SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३९१ ने चाकिञ्चित्करस्यापि मुद्गरोदेः स्वहेतुमन्निर्हेतुसन्निधिबलायातत्वाद् घटक्षणस्यासमर्थक्षणान्तरजननकालेनोपा(प)लम्भविषयता यत एवानेकस्यैव क्षणघटस्य विलक्षणक्षणान्तरोत्पादकत्वा. भ्युपगमप्रसक्तिः स्यात् । एवं च मुद्गरादेर्न विरोधित्वम् विनाशस्याहेतुकत्वात् । नापि जनकत्वं पूर्वोक्तदोषप्रसक्तेरिति विलक्षणसन्तत्युत्पादे सन्तानोच्छेदे वा मुद्रादेरन्वय-व्यतिरेकाननुविधानप्रसक्तितो नाग्यादीनां दहनादिकार्ये लोकस्योपादानं भवेत् । न च परमार्थकत्वस्याभावे घटादीनां५ मुद्रादिव्यापारानन्तरमनुपलब्धिर्भवेत् । न च पूर्वसन्तानोच्छेदाद् विलक्षणसन्तानोत्पत्तेश्च तदा घटानुपलब्धिरिति वक्तव्यम् विलक्षणसन्तत्युत्पादस्य प्राक्तनन्यायेनाभावात् पूर्वसन्ततिनिवृत्तरपि विवर्त्तमानेभ्योऽनर्थान्तरत्वात् तथैवोपलब्ध्यादिप्रसक्तेः तदा तस्य स्वरूपक्षतेरभावात् । न च न तदा तस्य स्वरूपप्रच्युतिरुत्पद्यते किन्तु तस्यैकक्षणावस्थायित्वेन तदाऽभवनमिति नोपलम्भः यतः स्वरूपादप्रच्युतस्य नाभवनं नाम किञ्चित् तत्सद्भावाभ्युपगमे वा कथं न स्वरूपप्रच्युतिस्ततो-१० ऽर्थान्तरभूतोत्पत्तिमती? अथ स एव न भवति न तु तस्यापरं सत्त्वम् न तु तदेवेदं पुना रूपाभवनमभिधीयते, तत्र च तदेवोत्तरम् । तस्माद् विनाशंहेतुव्यापारानन्तरा(रं) पदार्थस्यासद्यवहार विदधता तद्यतिरिक्तार्थान्तरंग्रहणमभ्युपगन्तव्यम् न तु तदग्रहणमात्रम् अन्यथा तस्याभावानिश्चयेक्तन्यादिव्यवहितस्य सद्यवहारनिषेध एव स्यात् नासद्यवहारप्रवर्त्तनम् यतो न कश्चिदभावानिश्चये तत्स्वरूपाग्रहणे वानुपलब्ध्योर्विशेषः येनैकत्रासद्यवहारप्रवृत्तिः अन्यत्र सद्यवहार-१५ निषेधमात्रीत् किंवैभावोत्पत्तेः प्राग्भावस्याभावनिश्चय(ये) तदुत्पादककारणोपादानं कुर्वन्त उपलभ्यन्ते प्रेक्षापूर्वकारिणः। तदुत्पत्तौ च निवृत्तव्यापारा विनाशकहेतुव्यापारानन्तरं च स्वरूपातिरिक्तं पदार्थान्तरमवगत्य शत्रुध्वंसे सुखभाजो मित्रप्रक्षये तु दुःखानुषक्ता उपलभ्यन्ते । न च मित्रसद्भावो दुःखहेतुः प्रतीतः नापि शत्रुसद्भावः सुखजनक इति तद्यतिरिक्तोऽभावस्तजनकोऽभ्युपगन्तव्यः। न च मित्राऽमित्राभावे च न दुःख-सुखे विहितोत्तरत्वात् । न चाभावस्य २० भवितृत्वे भावरूपता अभावप्रत्ययविषयत्वेन भवितृत्वेऽप्यभावरूपत्वात् । यथा हि भवितृत्वेनाविशेषेऽपि घेट-पटयोस्तत्प्रतीतिविषयत्वेन तद्पता तथा भावाऽभावयोरपि तद्विषयात(षयत्वात् ) तद्रूपत्वे न किञ्चिद् दूषणमुत्पश्यामः। न वा भावस्य भवने विरोध एव दृषण(णम्) स्वरूपेऽबाधितप्रत्ययविषये विरोधासिद्धेः अन्यथा सर्ववस्तुषु तत्सिद्धिप्रसक्तिः। तेन्न मुद्रादिव्यापारात् प्राग् घटादेस्तद्यापारानन्तरमेव तस्या उपलब्धेः पदार्थात्मभूता प्रच्युतिः । अत एव तस्मिन् २५ 'गृहीतैव प्रमाणता' इति हेतोरसिद्धतेत्यपि न वाच्यम्, यतः किं घट एव प्रच्युतिः, उत कपाललक्षणं भ(भा)वान्तरम् , आहोस्वित् तदपरं पदार्थान्तरमिति विकल्पाः । तत्र यदि घटस्वरूपमेव प्रच्युतिस्तपरं तत्राभिधानान्तरं विहितम् घटस्वरूपं त्वविचलितं प्रतीयते कथं न नित्यम् ? अथैकक्षणस्थायि घटस्वरूपं प्रच्युतिरिति न घटस्य नित्यता; नैन्वेकक्षणस्थायितया घटस्वरूपं न प्रतीतिगोचर इति कथं तस्य प्रच्युतिः? अथ कपालस्वरूपमेव घटप्रच्युतिस्तथापि प्राक्कपालप्रादु-३० १ न वा-आ० हा० वि०। २-रादे स्व-आ०। ३ क्षणे घ-मां०। ४ एवं मु-मां० हा० वि०। एव मु-आ०। ५-शस्य हे-आ०। ६-क्षणांसंतत्युदसं-हा०। ७-त्पादयं संतानोच्छे-वि० ।-त्पाद संततोच्छे-आ० । ८ पूर्वसंततिनिवृत्तैर-हा० वि० । पूर्वसंतिनिवृत्तैर-आ०। ९-स्य रू-आ० हा० वि० । १० तदा भ-आ० । ११ न नु त-आ०। १२ न नु तदेवेद पु-आ० । १३-शहेतुा -आ० । १४-हार विदधतां त-हा०।-हार विदधता त-वि० । १५-रमन-आ० हा० वि० । १६ तस्माभा-हा०वि०। १७-श्वयेत्कन्यादि-आ०।-श्चयेक्तव्यादि-हा०वि०। १८-न यता म कश्चि-आ० । १९-त्रात किंच भा-मां० ।-त्रा किन्त्व भा-आ० हा० वि०। २० "किश्च भावोत्पत्तेः प्राग्भावस्य अभावनिश्चये तदुत्पादककारणापादनं कुर्वन्तः प्रतीयन्ते प्रेक्षापूर्वकारिणः"-प्रमेयक पृ० १४५ द्वि. पं० ११। २१-दकार-आ० । २२ इति त्पद्य-आ० । “ततस्तद्यतिरिक्तोऽभावस्त तुरभ्युपगन्तव्यः"-प्रमेयक० पृ० १४५ द्वि० पं० १३। तद्धेतुः “स मुद्रादिर्हेतुर्यस्य सः" इति तत्रैव टि. २८ । २३-प्यभावाभाव-वि०। २४ घटयोस्त-मां. भा. हा.वि. विना। २५-खये विषेये विरो-हा. वि. -त्यये विषेय विरो-आ०। २६ तत्र मु-हा०बि०। २७-च्युति प्रच्यतित एष आ.। २८-यि स्व-आ. हा०वि०। २९ “अथैकक्षणस्थायि घटखरूपं प्रध्वंतः, न; कक्षणस्थायितया तपस्याद्यापि अप्रसिद्धेः"-प्रमेयक. पृ. १४६ प्र. पं०१।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy