________________
४०१
नयमीमांसा। तानां तेषामुत्पत्तेः सञ्चितपरमाणुव्यतिरेकेणापरस्य भिन्नस्याभिन्नस्य वा सञ्चयस्य वस्तुसतोऽभावात् यस्य च संवृतिसत एकता घटादेः न तस्य जन्यता, विज्ञानमपि विषयाऽऽलोकमनस्कारादिसामग्रीप्रभवं नैकं युक्तम् । नापि तद् एकरूपमभ्युपगम्यते ग्राह्यग्राहकाकारद्वयरूपस्य तस्य संवेदनात् । न चैकस्य रूपद्वयं वोधावोधरूपमुपपन्नम् । तथाहि-अहङ्कारास्पदः सुखादिरूपो ग्राहकाकारः अन्तस्तद्वैपरीत्येन च ग्राह्याकारोऽपर एवं प्रतिभाति तथा च स्वसंवेदनसिद्धभेदत्वात् रूप-रसयो-५ रिव तयोर्नेकत्वम् । अथायमनयोभदावभासो भिन्नयोरिव न पुनर्भिन्नयोरेव । तदुक्तम्-"ग्राह्यग्रा. हकसंवित्तिमेदवानिव लक्ष्यते ॥"[
] इति, नैतदेवम् ; बाह्यार्थवादत्यागप्रसक्तेः सौत्रान्तिकैमतस्य वैभाषिकमतस्य चात्र विचारयितुं प्रक्रान्तत्वात् ज्ञानवादस्य च निषेत्स्यमानत्वात् । न च ग्राह्यग्राहकाकारयोः संवृतत्वं स्वकारणान्वयव्यतिरेकानुविधानात् । ग्राहकाकारो हि बोधरूपतया समनन्तरप्रत्ययान्वयव्यतिरेकानुविधायी विषयाकारोऽपि विषयस्यान्वय-व्यतिरेका-१० वनुविधत्ते एवं च रूप-रसादेरिव नानयोरेकता। न च निराकारममिन्नस्वभावमेकसामग्रीजन्यं ज्ञानं सम्भवति पराभ्युपगमेन निराकारत्वेन तस्य विषयसंवेदनत्वानुपपत्तेः । तस्मान्नैकमनेकजन्यमिति स्थितम्।
नापि पूर्वसामग्रीत उत्तग सामग्री प्रभवतीति बौद्धाभ्युपगमात् अनेकमनेकमुत्पादयतीति वक्तव्यम्, यतः कारणायत्तः कार्याणां स्वभावः अन्यथा निहंतुकत्वं तस्य स्यात् पूर्वसामग्री च १५ सर्वेषां सामग्र्यन्तर्भूतानां समग्राजनकत्वेन व्यवस्थितेति कथं कार्यविशेषस्य सामग्र्यन्तर्गतस्यैकस्वभावता? एवं च रूपस्य ज्ञानरूपतापत्तिान जन्यत्वात् ज्ञानस्वरूपवत् ज्ञानस्यापि रूपस्वरूपतापत्तिः रूपजन्यत्वात् रूपस्वरूपवदित्यनेकत्वव्याघातः । न वा किञ्चिद् रूपम् प्रतिनियतस्वरूपाभावात् । अथावान्तरकारणसामग्रीविशेषसम्भवान् तजन्यस्य कारणभेदादेव स्वभावनानात्वमिति नायं दोषः। तथाहि-चक्षुरूपालोकमनस्कारादिपु विज्ञानादिकार्यान्पादकपु मनस्कारो विज्ञानमुपादानत्वेन २० जनयति शेपकार्याणि सहकारित्वेन एवं रूपादिकमपि रूपादिकार्यमुपादानत्वेन शेषाणि सहकारित्वेनेत्यवान्तरसामग्रीभेदेन सिद्धः तन्नन्यानां स्वभावभेदः। नन्यत्रापि किं येन रूपेण मनस्कारो ज्ञानस्य जनकस्तनव चक्षुगदिकमपि जनयति, आहाम्वित् रूपान्तरेण? यदि तेनैवेति पक्षस्तदा चक्षुरादे नत्वापत्तिः । तथाहि-सकलस्वगतविशेषाधायकत्वं कार्य उपादानत्वम् तद्रूपेण चेत प्रवृत्तो मनस्कारश्चक्षुगदिजनने कथं न चक्षुगदेशीनरूपतापत्तिः? अथ स्वभावान्तरेण चक्षुरादि-२५ जननेऽसौ प्रवर्तते: नन्वेवं स्वभावभेदात् मनस्कारस्य भेदापत्तिः स्वभावमेदलक्षणत्वात् वस्तुमेदस्य । अथ स्वसंविदि एकत्वेनावभासनात् मनस्कारस्यकत्वमुपादानसहकारिशक्तिमेदेऽपिः नम्वेवमक्षणिकस्यापि तदतत्कालभाविकार्यजनकत्वाजनकत्वभाव मेदेऽप्येकत्वेनाध्यक्ष प्रतिभासनात कथं नैकत्वम् ? अथ न स्वभावभेदाद भावभेदः अपितु विरुद्धस्वभावभेदात् तदतत्कार्यजनकत्वाजनकत्वे चाक्षणिकस्य विरुद्धौ स्वभावाविति तस्य भेदः: नन्वेवं मनस्कारक्षणस्यापि भेदप्रसक्तिः उपादान-३० स्व-सहकारित्वलक्षणयोः शक्त्योर्मनस्कागत् परस्परतश्च भेदात् । अथ न शक्तीनां शक्ति-शक्तिमतोर्वा मेदस्तथापि विरुद्धस्वभावद्वययोगात् मेद एव यतो मनस्कारस्योपादेयज्ञानं प्रति यैव जनिका शक्तिः सैव चक्षुरादिकं प्रति ततश्चक्षगदिकं प्रति जनकस्वभावः अजनकस्वभावश्च मनस्कार:
१-केण पर-आ. हा. वि.। २ "विभागोऽपि बुद्ध्यामा विपर्यासितदर्शनैः” इति पूर्वार्धम्"-बृ० भां० मां. टि. । अष्टस० पृ. ९३ पं. १८ । म्याद्वादर० पृ. ८५.द्वि. पं. ६ । लो० वा. पार्थ० व्या० पृ. २७२ पं० १५। सर्वदर्शनसं० द. २ पृ. ३२५० २०६। शास्त्रवा• स्याद्वादक. पृ. २१५ द्वि. पं० २। ३-क-वै-बृ० वा. बा. भां• मां० । ४-स्य वा-वृ० वा. वा. हा. वि. विना । ५ एवं रू-आ० । ६-जन्यज्ञा-बृ. भां. मा० विना। -रत्वे तस्य वि-वृ० वा. बा० ।-रत्वेन तस्यावि-आ. हा. वि०। ८-ग्री भ-आ० । ९ एवं रू-ल. भां० मां० विन।। १०-स्यापि रूपताप भां० मा० आ० वि०। ११-पं प्रति प्रतिनिवा. बा. भ. मां० ।-प प्रतिनि-आ०। १२ अथवान्तर-वा. बा०। १३-वा तज्ज-ल० वा. बा। १४-दादेवं स्व-वृ० । १५ चक्षुस्वरूपा-आ० । चक्षु रूपा-हा० वि०। १६ एव रू-ल०। १७-त्यथान्त-चा. बा०। १८ तज्जन्मनां आ०। १९-कत्वभाव-आ० । २०-त्वक्ष-आ० हा० वि०। २१-श्च चक्षु-भां. मां०। २२-ननव-भा. मां।