________________
४०२
प्रथमे काण्डेप्रसक्तः चक्षुरादिजननात् तत्स्वभावः सकलस्वगतविशेषानाधायकत्वादतत्स्वभावः नहि जनकत्वादन्यत् सकलस्वगतविशेषाधायकत्वम् ।
नापि मनस्कारोजनकत्वम् धर्मधमिणोरभेदाभ्युपगमात् अतः शक्ति-शक्तिमतोरमेदपक्षे तदतत्स्वभावत्वमेकदैकस्यैकस्मिन् जन्ये पूर्वोक्तनीत्या प्रसक्तम् तेन विधि-प्रतिषेधरूपविरुद्धधर्म५संसर्गाद् भेदः प्रसक्तः । भेदपक्षेऽप्युपादानत्व-सहकारित्वयो रूप-रसवत् तदभावनियतभावत्वेनैफकालत्वेऽपि भेदात् मनस्कारलक्षणस्य भावस्य भेदः सिद्ध एव । न चैवमापादितभेदस्याप्यवाधि. तैकावभासिप्रत्ययविषयत्वात् न नानात्वम् अक्षणिकस्यापि पूर्वक्षणग्रहणपरिणामाजहद्वृत्तोत्तरक्ष
रिणामवदध्यक्षेणकतया ग्रहणात् तदतजनकाजनकस्वभावभेदेऽपि न नानात्वमित्युक्तत्वात् । न च शक्ति-शक्तिमतोः शक्त्योश्चाभेदे 'इदमुपादानम् इदं च सहकारिकारणम्' इति विभागः १०क्षणिकपक्षे भवेत् । यदपि 'अन्त्यावस्थायां सर्वेषां प्रत्येकमभिमतकार्योत्पादकत्वम् अन्यसन्निधिस्तु स्वहेतुप्रत्ययसामर्थ्यात् नोपालम्भमर्हति न च भिन्नकार्योत्पत्तिः सर्वेषां तस्यैव जनने सामर्थ्यात् पर्यायानपेक्षणाच्च नोत्पन्नोत्पादोऽपि' इत्युक्तम् तदपि प्राक्तनन्यायेन निरस्तम् । किञ्च, अत्र पक्षे उप्णाद् गर्भगृहं प्रविष्टस्य मनस्कारादिः कारणकलापश्चक्षुर्माने समर्थः परस्परनिरपेक्षतयेति यथा मनस्कारस्य चक्षुर्ज्ञानं प्रत्युपादानता नस्यैवैकस्य तजनने सामर्थ्यात् तथा आलोकादेरपि इति १५ दर्शनक्षतिः प्रतीतिविरुद्धं चैकैकस्यैवोत्पादकत्वम् न चैकैकस्मात् कार्योत्पादः कदाचिदप्युपलब्ध इति कथं न तदभ्युपगमः प्रतीतिविरुद्धः? न च प्रकारान्तरेण क्षणिकानां कार्यकरणसम्भव इति क्षणिकेभ्योऽपि प्राक्तनन्यायेन कार्यकरणसामर्थ्य निवृत्तमक्षणिकत्वं प्रसाधयेत् श्रावणत्ववद् वा उभयव्यावृत्तत्वात् संशयहेतुर्भवेत् । नाप्येतद् वक्तव्यम् उक्तप्रकारेणाक्षणिकेष्वप्यर्थक्रियानुपपत्तिरिति निर्हेतुकं सकलं जगद् भवेत् अक्षणिकपक्षे बहुभ्यः समवायिकारणत्वादिरूपेभ्य एकमभिन्नं २० च वस्तूत्पद्यत इत्यभ्युपगमात् तत्र च विरोधाभावादियुक्तत्वात् ।
यदपि 'सत्त्वस्वरूपम्पवर्णयता प्रतिपादितमर्थक्रियालक्षणं भावानां सत्त्वम' इति तत्र किमर्थक्रियातः सत्त्वम्, आहोवित् सत्त्वादर्थक्रिया? तत्र यद्यर्थक्रियातः सत्त्वं तदा प्राक् सत्त्वव्यतिरेकेणापि तस्या उत्पत्तेर्निर्हेतुको सा । अथ सत्त्वादर्थक्रिया तदा अर्थक्रियातः प्रागपि भावसत्त्वसिद्धेः
१-त्वादेत-मां० । २-राजन-भां. हा० वि०। ३ पूर्वग्र-ल. । ४-त्तरग्रह-वा. बा० । ५- नकस्व-आ० हा० वि०। ६-मभिगत-१०। ७ "क्रमः"-वृ० टि०। ८ परनिर-आ०। ९-नक्षि. तिः भां० मां० विना। १० "न हि आलोकं विनाऽपि अन्धकारे ज्ञानमुत्पद्यते ततो मनस्कारस्येव ज्ञानं प्रति आलोकादेरपि उपादानता किं न स्यात् (तदभावेऽपि तस्याभावात् ) इति"-वृ० मा० टि०। ( ) एतत्कोष्टकान्तर्गतः भागः ६० प्रतौ नास्ति। ११ “नित्यः शब्दः श्रावणत्वादिति । अत्र 'श्रावणत्वात्' इति हेतुर्नित्यानि. त्यपक्षाभ्यामाकाश-घटादिरूपाभ्यां व्यावृत्तः शब्दं विना अन्यत्र श्रावणत्वस्य अभावात् नित्यानित्यविनिमु(मुक्तस्य च अन्यस्य असंभवात् संशयहेतुः किम्भूतस्य अस्य श्रावणत्वमिति यतः शब्दं विना श्रावणत्वयुक्तो नान्यः पदार्थोऽस्ति यत्र श्रावणत्वे सति नित्यत्वमनित्यत्वं वा निश्चीयते शब्दस्यैव श्रावणत्वादिति । एवमत्रापि"-मांटि.। १२-कारेण क्ष-वृ० ल. वा. बा. विना। १३-मभिन्नं व-बृ० विना।
१४ “यञ्चार्थक्रियालक्षणं सत्त्वमित्युक्तं तत्र लक्षणशब्दः कारणार्थः स्वरूपार्थः ज्ञापकार्थो वा स्यात् ? प्रथमपक्षे किमर्थक्रियालक्षणं कारणं सत्त्वस्य तद्वा अर्थक्रियायाः। तत्रार्थक्रियातः सत्त्वस्योत्पत्तौ प्राक् पदार्थानां सत्त्वमन्तरेणाप्यस्याः प्रादुर्भावात् निर्हेतुकत्वम् निराधारकत्वं वानुषज्येत । अथ सत्त्वादर्थक्रियोत्पद्यते तदार्थक्रियातः प्रागपि सत्त्वसिद्धेर्भावानां खरूपसत्त्वमायातम् । अथ स्वरूपार्थोऽसौ तत्रापि तद्धेतोरसत्त्वप्रसङ्गः । न हि अर्थक्रियाकाले तद्धेतुर्विद्यते । न चान्यकालस्य अस्य अन्यकाला सा खरूपमतिप्रसङ्गात् । नापि ज्ञापकार्थोऽसौ अर्थक्रियाकालेऽर्थस्यासत्त्वादेव। असतश्चास्याऽतः कथं सत्ताज्ञप्तिरतिप्रसङ्गात् । न चार्थक्रियोदयात् प्राक् कारणमासीदिति व्यवस्थापयितुं शक्यम् । यतो यदि स्वरूपेण पूर्व हेतुरवगतो भवेत् तदनन्तरं चार्थक्रिया तदार्थक्रिया प्रतिपन्नसम्बन्धोपलभ्यमाना प्राग्घेतुसत्ता व्यवस्थापयतीति स्यात् । न चार्थक्रियामन्तरेण हेतुः स्वरूपेण कदाचिदप्युपलब्धः परैः खरूपसत्त्वप्रसङ्गात् । अर्थक्रियायाश्चापरार्थक्रिया यदि सत्त्वव्यवस्थापिका तदानवस्था । न चार्थक्रियाऽनधिगतसत्त्वस्वरूपापि हेतुसत्त्वव्यवस्थापिका अश्वविषाणादेरपि तत्सत्त्वव्यवस्थापकत्वानुषङ्गात् । न च हेतुजन्यत्वादर्थक्रिया सती नार्थक्रियान्तरोदयादित्यभिधातव्यम् इतरेतराश्रयानुषङ्गात्-हेतुसत्त्वाध्यऽर्थक्रिया सती तत्सत्त्वाच हेतोः सत्त्वमिति”-प्रमेयक० पृ. १४८ द्वि. पं०२।
१५ "अर्थक्रिया"-वृ० मां० टि।