SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ३९८ प्रथमे काण्डेनाभावप्रतिपादकमध्यक्षम् अनुमानं वा भवेत् ? न तावदध्यक्षरूपम् तत्र क्षणिकताप्रतिभासामा. वात् । न चानवभासमानक्षणक्षयस्वरूपमध्यक्षं सत्तायास्तदविनाभावमावेदयितुमलम्, न च प्रत्यक्षवपुषि स्फुटमाभाति प्रतिक्षणविशरारुता भावानाम् किन्तु विपरीताध्यवसायोदयात् प्रतिहन्यत इति वक्तव्यम् विहितोत्तरत्वात् प्रागेव। किञ्च, यद्यध्यक्षं प्रतिक्षणमपायमवभासयति भावानां किमि५ति तदनुसारी निश्चयो नोदयमासादयति? सादृश्यदर्शनाद् भ्रान्तेनिश्चयानुदय इति न च वक्तव्यम् सादृश्ये प्रमाणाभावात् । न चाप्रामाणिका सादृश्यपरिकल्पना ज्यायसी। किञ्च, यदि विपरीतनिश्चयोत्पादात् प्रतिक्षणापायप्रतिभासप्रतिहतिरभ्युपगम्यते; नन्वेवं पुरोवर्तिनि स्तम्भादौ विजातीयस्मरणसमये प्रतिभासमाने क्षणक्षयनिर्भासो भवेत् नित्योल्लेखाभावात् । किञ्च, यदि क्षणक्षयविभासि संवेदनं स्थायिताध्यवसायश्च परस्परासंसक्तरूपं प्रत्यक्षद्वयमुदयमासादयति तदा क्षणक्षयावभासस्य १०न काचित प्रतिहतिः। न च नित्याध्यवसायसन्निधानमेव तस्य प्रतिहतिः, क्षणक्षयावभासस्यापि नित्याध्यवसायप्रतिघातकत्वप्रसक्तेः सन्निधेरविशेषात् पूर्वोत्तरकालभावित्वस्याप्यकिञ्चित्करत्वात् । अपि च, विजातीयविकल्पोदयेऽपि विशददर्शनस्य प्रतिहतिप्रसक्तिरिति पीताद्यध्यवसायप्रसवे नीलादिकं न प्रतिपन्नं स्यात् । न च विजातीयत्वात् पीतविकल्पो नीलादिदर्शनस्य न प्रतिघातक इति वक्तव्यम् नित्यताध्यवसायस्यापि क्षणक्षयदर्शनं प्रति प्रतिघातकत्वाप्रसक्तेर्विजातीयत्वाविशेषात् १५आकारभेदादेव ह्यन्यत्रापि विजातीयत्वम् तच्च नित्यानित्ययोरपि तुल्यमेव । न च प्रथमोत्पन्नक्षणिक दर्शनसमानाधिकरणतया नित्योल्लेखस्योत्पत्तेः प्रतिघातकत्वं विरुद्धाकारावभासिनोः प्रत्यययोः सामानाधिकरण्यानुपपत्तेः अन्यथाऽतिप्रसक्तेः। तँन्न सामानाधिकरण्यात् तत्प्रतिहतिरित्यध्यक्षस्वरूपबाधकप्रमाणनिश्चयो न क्षणक्षय-सत्तयोरविनाभाव इति न सत्तातः क्षणक्षयसिद्धिः। न चानुमानरूपेण बाधकप्रमाणेन क्षणक्षयाविनाभूता सत्ताऽध्यवसीयते तदनुमानेऽप्यविनाभावस्यान्यानुमानबलात् २० प्रसिद्ध्यभ्युपगमादनवस्थाप्रसक्तेः। अपि च, किं तद्बाधकं प्रमाणमिति वक्तव्यम् अथार्थक्रियालक्षणं सत्त्वम् नित्ये क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् ततो व्यावर्त्तमानमनित्ये एवावतिष्ठते इति तेन व्याप्तं तत् सिध्यति इत्येतद् बाधकं प्रमाणम्, असदेतत् ; सत्ता-नित्यत्वयोर्विरोधासिद्धेः विरोधो हि भवन् सहानवस्थानलक्षणः परस्परपरिहारस्थितिलक्षणो वा तयोर्भवेत् ? न तावत् स्थायिता-सत्तयोराद्यो विरोधः सम्भवी, स हि पदा. २५र्थस्य पूर्वमुपलम्भे पश्चात् पदार्थान्तरसद्भावादभावावगतौ निश्चीयते शीतोष्णवत् । न च नित्यताव भासि दर्शनमुदयमासादयति तदभ्युपगमे वा विशददर्शने नित्यतायाः प्रतिभासात् सा विद्यमानैवेति कथं क्षणक्षयिणः सर्वे भावाः स्युः? नापि द्वितीयो विरोधस्तयोः सम्भवति नित्यतापरिहारेण सत्तायाः सत्तापरिहारेण वा स्थायिताया अनवस्थानात् क्षणिकतापरिहारेण ह्यक्षणिकता व्यवस्थिता अक्ष. णिकतापरिहारेण च क्षणिकतेत्यनयोः परस्परपरिहारस्थितिलक्षणताविरोधः । न चार्थक्रियालक्षणा ३० सत्ता क्षणक्षयितया व्याप्तेति नित्यताविरोधिनी सेति वक्तव्यम् इतरेतराश्रयप्रसक्तेः । तथाहि-अर्थक्रियालक्षणा सत्ता क्षणिकतया व्याप्ता नित्यताविरोधात् सिध्यति सोऽपि तस्याः क्षणिकतया व्याप्तेरिति परिस्फुटमितरेतराश्रयत्वम्। न चान्वयनिश्चयद्वारेण सत्व-क्षणक्षययोरविनाभावः सिध्यति प्रत्यक्षस्यान्वयग्राहित्वेनात्राप्रवृत्तेः । अनुमानादन्वयप्रतिपत्तावनवस्थाप्रसक्तेरिति प्रतिपादनॊत् । १ “अध्यक्षेण"-बृ० टि.। “न चाप्रतिभासमानक्षणक्षयस्वरूपं प्रत्यक्षं विपक्षाद् व्यावीं सत्त्वं क्षणिकत्वनियतमादर्शयितुं समर्थम्"-प्रमेयक. पृ. १४६ द्वि. पं. १४ । २-भाति क्षण-बृ० वा. बा. भां. मां. विना। ३-परीत्याविवसा-वा. बा०। ४ न व-बृ०। ५-चाप्रमा-बृ० वा. बा०। ६-वात् यदि वा० बा। ७-याभा-वा. बा०। ८ प्रति पत्तिघात-वा. बा०। प्रतिघात-मां. हा० वि०। ९-सक्तिर्वि-बृ. वा. बा. विना। १० तत्र सा-वा. बा. हा०वि०। ११-निश्चयो वा. बा. भ. मा. विना। १२-रस्थितलआ० हा. वि. विना। "क्षणिकतापरिहारेण ह्यक्षणिकता व्यवस्थिता तत्परिहारेण च क्षणिकता इत्यनयोः परस्परपरिहारस्थितिलक्षणो विरोधः"-प्रमेयक. पृ० १४७ प्र.पं०४॥ १३-क्षण स-ल.। १४ प्र.पृ.पं.२०॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy