SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवादः। श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः" [ श्लो० सू० २, श्लो० ७७] इति, तदप्ययुक्तम्: गीतादिविषयायाः श्रोत्रबुद्धेरर्थक्रियानुभवरूपत्वेन स्वत एव प्रामाण्यसिद्धेः । तथा चित्रगतरूपबुद्धरपि स्वत एव प्रामाण्यसिद्धिः, अर्थक्रियाऽनुभवरूपत्वात् । गन्ध-स्पर्शरसबुद्धीनां त्वर्थक्रियानुभवरूपत्वं सुप्रसिद्धमेव । यदप्युक्तम् 'किमेकविषयम्, भिन्नविषयं वा ५संवादज्ञानं पूर्वस्य प्रामाण्यनिश्चायकम्' इत्यादि, 'तत्रैकसङ्घातवर्तिनो विषयद्वयस्य रूप-स्पर्शादिलक्षणस्यैकसामग्यधीनतया परस्परमव्यभिचारात् स्पर्शादिशानं जाग्रदवस्थायामभिवामिछतस्पर्शादिव्यतिरेकेण असंभवदू भिन्नविषयमपि स्वविषयाभावेऽप्याशयमानरूपज्ञानस्य प्रामाण्यं निश्चाययतीति न तत्संगत एवम् (गतमेव)। अत एव रूपाद्यर्थाविनाभाविवाद ध्वनीनां तद्विशेष शङ्कायां क्वचिदू वीणादिरूपप्रतिपत्तौ तद्विशेषशङ्काव्यावृत्तेस्तदूपदर्शनसंवादादपि प्रामाण्यनिश्चयः १० सिद्धो भवति । यच्चोक्तम् 'किं संवादज्ञानं साधनैज्ञानविषयं तस्य प्रामाण्यं व्यवस्थापयति, उत भिन्न विषयम' इत्यादि, तदप्यविदितपराभिप्रायस्याभिधानम् ; न हि संवादज्ञानं तदाहकत्वेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्कार्यविशेषत्वेन; यथा धूमोऽग्निम् इति पराभ्युपगमः। यश्च संवादशानात् साधनंज्ञानप्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि , तदप्यसङ्गतम् यदि हि प्रथममेव संवादज्ञानात् सार्धंनज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्त्तत तदा स्यात् तद् दूषणम् , यदातु वह्निरूप१५दर्शने सत्येकदा शीतपीडितोऽन्यार्थ तद्देशमुपसर्पस्तत्स्पर्शमनुभवति, कृपालुना वा केनचित् तद्देशं वरानयने; तदाऽसौ वह्निरूपदर्शन-स्पर्शनज्ञानयोः संबन्धमवगच्छति-एवंस्वरूपो भावः एवंभू. तप्रयोजननिर्वर्तकः' इति-सोऽवगतसंवन्धोऽन्यदाऽनभ्यासदशायामनुमानात् 'ममायं रूपप्रतिभासोऽभिमतार्थक्रियासाधनः, एवंरूपप्रतिभासत्वात्, पूर्वोत्पन्नैवंरूपप्रतिभासवत्' इत्यस्मात् साधननिर्भासिज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्तत इति कुतश्चक्रकचोद्यावतारः? "अभ्यासदशायामपि २० साधनज्ञानस्यानुमानात् प्रामाण्यं निश्चित्य प्रवर्त्तते” इत्येके । न च तद्दशायामन्वय-व्यतिरेकव्यापारस्यासंवेदनान्नानुमानव्यापार इत्यभिधातुं शक्यम् , अनुपलक्ष्यमाणस्यापि तद्यापारस्याभ्युपगमनीयत्वात् अकस्माद् धूमदर्शनात् परोक्षाग्निप्रतिपत्ताविव; अन्यथा गृहीतविस्मृतप्रतिबन्धस्यापि तदर्शनादक स्मात् तत्प्रतिपत्तिः स्यात् । न चाध्यक्षैव साधंनज्ञानस्य फलसाधनशक्तिरिति कथमध्यक्षेऽनुमानप्रवृत्तिः इति चोद्यम्, दृश्यमानप्रदेशपरोक्षाग्निसङ्गतेरिव तजननशक्तेरप्रत्यक्षत्वेन २५अनुमानप्रवृत्तिमन्तरेण निश्चेतुमशक्यत्वात् । तदुक्तम् "तदृष्टावे दृष्टेषु संवित्सामर्थ्यभाविनः ।। स्मरणादभिलाषेण व्यवहारः प्रवर्तते" [ ] इति। अपरे तु मन्यन्ते "अभ्यासावस्थायामनुमानमन्तरेणापि प्रवृत्तिः सम्भवति" । अथ अनुमाने सति प्रवृत्तिदृष्टा, तदभावे न दृष्टा इत्यनुमानकार्या सा; नन्वेवं सत्यभ्यासदशायां विकल्पस्वरूपानुमान३० व्यतिरेकेणापि प्रत्यक्षात् प्रवृत्तिदृश्यते इति तदा तत्कार्या सा कस्मान्न भवति? तथाहि-प्रतिपादोद्धारं न विकल्परूपानुमानव्यापारः संवेद्यते, अथ च प्रतिभासमाने वस्तुनि प्रवृत्तिः सम्पद्यत इति । अथादावनुमानात् प्रवृत्तिर्दृष्टेति तदन्तरेण सा पश्चात् कथं भवति? नन्वेवमादौ पर्यालोचनाद् व्यवहारो दृष्टः, पश्चात् पयोलोचनमन्तरेण कथं पुर स्थितवस्तुदर्शनमात्राद् भवति इति वाच्यम् ? यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः, ३५तथासति प्रत्यक्षेण लिङ्गग्रहणाभावात् तत्राप्यनुमानमेव तन्निश्चयव्यवहारकारणम्, तदप्यपरलिङ्गनिश्चयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमानस्यैवाप्रवृत्तेर्न क्वचित् प्रवृत्तिलक्षणो १ वा.' विना सर्वत्र 'अपि'। २ पृ. ७ पं० ८। ३-शङ्ख्यमानस्य रूप-भां०, कां०। ४ पृ. ७पं. १८। ५ साधनविषयं तस्य गु०। ६ साधनप्रामाण्य-गु० । ७ पृ. ५ पं० २५। ८ साधनस्य प्रामाण्यं-गु०। ९ अत्र 'स्पर्शमनुभवति' इति पूर्वोत्तमन्वेयम्। १० साधनस्य फल-गु०। ११ तद् दृष्ट्वा चे (च) व वा०। १२ प्रन्थानम्-श्लो. ६..।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy