SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३९४ प्रथमे काण्डेशुक्तिकादर्शनेन बलवता रजतदर्शनमयार्थ(मयथार्थ)क्रियाकारि रूपावभासि दुर्बलमनध्यक्षीक्रियते। न च लूनपुनर्जातकेशादिष्यपि प्रत्यभिज्ञानोदया(यात्) स्थायिताप्रतिपत्तिः सर्वत्रालीका, ना दृष्टान्तमात्रादर्थसिद्धेरभावात् अन्यथा हेतूपन्यासस्य वैफल्यापत्तेः। हेतूपयोगितयैव निदर्शनस्य परैः साफल्याभ्युपगमात् । आह च-“स एवाविनाभावो दृष्टान्ताभ्यां दर्शाते" [ ] इति । ५यद्वा लूनपुनर्जातशिरसिजा दिष्वपि प्रत्यभिज्ञानात् एकता भवतु अप्रध्वस्तः केशादिः कथं प्रत्यमिज्ञायते ? नन्वेवं ध्वस्तेऽपि शिरोरुह निकरादौ समानम् । अथा ध्वस्ते तत्र पुनदर्शनात् 'ते एवामी केशाः' इत्येकताप्रतीत्यनुभवात् प्रत्यभिज्ञानम्। ननु ध्वस्तेष्वपि तेषु पुनदर्शनात तुल्यप्रमाणादियोगेष्वेकताप्रतिपत्तिदर्शनात् कथं न प्रत्यभिज्ञानम् ? तस्माद् ध्वस्तोदितेष्वपि शिरसिजादिषु प्रत्यभिज्ञानादेकत्वं कस्यचित् रूपस्याभ्युपगन्तव्यम् । अथ दलिताध्यवसायी १० प्रत्यय(यः) स्थायिताध्यवसायिता(यिनीं) प्रत्यभिज्ञां बाधत इति न तेष्वेता, न; भिन्नकालेन दलितकेशाध्यवसायिप्रत्ययेन प्रत्यभिज्ञाया बाधायोगात् अथवा लूनपुनर्जातकेश-नखादिभेदामेदा. ध्यवसायादुभयतैवास्तु स्तम्भादिषु तु विशददर्शनावभासिषु क्षणक्षयविकला स्थायिता प्रतिभातीति तेषां स्थिररूपतैवास्तु। अथ कथं प्रत्यभिक्षा प्रामाण्यमनुभवति ? कारणदोषाभावात् बाधारहितापूर्वार्थग्राहित्वाच । १५तदुक्तम् "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्”॥ [ __] इति । प्रथमदर्शनानधिगतां स्थायितां प्रत्यभिज्ञानमध्यवस्यति विश्वासादिव्यवहारप्रवर्तिका चेति कथं न प्रमाणम् ? ने चाद्यदर्शनमेव स्थायिताध्यवसायात् उत्तरकालभाविनो नित्यताग्राहितया २० व्यवस्थाप्यत इति आद्यदर्शनगृहीतां नित्यतामध्यवस्यत् प्रत्यभिशाज्ञानमपूर्वार्थाधिगन्तृत्वाभावान प्रमाणम् यत एवमाद्यदर्शनावसेयमेव नित्यत्वमिति कथं क्षणक्षयिता भावानाम् ? न चाध्यक्षानवतारे प्रतिक्षणध्वंसितायामनुमानमपि प्रवृत्तिमासादयतीत्युक्तम् । किञ्च, स्वभावलिङ्गप्रभवमनुः मानं क्षणक्षयितां भावानामवगमयति इति पराभ्युपगमः । न चाध्यक्षगृहीतं प्रतिक्षणध्वंसित्वम् येन स्वभावहेतुस्तत्र व्यवहृतिमुपरचयति यथा शिंशपा विशददर्शनावभासिनि तरौ वृक्षत्व. २५व्यवहतिम् प्रत्यक्षप्रतीत एवार्थे स्वभावहेतोर्व्यवहृतिप्रदर्शनफलत्वात् । न च विद्युदादौ सत्ता-क्षणिकत्वयोरध्यक्षत एव प्रतिबन्धग्रहणादन्यत्रापि शब्दादौ सत्तोपलभ्यमाना क्षणिकत्व. मवगमयति, जातरूपे सत्तातः शुक्लतानुमितिप्रसक्तेः । अथ हेमाकारनिर्भासिदर्शनं शुक्लताप्रसाधकमनुमानमुपहन्तीति न तत्र शुक्लतासिद्धिः; नन्वेवं स्तम्भादौ क्षणिकतामुल्लिखन्तीमनुमिति 'स एवायम्' इत्यभेदप्रतिभासोऽपहन्तीति कुतः क्षणिकतासिद्धिः ? अथ प्रत्यभिज्ञा भिन्नेष्वप्यभेद३० मुल्लिखन्ती दलितपुनरुदितकररुहादिषूपलभ्यत इति नासावेकत्वे प्रमाणम् तर्हि कामलोपहतदृशां धवलिमानमाबिभ्राणेषु पदार्थेषु कनकाकारनिर्भासिदर्शनमुदेतीति तत् पीतेऽपि न प्रमाणतामा. सादयेत् तथा च शुक्लतानुमानस्यापि कुतो बाधाप्रसक्तिः ? अथ शुक्लताप्रसाधकस्यानुमानस्यान्यथासिद्धत्वात् युक्तं प्रत्यक्षबाध्यत्वम् तस्यानन्यथासिद्ध. त्वात् । न ानुपहतेन्द्रियस्य पीतावभासि दर्शनं पीतार्थव्यतिरेकेण सम्भवति कनकादौ तु शुक्लता३५प्रसाधकमनुमानमन्यथासिद्धत्वात् अध्यक्षविरोधे न तद्विपरीतार्थसाधकं युक्तम् । स्तम्भादौ तु नित्यतावेदकस्याध्यक्षस्य कुतश्चिद् भ्रान्तिकारणादन्यथासिद्धत्वेनानन्यथासिद्धानुमानबाधकत्वमयु. १-मथार्थ-मां०। २-शानोद-आ० । ३-का, त; दृ-भां० मा०। ४-त्यभिज्ञानं बा-आ० हा. वि०। ५-कता, म; भि-आ० वि०। ६-त्यभिज्ञया मां०। ७-खादिमेदाध्य-आ० हा. वि. विना । ८ "क्षणक्षयवादी स्थिरतावेदकप्रत्यभिज्ञावादिनं प्रत्याह"-बृ० भ० टि.। ९ “आचार्यः"-बृ. टि. । १०-च उक्त-वा. बा०। ११-श्वादिव्य-वा. बा० । १२ न वादिद-वा. बा० । १३-प्य इ-वा० बा० । १४-तम् स्व-वा० बा०। १५ “खभावहेतू रचयतीति योगः"-वृ० मा. टि. । १६ प्रतिबिम्बग्र-वा० बा० । १५-पहरन्तीति वा० बा० । १८-त्यमेदःप्र-वा० बा०। १९-बाधत्वम् वा० बा०। २०-क्षविरोधिन बृ० वा. बा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy