SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमै काण्डेव्यवहार इत्यभ्यासावस्थायां प्रत्यक्षं स्वत एव व्यवहारकृदू अभ्युपेयम् । अनुमानं तु तादात्म्यतदुत्पत्ति-प्रतिबन्धलिङ्गनिश्चयबलेन स्वसाध्यादुपजायमानत्वादेव तत्प्रापणशक्तियुक्तं संवादप्रत्ययोदयात् प्रागेव प्रमाणाभासविवेकेन निश्चीयतेऽतः स्वत एव । तथाहि-यदू यत उपजायते तत् तत्प्रापणशक्तियुक्तम्, तद्यथा-प्रत्यक्षं स्वार्थस्य, अनुमेयादुत्पन्नं चेदं प्रतिबद्ध लिङ्गदर्शनद्वारायातं लिङ्गिज्ञानमिति तत्प्रापणशक्तियुक्तं निश्चीयत इति । मूढं प्रति विषयदर्शनेन विषयी व्यवहारोऽत्र ५ साध्यते, सङ्केतविषयख्यापनेन समये प्रवर्तनात् । तथाहि-प्रत्यक्षेऽप्याव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः प्रतिपन्नः, अव्यभिचारश्च नान्यस्तदुत्पत्तेः, सैव च ज्ञानस्य प्रापणशक्तिरुच्यते । तदुक्तम् "अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्" ॥ [ __] इति । तस्मात् मूढं प्रति परतःप्रामाण्यव्यवहारः साध्यते । अनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्याव्यभिचारलक्षणस्य न उत्पन्नत्वेन प्रत्यक्षसिद्धत्वाद् न परतःप्रामाण्य निश्चये चक्रकचोद्यस्यावतारः । प्रत्यक्षे तु संवादात् प्रागर्थादुत्पत्तिः अशक्यनिश्चया इति संवादापेक्षवानभ्यासदशायां तस्य प्रामाण्याध्यवसितिर्युक्ता । अत उत्पत्ती, स्वकार्ये, ज्ञप्तौ च सापेक्षत्वस्य प्रतिपादि. तत्वादू 'ये यद्भावं प्रत्यनपेक्षाः' इति प्रयोगे हेतोरसिद्धिः । यतश्च सन्देह-विपर्ययविषयप्रत्यय-१५ प्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतः 'ये सन्देह-विपर्ययाध्यासिततनवः' इति प्रयोगे न व्याप्त्यसिद्धिः । यदप्युक्तम् 'सर्वप्राणभृतां प्रामाण्यं प्रति सन्देह-विपर्ययाभावाद सिद्धो हेतुः' इत्यादि, तदप्यसत्: यतः प्रेक्षापूर्वकारिणः प्रमाणाऽप्रमाणचिन्तायामधिक्रियन्ते नेतरे, ते च कासाश्चिद् ज्ञानव्यक्तीनां विसंवाददर्शनाजाताशङ्का न ज्ञानमात्रात् 'एवमेवायमर्थः' इति निश्चि. न्वन्ति, नापि तज्ज्ञानस्य प्रामाण्यमध्यवस्यन्तिः अन्यथैषां प्रेक्षावतव हीयत इति सन्देहविषये कथं २० न सन्देहः? तथा कामलादिदोषप्रभवे ज्ञाने विपर्ययरूपताऽप्यस्तीति तद्बलाद् विपर्यय कल्पनाऽन्यज्ञानेऽपि सङ्गतैवेति प्रकृते प्रयोगे नासिद्धो हेतुरिति भवत्यतो हेतोः परताप्रामाण्यसिद्धिः। यदपि 'प्रमाण-तदाभासयोस्तुल्यं रूपम्' इत्याद्याशङ्कय 'अप्रमाणे अवश्यंभावी बाधकप्रत्ययः, कारणदोषज्ञानं च' इत्यादिना परिहृतम् , तदपि न चारुः यतो वार्ध-कारणदोपज्ञानं मिथ्याप्रत्यये अवश्यंभावि, सम्यक्प्रत्यये तदभावो विशेषः प्रदर्शितःः स तु किं बाधकाग्रहणे, तदभावनिश्चये २५ वा? पूर्वस्मिन् पक्षे भ्रान्तदृशस्तद्भावेऽपि तदग्रहणं दृएं कश्चित् कालम् , एवमत्रापि तदग्रहणं स्यात् । तत्रैतत् स्याद्भ्रान्तदृशः कश्चित् कालं तदग्रहेऽपि कालान्तरे बाधकग्रहणम् , सम्यग्दृ? तु कालान्तरेऽपि तदग्रहः नन्वेतत् सर्वविदां विषयः, नार्वाग्रहशां व्यवहारिणामस्मादृशाम् । बाधकामावनिश्चयोऽपि सम्यग्ज्ञाने किं प्रवृत्तेः प्राग् भवति, उत प्रवृत्त्युत्तरकालम् ? यदि पूर्वः पक्षः, स न युक्तः भ्रान्तज्ञानेऽपि तस्य सम्भवात् प्रमाणत्वप्रसक्तिः स्यात् । अथ प्रवृत्त्युत्तरकालं बाधकाभाव-३० निश्चयः, सोऽपि न युक्तः; बाधकाभावनिश्चयमन्तरेणैव प्रवृत्तेरुत्पन्नत्वेन तन्निश्चयस्याकिञ्चित्करत्वात् । न च बाधकामावनिश्चये प्रवृत्त्युत्तरकालभाविनि किञ्चिन्निमित्तमस्ति । अनुपलब्धिर्निमित्तमिति चेत्, न; तस्या असम्भवात् । तथाहि-बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाधकाभावनिश्चयस्य प्रवृत्त्युत्तरकालभाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनी इति विकल्पद्वयम्। तत्र यदि पूर्वः पक्षः, सन युक्तः; पूर्वकालाया बाधकानुपलब्धेः प्रवृत्त्युत्तरकालभाविबाधकाभाव.३५ १ "अनुमानम् अनुमितिः, खसाध्यात् स्वविषयीभूतव: उपजायमानत्वाद् एव प्रापणशक्तियुक्तं वह्निव्यवहारनिरूपितसंकेतवद् इति । कस्मात् ? अत आह 'तदुत्पत्ति- इति-तस्य वढेः भेदाभेदरूपतादात्म्यं च, तदुत्पत्तिश्व (तत्) कारणकत्वम्, प्रतिबन्धश्च व्याप्यत्वं च इत्यर्थः-एतेषामन्यतमविषयकलिङ्गनिश्चयबलेन इत्यर्थः, अतः संवादप्रत्ययं नापेक्षत इत्याह 'संवाद'-इति । अतः खत एव वहिव्यवहारकृत् इत्यर्थः । अत्र दृष्टान्तमाह 'तद्यथा' इति । अयमाशयः-प्रत्यक्षं यथा इन्द्रियसनिकर्षवलेन खार्थीभूतरूपादित उत्पद्यते, अतो रूपम् 'रूपम्' इति शब्दप्रयोगनिरूपितशब्दवद् इति" गु.टि.। २ “प्रत्यक्षस्य इत्यर्थः-एतेन प्रत्यक्षस्य अर्थप्रभवत्वम्" गु० टि. । ३ पृ. २५०५। ४पृ.२५०१४। ५पृ.७५०२८१ पृ. ७५०३५। ७ पृ. ७५०३६। बाधक-कारण-गु०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy