक्तं भट्टेन "तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । बाध-कारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥[ पराधीनेऽपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि स्वतस्तश्च प्रतिष्ठितम् ॥ [ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते । न सिध्यत्यप्रमाणत्वमप्रमाणात् तथैव हि" ॥ [ ] इति । ३५ स्यान्मतम् “यदप्यन्यानपेक्षप्रमितिभावो बाधकप्रत्ययस्तथाऽप्यबाधकतयाँ प्रतीत एवान्यस्यांप्रमाणतामाधातुं क्षमो नान्यथेति, सोऽयमदोषः, यतः १पृ० १७ पं० ३१। २ पृ० १२ पं० २५। ३ पृ० १३ पं०७। ४ पृ. १२ पं० २८ तथा पृ० १० पं० २२। ५ तद्विशेषेऽभ्युपग-भां० । ६ पृ० ८ पं०६। ७ अपेक्षतेत्यादि कां०, गु०, वि०, हा० । अपेक्ष्यतेत्यादि आ०, डे०, भा०, भा०। ८ पृ. ७ पं० ३९ । ९-प्यज्ञानापेक्ष-गु०, भा०, डे० । १० "नास्ति बाधकं यस्मिन् तद् अबाधकम्-तत्ता, तया इत्येवमत्र बहुव्रीहिः" मां० टि.। ११-न्यस्य प्रमाणताकां०, डे० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy