SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४१२ प्रथमे काण्डेगन्तव्या, अन्यथा प्रतिभासविरतिप्रसक्तेः। तदभ्युपगमे च परस्परव्यावृत्तयोर्हेतु-फलयोरपि प्रत्यक्ष. गता अनुगतिरभ्युपगमनीयैव, कल्पनाशाने भ्रान्तसंविदि वा स्वसंवेदनापेक्षया विकल्पेतरयोा. न्तेतरयोश्च परस्परव्यावृत्तयोराकारयोः कथञ्चिद् अनुवृत्तिमभ्युपगच्छन् कथमध्यक्षा हेतु-फलयोरनुवृत्तिं प्रतिक्षिपेत् ? संशयज्ञानं वा परस्परव्यावृत्तोल्लेखद्वयं विभ्रद् यधेकमभ्युपगम्यते कथं न पूर्वा. ५परक्षणप्रवृत्तमेकं हेतुफलरूपं वस्तु? शब्द-विद्युत्-प्रदीपादीनामप्युत्तरपरिणामाप्रत्यक्षत्वेऽपि तस्य सद्भावोऽभ्युपगन्तव्यः, पारिमाण्डल्यादिवत् संविद्राह्याकारविवेकवद् वा अध्यक्षस्यापि केनचिद् रूपेण परोक्षता, अविरोधात् । न च पारिमाण्डल्यादेः प्रत्यक्षतेति वाच्यम्, शब्दाद्युत्तरपरिणामेऽप्यस्य वक्तुं शक्यत्वात् विशेषाभावात् । अत एव अन्ते क्षयदर्शनात् प्रागपि तत्प्रसक्तिरिति न वक्तव्यम् , मध्ये स्थितिदर्शनस्य पूर्वापरकोटिस्थितिसाधकत्वेन प्रसिद्धेः । न हि शब्दादेरनुपादाना उत्पत्तिर्यु१० क्तिमती, नापि निरन्वया सन्ततिविच्छित्तिः, चरमक्षणस्याकिञ्चित्करत्वेऽवस्तुत्वापत्तितः पूर्वपूर्व क्षणानामपि तैदापत्तितः सकलसन्तत्यभावप्रसक्तेः। न च शब्दादेर्निरुपादानोत्पत्त्यभ्युपगमेऽन्ये. षामपि सा सोपादानाऽभ्युपगन्तुं युक्ता; तथा च सुप्तप्रबुद्धबुद्धेरपि निरुपादानोत्पत्तिप्रसक्तिः तत्रापि शब्दादेरिव प्रागुपादानादर्शनात् । न चानुमीयमानमत्रोपादानम्, शब्दादावपि तथाप्रस ङ्गात् । न च 'दृष्टस्यार्थस्याखिलो गुणो दृष्ट एवं' इति परिणामसाधनं निरवकाशम् , दृष्टेऽप्यर्थे १५पारिमाण्डल्यादेाह्याकारविवेकादेर्वा अंशस्यादृष्टत्वेनानुमीयमानत्वात्, एवं च परिणामसाधनं निरवद्यमेव । यदि हि दृपस्याऽदृष्टोंऽशः सम्भवति कथमुत्पन्नस्वभावस्यानुत्पन्नः कश्चनाऽऽत्मा न सम्भवी ? स्वभावभेदस्य भावभेदसाधनं प्रत्यनैकान्तिकत्वेन प्रदर्शितत्वात् । तस्माद् वस्तु यत् नष्टं तदेव नश्यति नयति च, यदुत्पन्नं तदेवोत्पद्यते उत्पत्स्यते च कथञ्चित् , यदेव स्थितं तदेव तिष्ठति स्थास्यति च कथञ्चिदित्यादि सर्वमुपपन्नमिति भावस्योत्पादः स्थितिविनाशरूपः विनाशोऽपि २० स्थित्युत्पत्तिरूपः स्थितिरपि विगमोत्पादात्मिका कथञ्चिदभ्युपगन्तव्या। सर्वात्मना चोत्पादादेः परस्परं तद्वतश्च यद्यमेदैकान्तो भवेत् नोत्पादादित्रयं स्यादिति न कस्यचित् कुतश्चित् तद्वत्ता नाम । न च वस्तुशून्य विकल्पोपरचितत्रयसद्भावात् तद्वत्ता युक्ता अतिप्रसङ्गात्; खपुष्पादेरपि ततस्तद्वत्ताप्रसक्तेः। न चोत्पादादेः परस्परतः तद्वतश्च मेदैकान्तः, सम्बन्धासिद्धितो निस्वभावताप्रसक्तेः । एतेन 'उत्पाद-व्यय-ध्रौव्ययोगाद् यदि असतां सत्त्वम् २५ शशशृङ्गादेरपि स्यात् सतश्चेत् स्वरूपसत्त्वमायातम् , तथोत्पाद व्यय-ध्रौव्याणामपि यद्यन्यतः सत्त्वम् अनवस्थाप्रसक्तिः स्वतश्चेत् भावस्यापि स्वत एव तद् भविष्यतीति व्यर्थमुत्पादादिकल्पनम् एवं तद्योगेऽपि वाच्यम्' इत्यादि यदुक्तम् तन्निरस्तं द्रष्टव्यम् एकान्तभेदाभेदपक्षोदितदोषस्य कथञ्चिद्भेदाभेदात्मके वस्तुन्यसम्भवात् । नहि भिन्नोत्पाद-व्यय-ध्रौव्ययोगाद् भावस्य सत्वमस्माभिरभ्यु: पगम्यते किन्तु 'उत्पाद-व्यय-ध्रौव्ययोगात्मकमेव सत्' इत्यभ्युपगमः। विरोधादिकं चात्र दूषणं ३० निरवकाशम् , अन्तर्बहिश्च सर्ववस्तुनस्त्रयात्मकस्याबाधिताध्यक्षप्रतिपत्तिविषयत्वात् स्वरूपे विरोधा. सिद्धेः; अन्यथातिप्रसक्तेः। एकान्त नित्यानित्यस्य प्रमाणबाधितत्वात् अनुभयरूपस्य चासम्भवात् शून्यताया निषेत्स्यमानत्वात् पारिशेष्यात् कथञ्चित् नित्यानित्यं वस्तु अबाधितप्रमाणगोचरमभ्युपगन्तव्यम्। अत एव "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" [तत्त्वार्थ० अ० ५ सू० २९] इति सल्लक्षणम्, ३५ अन्यस्य तल्लक्षणत्वानुपपत्तेः । न तावत् सत्तायोगः सत्त्वम् , सामान्यादिना अव्यापकत्वात् निषि द्वत्वाच्च सत्तायास्तद्योगस्य वेति । नाप्यर्थक्रियालक्षणं सत्त्वम् , नश्वरैकान्ते तस्यासम्भवात् तस्य क्वचिदप्यभावात् । उत्पाद स्थितिस्वभावरहितस्य नश्वरत्वे खपुष्पादेरेव तत् स्यात् न घट-सुखादेः, क्षणस्थितिरेव जन्म विनाशश्च यद्यभ्युपगम्येत कथमनेकान्तसिद्धिर्न स्यात् ? न च क्षणात् पूर्वमस्थितौ भावानां किश्चित् प्रमाणमस्तीति प्रतिपादितम् । न चावस्थितावपिन प्रमाणमिति वक्तव्यम् । ४०प्रत्यक्षस्य तत्र प्रमाणत्वात् । न च सदृशापरापरोत्पत्तिविप्रलम्भाद् अनवधारितक्षणक्षयस्यैकत्व प्रतिपत्तिन्तेिति वक्तव्यम् , निरन्वयविनाशप्रसाधकप्रमाणाभावात् । न चाक्षणिके क्रम-योगपद्या १-वाऽस्व-बृ० । २ वाक्यम् भां. मां०। ३ तदुत्पत्तितः भा० म०। ४ स्यात् स्वत-बृ. ल. विना। ५ प्र० ११०५०९। ६ “अर्थक्रियात्मकसत्त्वस्य"-ब. ल. मांकि ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy