SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३९० प्रथमे काण्डेदिप्रसक्तिर्भवेत् । न च तस्य तदा स्वयमेवाभावान्नोपलब्ध्यादिरिति वक्तव्यम् यतः सोऽपि तदभावस्तदैव मुद्रादिव्यापारानन्तरमुपलभ्यते अन्यदा तु नोपलभ्यत इति कथं न तत्कार्यः? अथ न भावाभावो भावस्वरूपादन्यः केवलं कल्पनाविषयत्वादसदेवासौ (?) व्यवहारपथमवतार्यते; नन्वेवं भावप्रच्युतेः काल्पनिकत्वे भावानामपि काल्पनिकत्वमपरिहार्यम् यतो लाक्षणिको ५विरोधो नील-पीतादेः परैरभ्युपगतः वस्तुस्वरूपव्यवस्थापकं च लक्षणं तन्निमित्तो विरोधो लाक्षणिक उच्यते भावप्रच्युतिश्च लक्षणं यतो नीलस्य विरोधो नीलप्रच्युत्या तद्विरोधे च पीतादीनामपि तत्प्रच्युतिव्याप्तानां तेन विरोधस्तथा च प्रमाणं नीलपरिच्छेदकत्वेन प्रवृत्तं नीलप्रच्युति तयाप्तांश्च पीतादीन् व्यवच्छिन्ददेव स्वपरिच्छेद्यं नीलं परिच्छिनत्तीत्यभ्युपगमः । स च शशविषाणस्येव भावाभावकाल्पनिकत्वाभ्युपगमे कथं मु(युक्तिसङ्गतः? नहि शशविषाणप्रख्यस्य १० भावाभावस्य भावविरुद्धत्वम् पीतादिव्यापकत्वं वा प्रमाणा(ण)विषयत्वेन व्यवस्थापयितुं शक्यम् यतस्तस्य प्रतिनियतपदार्थव्यवस्थाहेतुत्वं भवेत् ।। न च विनाशस्य मुद्रादिजन्यत्वमसिद्धम् विरोधिरूपतया लोकस्थित्या मुद्रादीनां तत्कारणत्वव्यवस्थापनात् । तथाहि-न परैः कणभुग्मतानुसारिभिरिव कार्यकारणभावात् पृथग् विरो धाख्यः सम्बन्धोऽभ्युपगम्यते यतस्तैर्मुद्रादिजन्यस्य विनाशस्य (?) तदतद्रूपत्वेनासम्भवाद् विनाशस्य १५च तदतत्स्वभावतया विनाशविषयत्वमपाकृत्य घटक्षणो मुद्गरादिकं विनाशकारणत्वेन प्रसिद्धमपेक्ष्य समानक्षणान्तरोत्पादनेऽसमर्थक्षणान्तरमुत्पादयति तदपि तदपेक्षमपरमसमर्थतरम् तदप्युत्तरं तद. पेक्षस(क्षमस)मर्थतमं यावद् घटसन्ततेर्निवृत्तिः अन्यत्रापि सर्वत्रैवमेव विरोधित्वं प्रतिपादितं परैः एतदभ्युपगमे च क्षणस्यासमर्थक्षणान्तरजनकत्वेनाभ्युपगतस्य मुद्रादेः सकाशात् कश्चित् सामर्थ्य विघातोऽभ्युपगन्तव्यः अन्यथाऽसमर्थक्षणान्तरजनकत्वमेवानुपपन्नं भवेत् । न च मुद्रा२० द्यपेक्षस्य घटक्षणस्य शक्तिव्यावृत्तिः स्वत एव व्यावर्त्तमानस्त्वसौ मुद्राद्यभावे समानक्षणान्तरो. त्पादकमपरं समर्थ जनयति तत्सद्भावे त्वसमर्थक्षणानन्त(णान्त)रम् न तु मुद्राद्यपेक्षातस्तस्य कश्चित् सामर्थ्य विघात इति वक्तव्यम् यतो मुद्रादिसन्निपाते तजनकस्वभावाव्याहतौ समर्थक्षणान्तरोत्पादप्रसक्तिः समर्थक्षणान्तरजननस्वभावस्य कारणपरम्परायातस्य भावात् प्राक्तनक्षणस्येय नहि तस्य स्वनिरोधादन्यज(ज)नकत्व स च हेतुतः समर्थजननस्वभावो भूत्वा खयमेव न भूतो २५ मुद्गरादिना च न तस्य कश्चिच्छक्तिप्रतिघातो विहित इति । यद्यप्यपरकारणान्तरसन्निधानात् कार्य वैलक्षण्येनैवोत्पत्तुमिच्छति [?? तथापि प्राक्तनघटक्षणस्य तत्स्वभावत्वान्नत्वेवं कार्योत्पत्तिः स्यान्नान्यथेति न च स्वहेतुतो समर्थजननखभावस्य तस्योत्पत्त यं दोषः प्रथमक्षण एवं(व) सन्तत्युच्छेदप्रसक्तिः। अतो मुद्गरादिव्यापारकालेऽपि यदि स्वहेतुत एव समानक्षणान्तरजननसामर्थ्य घटक्षणस्य समस्ति ततः सदृशक्षणान्तरोत्पत्तेर्मुद्रादिसन्निधानं व्यर्थम् । अथ स्वहेतुतः समान ३०क्षणान्तराजननसमर्थों घटक्षणस्तथापि प्राक्तनक्षणादिवत् तत्क्षणादप्यपरक्षणान्तरजनकस्य समा नक्षणोत्पत्तेापारवन्मुद्गरसन्निधिर्व्यर्थ एव । एतच्च स्वहेतुतो भावस्य नश्वरस्वभावत्वे न किश्चिन्नाशहेतुना अनश्वरस्वभावत्वेऽपि 'सुतराम्' इति वदता परेण दूषणमभ्युपगतमेव । १-यमेव भा-आ० विना। "न चास्य तदा खयमेवाभावात्"-प्रमेयक० पृ. १४५ द्वि० पं० । २-स्तदा च मां०। ३-वच्छेदादेव स्व-हा० वि० ।-वच्छेदादे स्व-आ०। ४-णस्यैव भां. विना। ५ भावका-भां० । भावाभावप्रमाणाविषयत्वे का-वि०। ६-त्या मुद्गरादीनां हा०। ७ तत्कर-आ०। ८-दूपावनासम्भ-हा० वि०। ९-स्य तदतत्खभा-हा० वि० ।-स्य तदत्स्वभा-आ०। १० “अथ घट एव मुद्रादिकं विनाशकारणत्वेन प्रसिद्धमपेक्ष्य समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमुत्पादयति तदपि अपेक्ष्य अपरमसमर्थतरम् तदपि उत्तरमसमर्थतमम् यावद् घटसन्ततेर्निवृत्तिरित्युच्यते । ननु चात्रापि घटक्षणस्य असमर्थक्षणान्तरोत्पादकत्वेन अभ्युपगतस्य मुद्रादिना कश्चित् सामर्थ्य विघातो विधीयते वा न वा ? प्रथमविकल्पे कथमभावस्य अहेतुकत्वम् । द्वितीयविकल्पे तु मुद्रादिसन्निपाते तज्जनकखभावाऽव्याहतौ समर्थक्षणान्तरोत्पादप्रसङ्गः समर्थक्षणान्तरजननखभावस्य भावात् प्राक्तनक्षणवत्"-प्रमेयक० पृ. १४५ द्वि. पं० ८। ११-रसमर्थ-मां० ।-रमर्थतर-आ०। १२-द्यमपे-आ० । १३-रणं प-मां० ।-रणाप-आ० हा० वि०। १४-म् स्वहे-मां० बहिः। १५-तुतोमर्द्धजन-आ०। १६-दि. पत् तक्ष-हा०वि०।-दित् तत्क्ष-आ०। १७-श्व सहे-आ० हा. वि. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy