SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । 1 कम्। तथा हि- सति प्रतिबन्धग्रहणेऽनुमितिप्रवृत्तिः प्रतिबन्धग्रहेणं च साध्यव्यतिरेकेण साधनस्याभवनज्ञानम् तदेव चाऽनन्यथासिद्धत्वं तस्योच्यते अत एवानुमानस्य प्रामाण्यमपाकुर्वता तत् प्रतिबन्धप्रसाधकप्रमाणस्याप्रामाण्यमुपदर्शनीयम् यतः प्रतिबन्धासिद्धितोऽनुमानं प्रामाण्यादपाकियेत । तथा चोक्तं न्यायविदा - "लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् " [ इति । नित्यताप्रसाधकस्य त्वध्यक्षस्य आस्तामनुमानेन तुल्यकक्षत्वम् तत्प्रतिबन्धप्रसाधकेनाप्य ५ तुल्यकक्षतैव । तथाहि क्षणक्षयविपरीत नित्यत्व लक्षणार्थमन्तरेणानुपजायमानमध्यक्षं तथाभूतमर्थ व्यवस्थापयत् क्षणिकत्वानुमानबाधकमुच्यते । न चाध्यक्षावसेयं नित्यत्वं वस्तुनो व्यवस्थापयितुं शक्यम् यतः पूर्वापरकालताविष्टमध्यक्षावसेयं तच्च न वस्तुधर्मः वर्त्तमानकालं हि वस्तु पूर्वापरकालभावित्वं च वर्त्तमानवस्तुविरुद्धत्वात् न तद्धर्मत्वेनावस्थापयितुं युक्तमिति प्रत्यभिज्ञाप्रमेयस्य यथाप्रतीत्यसम्भवात् बाधकप्रमाणेनाप्यतुल्यकक्षत्वात् तद्राहिणोऽध्यक्षस्य कुतः क्षणक्षयानुमानबाधकता ११० विपर्ययस्य प्रमाणेनात्र विषये निश्चितत्वात् । [?? न च मूलबाधकत्वेन अनुमानस्यानुभव आशङ्कनीयः प्रत्यक्षाभासस्य कस्यचिद् बाधनात् उत्पलपत्रशतव्यति भेदाद्यध्यक्षबाधकत्वेनानुमानस्य प्रवृत्तावपि यतो नोच्छेदः एवमंत्रापि इति न कश्चिद्दोषः अत एव सर्वत्र प्रत्यक्षं विरोधि बाधकमनुमानं तु तद्विरोधद् वाध्यमेवेति नियमाभावात् निराकृतम् ?? ] इतरेतराश्रयत्वमपि नात्राशङ्कनीयम् प्रत्यक्षाभासत्वे अनुमानं वाधकम् अनुमानप्रामाण्यात् प्रत्यक्षस्याभासतेति यस्मान्नानुमानप्रामाण्य- १५ मध्यक्षाभासनिबन्धनम् किन्तु प्रतिबन्ध प्रसाधकप्रमाणनिमित्तं तत्प्रामाण्यमिति कुत इतरेतराश्रयत्वम् ? असदेतत् यतो यद्यपि परिच्छिद्यमानस्य वस्तुनः पूर्वकालतापि निश्चीयते तथापि नावस्तुधर्म ग्राहकमध्यक्षमिति कथं तद्विषयस्य यथाप्रतीत्यसम्भवः ? तथाहि तस्य पूर्वकालसम्बन्धिता स्वरूपेण गृह्यते नेदानीन्तनसम्बन्धितानुप्रवेशेन तेनेदानीं यद्यपि कुतश्चिन्निमित्तात् तस्य पूर्वकालादित्वमवसीयते तथापि तह्राहकमध्यक्षं कथं न वस्तुग्राहकमिति कुतः तस्याप्रामाण्यम् १२० यदि ह्यविद्यमानं पूर्वकालादित्वम् विद्यमानं वा वर्त्तमानौ रोपेणाध्यक्षमध्यवस्येत् तदा भवेदस्यायथाग्राहित्वाद् अप्रामाण्यम् एतश्च नास्तीति कुतोऽस्याप्रामाण्यप्रसक्तिः ? ३९५ न च सन्निहित विषय बलोत्पच्याऽविचारकत्वादध्यक्षेण पूर्वकालसम्बन्धित्वं परामष्टुमशक्यम् यतो यद्यप्यतीत कालत्वमसन्निहितं तथापि सन्निहितविषयबलादुपजायमानमध्यक्षं वर्त्तमानवस्तुनस्तै निश्चिनोत्येव यथा अन्त्यसङ्ख्ये ग्रहणकाले 'शतम्' इति प्रतीतिः क्रमगृहीतानपि सङ्ख्येयन् । २५ न चैषा अनिन्द्रियजा इन्द्रियान्वयव्यतिरेकानुविधानात् । नाप्यनर्थजा सन्निहितान्त्य सङ्ख्ये यजन्यत्वात् । न चैकावभासिनी एकप्रतिपत्तिसमये 'शतम्' इत्यप्रतिपत्तेः अन्यथा प्रथमव्यक्तिप्रतिभी समय एवैष भवेत् । न चाप्रमाणमेषा बाधकाभावात् । घटाद्यध्यक्षेण तुल्यत्वात् नास्या वि कल्पमात्रता । तस्मात् यथा अन्त्यसङ्ख्येयप्रतिपत्तिसमये प्रागवगैत (?) तदौऽपरिच्छिद्यमानार्थोपयोगः तद्विशिष्टप्रतिपत्तौ तथा प्रत्यभिज्ञावसेयवस्तुपरिच्छेदसमये पूर्वकालभाविताया अपि । न च ३० विशिष्टप्रतिपत्तिकाले सङ्ख्येयानां विद्यमानता पूर्वकालतायास्तु तद्वैपरीत्यमिति न तत्रोपयोगः येतोऽगृह्यमाणानां तत्कालविद्यमानता नोपयोगिनी यत्र चान्त्य सङ्ख्येयग्रहणसमये पूर्वावगतसङ्ख्येयानामभावस्तत्र यथा तेषामुपयोगः तथा पूर्वकालादिताया अपि तदविशिष्टाया उपयोगो भविष्यतीत्यनवद्यम् । १- हणं सा - वा० वा० । २-नप्रा-आ० । ३ - बन्धसा - वा० बा० । ४ - कप्रामाण्यस्याप्रा-वा० वा० । ५-क्रियेत् । भां० 1 - क्रियते । वा०वा० मां०। ६ "लक्षणयुक्त बाधासंभवे तलक्षणमेव दूषितं स्यात् इति न्यायात् " - प्रमेयक० पृ० १७५ प्र० पं० ४ । ७ नित्यं वस्तु-ल० । ८ " तव हि युगपद्भेदग्राहि प्रत्यक्षं विपरीतप्राहिणाऽनुमानेन बाध्यते " - घृ० भां०मां• टि० | ९-मन्यत्रापि वृ० ल० वा० वा० भ० मां० विना । १० " परगदितम् ” - मां० टि० । “परविदितम्” -वृ० टि० । ११-धादबा - आ० । १२ - नारोपणा-आ० हा ० वि० । १३-लम-ल० | १४ - मानं व-आ० । १५ " अतीतकालत्वम् " - बृ० टि० । १६ - यमप्र - हा० वि० । १७ - तमपि प्र-ल० । १८ " निश्चिनोतीति योगः " - बृ० भ० मां० टि० । १९ -भासम-आ० । २० “‘शतम्' इति प्रतिपत्तिः" - मां० टि० । “यथा एषा एकमेव गृह्णीयात् " - बृ० टि० । २१ गतं त-आ० हा० वि० । २२- दा अप-वा० बा० ।-दाप-आ० हा ० वि० । २३ “ “शतम्' इत्येवंरूपायाम्” - धृ० भ० मां० टि० । २४ यतो गृ-वृ० ल० विना । २५-पि विशि-आ० हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy