SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । निबन्धन एवायमनुस्यूतस्थूलावभासः, सञ्चितेष्वपि तेषु प्रत्येकं समुदितेषु वा स्थूलरूपतायाः परेणानभ्युपगमात् सञ्चयस्य च वस्तुरूपस्यैकस्य द्रव्यपक्षोक्तदोषप्रसक्तितोऽनिष्टेः । न चान्यथावभासोऽन्यथाभूतार्थव्यवस्थापकः अतिप्रसक्तेः । तेन आलम्बनप्रत्ययतया परमाणवः स्थूलावभासजनकाः तत्र स्वरूपानकत्वेनाप्रतिभासनात्; स्थूलाकारस्य वा तेष्वनुस्यूतज्ञानावभासिनो भावेऽनुगतव्यावृत्तहेतुफलरूपभावाभ्युपगमात् परवादाभ्युपगमप्रसक्तिः । यदि च स्तम्भादिप्रतिभासो ५ मिथ्या तर्ह्यतथाभूते तथाभूतारोपणं मिथ्येत्यन्यथाभूतवस्तु सद्भावावेदकं प्रमाणं वक्तव्यम् । तच्च न प्रत्यक्षम् उक्तोत्तरत्वात् । नाप्यनुमानम् क्षणिक परस्परविविक्तपरमाणु स्वभावभाव कार्यादर्शनात् स्थूलैकस्वभावस्य चोपलभ्यमानस्यै न तत्कार्यत्वम्, तस्यावस्तुसत्वेन परैरभ्युपगमात् । न चावस्तुसत् कस्यचिद् व्यवस्थापकम् अतिप्रसङ्गात् । वस्तुसत्त्वेऽपि न तस्य क्षणिकविविक्त परमाणुव्यवस्थापकत्वम्, तस्य तद्विरुद्धत्वात् । न हि पावकप्रतिभासो जलव्यवस्थापकत्वेन प्रसिद्धः । न च वनादिप्रत्ययतः १० शिंशपादिविशेषावगतिरिवात्रापि भविष्यतीति वक्तव्यम्, शिंशपादेः प्राक् प्रतिपत्तेर्वनादेश्च तद्धर्मतया वस्तुत्वात् परमाणूनां न कदाचनापि प्रतिपत्तिः । नापि तद्धर्मतया वस्तुत्वाभ्युपगमः स्थूलस्य पराभ्युपगमविषयः, वस्तुत्वाभ्युपगमे तु तस्य स्यात् सूक्ष्मव्यवस्थापकता, सूक्ष्मापेक्षित्वात् स्थूलस्य अन्यथा तदयोगात् । सूक्ष्मपर्यन्तरूपश्च परमाणुः तस्याभेद्यत्वात् । भेद्यत्वे वा वस्तुत्वापत्तेः तदवयवानां परमाणुत्वापत्तिः, भेदपर्यन्तलक्षणत्वात् परमाणुस्वरूपस्य । १५ ४११ न च धौव्योत्पत्तिव्यतिरेकेण प्रतिक्षणविशरारुता अणूनामपि सम्भवति, तयोरभावे एकक्षणस्थितीनामपि तेषामभावात् कुतो विनश्वरत्वम् ? अथ देशकालनियतस्य स्थैर्याभावेऽपि क्वचित् कदाचित् पदार्थस्य वृत्तेरन्यदा अन्यत्र च निवृत्तिः, नैतदेवम्; अन्यदा अन्यत्र चावृत्तेरेवानिश्चयात् । तथाहि कार्यकारणयोः परस्परतो व्यावृत्तिः कथञ्चिदनुस्यूतमेकमाकारं बिभ्रतोर्विज्ञानग्राह्यग्राहकाकारयोरिवापरित्यक्ततादात्म्यस्वरूपयोः, आहोखित् घट-पटयोरिवात्यन्तभिन्नस्वरूपयोः इत्यत्र २० न निश्चयः । किञ्च प्रत्यक्षेणैव हेतु-फलयोः कथञ्चित्तादात्म्यस्य निश्चयान्न घट-पटयोरिवात्यन्तव्यावृत्तिस्तयोः परस्परतोऽभ्युपगन्तव्या न ह्यध्यक्षतः प्रसिद्धस्वरूपं वस्तु तद्भावे प्रमाणान्तरमपेक्षते, अग्निरिवोष्णत्वनिश्चये । न च कालभेदान्यथानुपपत्त्या प्रतिक्षणं भेदेऽपि पूर्वोत्तरक्षणयोःकथञ्चित्तादात्म्यं वस्तुनो विरुध्यते येनाध्यक्षविरुद्धो निरन्वयविनाशः कल्पनामनुभवति अध्यक्षविरोधेन प्रमाणान्तरस्याप्रवृत्तेः । न चानुवृत्ति-व्यावृत्योः परस्परं विरोधैकान्ताभ्युपगमे विज्ञान- २५ मात्रमपि सिध्येदिति कुतः क्षणस्थितिर्भावानां निरन्वया व्यावृत्तिर्वा सिद्धिमासादयेत् ? अन्तर्बहिश्च भावानामनुगतव्यावृत्तात्मकत्वात् प्रमाणतस्तथैवानुभवात् तत्स्वरूपाभावे निःस्वभावतया भावाभावप्रसक्तेः । यदि च परस्परव्यावृत्तस्वभावानां परमाणूनां कथञ्चिदनुवृत्तस्थूलैकाकारः पारमाथिको न भवेत् न किञ्चिद् बहिरध्यक्षेऽवभासेत, परमाणु-पारिमाण्डल्य - नानात्व- परोक्षखभावत्वस्वभावानां सञ्चितेष्वप्यणुषु स्थूलैकाकाराध्यक्ष स्वभावेन विरोधात् अविरोधे वाऽनेकान्तत्वप्र- ३० सक्तेः तथाभूतस्वभावसद्भावेऽपि तेषु पारिमाण्डल्य - नानात्व- परोक्षत्वस्वभावानपायात् । अपाये वा परमाणुरूपतात्यागात् स्थूलैकाकारस्य तेषु सांवृतत्वे साकाराध्यक्षाऽजनकत्वेन न किञ्चिदपि तत्र प्रतिभासित, तदनध्यक्षत्वे तत्प्रत्यनीकस्य स्वभावस्य पारिमाण्डल्यादेश्चक्षुरादिबुद्धौ रसादेरिवा प्रतिभासनाद् बहिरर्थप्रतिभासशून्यं जगद् भवेत् । स्थूलैकाकारग्राह्यवभासस्य च भ्रान्तत्वे न किञ्चित् कल्पनापोढं प्रत्यक्षमभ्रान्तं भवेत्, तदभावे च प्रमाणान्तरस्याप्यप्रवृत्तेरन्तर्बाह्यरूपस्य ३५ प्रमेयस्याव्यवस्थितेर्न कस्यचिदभ्युपगमः प्रतिक्षेपो वेति निर्व्यापारं जगद् भवेत् । तस्मात् क्षणस्थितिधर्मणोऽपि बाह्यान्तलक्षणस्य वस्तुनः परस्परव्यावृत्तपरमाणुरूपस्य कथञ्चिदनुवृत्तिरभ्युप ३- गमाप्र - आ० । ४-स्य त आ० । ७- भासोऽपि प्रतिपत्तिः नापि १० - द्यत्वे चा व-ल० । ११ । १ तत्र आ-बृ० वा० बा० हा० वि० । २-स्य ते ल० । ५- स्तुत्वे - वृ० वा० बा० भ० मां० विना । ६-मात् तथा व-आ० तद्धर्मजलव्य - वा० बा० । ८-ल प-वा० बा० - भावोऽपि भां० म० । १२ किं न प्र-आ० । १३- न्त स्याप्र - बृ० वा० बा० । १४- मननुग-भां० मां० । १५ - कारोऽध्य-आ० हा ० वि० । १६ भावेषु वि वा० वा० । १७- धात् वि-मां०] मां० । १८ - भासते त-भां० मां० आ० हा० वि० । । ९ सूक्ष्माव्य-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy