________________
प्रथमे काण्डे -
अथापि स्यात् वर्त्तमानतापरिच्छेदसमये तदभावनियतभावत्वात् न पूर्वताऽवगतिर्भावानाम् नील परिच्छेदे पीतादीनामिव । तथाहि - नीलप्रच्युत्य विनाभूतत्वात् पीतादीनां नीलपरिच्छेदकं प्रमाणं तत्प्रच्युतेरिव तदविनाभूतपीतादिव्यवच्छेदं कुर्वदेवे तत् परिच्छिनत्ति तद्वद् इदानीन्तनपदार्थपरिच्छेदाय प्रमाणं प्रवृत्तं तत्प्रच्युत्यविनाभूतानां व्यवच्छेदकम् वर्त्तमानश्च समयस्तत्प्रच्यु५ त्या विरुद्ध इति तद्व्याप्तावप्यतीतानागतौ तेन विरुद्धाविति तदवच्छिन्नस्यापि भावस्य वर्त्तमानावच्छिन्नेन सह न समावेशः तयोः परस्परपरिहारत्वेन विरोधात् तेन वर्त्तमानसम्बन्धिताग्राहिणा प्रमाणेन तत्प्रच्युत्यविनाभूतव्यवच्छेद्यस्य व्यवच्छेदमकुर्वाणेन वर्त्तमानसम्बन्धित्वमेव न परिच्छिन्नं भवेत् ततः पूर्वापर समयसम्बन्धिनोर्नानात्वे यन्नानाभूतानामेकत्वग्राहि प्रमाणं तस्यें अतस्मिंस्तनहणरूपत्वात् अप्रामाण्यम् अत एवैकत्वाध्यवसायस्य सदृशीपरापरेत्यादिभ्रमनिमित्तादुत्पादः परि१० गीयते, असदेतत्; यतो नैकत्वेन निश्चीयमानस्य परस्परविरुद्धकालादिव्यवच्छेदात् नानात्वम् छत्र- कुण्डलाद्यवच्छिन्नस्य देवदत्तादेरिव । न च देवदत्तादेः सहभाव्य नेक विशेषणावच्छिन्नत्वादेकत्वम् तदभावनियैतभावलक्षणस्य विरोधस्य सह सम्भविनामपि भावात् ततो विरुद्धावच्छिन्नस्य नानात्वे देवदत्तस्यापि नानात्वप्रसक्तिः । न च देवदत्तादेरेकस्य कस्यचिदभावात् तन्नानात्वप्रसक्तिः न सौगतपक्षे दोषायेति वाच्यम् एकप्रतिभासवलात् देवदत्तादेरेकत्वसिद्धेः अन्यथा नीलसंवेदन१५ स्यापि स्थूलाकारावभासिनो विरुद्ध दिक्सम्बन्धात् प्रतिपरमाणुभेदेप्रसक्तेः तदवयवानामपि षट्कयोगात् भेदापत्तितोऽनवस्थाप्रसक्तेः प्रतिभासविरतिलक्षणोंऽप्रामाणिका शून्यता भवेत् इति सर्वव्यवहारविलोपः । न च च्छत्र - कुण्डलादेरिन्द्रियावसेयवस्तुव्यवच्छेदकत्वेन इन्द्रियजप्रतिपत्तिविषयता सन्निहितत्वेन युक्ता पूर्वापरौंदित्वस्य तु वर्त्तमानकालावच्छिन्ने वस्तुन्यसन्निधानात् कथं तद्राहि. ज्ञानग्राह्यता युक्तेति वक्तव्यम् यतो यथाऽन्त्यसङ्ख्येयकाले पूर्वसङ्ख्येयानामसन्निधानेऽपि इन्द्रि २० यजप्रतिपत्तिविषयता तथा पूर्वापरकालभाविताया अपीत्युक्तं प्राक् । अथवा 'तदेवेदम्' इति ज्ञानस्यानिन्द्रियजत्वेऽप्यलिङ्गजस्य प्रामाण्यमभ्युपगन्तव्यं बाधारहितत्वेन अनेन प्रतीयमानस्य वस्तुनः पूर्वापरकालभाविता पूर्वापरदर्शन कर्म्मत चावसीयत इति चाभ्युपगन्तव्यम् अन्यथाऽनक्षालिङ्गप्रत्य यस्य निश्चयात्मनो बाधारहितस्यैवं जातीयस्य कस्यचित् प्रामाण्यानभ्युपगमे अक्षजस्य सन्निहितार्थमात्रग्राहित्वेन लिङ्गजस्यै चानवस्थाप्रसक्तितः सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकत्वायोगात् अनुमान२५ प्रवृत्तेरभाव इति कुतः क्षणिकत्वादिधर्म्म सिद्धिः ? यथोक्तविकल्पस्य च प्रामाण्ये कथं न क्षणक्षयानुमानबाधा ?
३९६
भवतु वा प्रत्यभिज्ञाज्ञानस्य तदाभाससमानत्वात् क्षणक्षयानुमानाबाधकत्वं तथापि स्मृत्याद्यव्यवहिताक्षप्रभववर्त्तमानतासम्बद्धस्वविषय परिच्छेदकावभासबाधितत्वात् न क्षणक्षयानुमानस्य स्वविषयव्यवस्थापकत्वम् यतो न भवन्मतेन नीलादिर्शानसमान कालभावी जनकत्वेन व्यवस्थितः ३० वर्त्तमानज्ञानसत्तासमयत् जनकत्वेन तस्य प्राक्कालभावित्वाभ्युपगमात् जनकश्च ज्ञानविषयः परमतेन तस्य वर्त्तमानसम्बन्धित्वावगमे क्षणद्वयावस्थितत्वेन ग्रहणात् कथं नाक्षणिकत्वग्रहणम् ? तथाहिएतद्राहिज्ञानमुपजायमानमेवं स्वविषयमवभासयति 'नायं सम्प्रत्येव नीलाद्यर्थः अपि तु प्रागासीत्' इति । यतश्चक्षुरादिव्यापारोद्भूतप्रतिपत्तिभेदः प्रादुर्भूतप्रादुर्भवत् (?) घटविषयत्वेन सुप्रसिद्ध एव उत्पद्य
१ “वर्तमानता” - बृ० मां० टि० । २ पूर्वभाव - आ० । ३ " यथा नीलप्रच्युतेर्व्यवच्छेदं कुर्वत् नीलं परिच्छिनत्ति तथा नीलप्रच्युत्य विनाभूतपीतादीनाम (मपि ) व्यवच्छेदं कुर्वदेव तत् परिच्छिनत्तीति" - वृ० टि० । ४- 'भूतपीतादेर्व्यवच्छेदम्' इति सुचारु । ५-व तस्य तत् मां० । ६ " नीलम् " - बृ० मां० टि० । ७ “ वर्तमानत्व प्रच्युत्या” - बृ० टि० । ८ " वर्तमानप्रच्युतिव्याप्तौ " - वृ० टि० । ९ तदविच्छि - बृ० ल० वा० बा० विना । १०-स्य त-ल० । ११- शापरेत्या - बृ० । १२ - त्तादि स-आ० हा० वि० । १३ यतं भावा० बा० । १४- दप्रणतापरादववा० बा० । १५ - णाप्रमा-भां० मां० विना । १६ “ विशेषत्वेन" - मां० टि० । “विशेषकत्वेन " - बृ० टि० । १७ -रादेवास्य तु बृ०।- रादि नु व वा० बा० । १८ - स्तुस -आ० हा ० वि० । १९- थान्तस - भ० मां० । २०–ङ्गस्य वा० बा० । २१ - रकर्मदर्शनकर्मता वा० वा० । २२-ता वा वा० बा० । २३-स्य वा बृ० । २४-भासमा - बृ० ल० भां० विना । २६ ला दिशा - वा० बा० । २७-या जन-वा० बा० । २८ - हि अत - हा० वि० ।
२५- त्वात् तन्न आ० । २९ - पारो दूरप्र - वा० बा०
।