SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३९१ ने चाकिञ्चित्करस्यापि मुद्गरोदेः खहेतुमन्निर्हेतुसन्निधिबलायातत्वाद् घटक्षणस्यासमर्थक्षणान्तरजननकालेनोपा(प)लम्भविषयता यत एवानेकस्यैव क्षणघटस्य विलक्षणक्षणान्तरोत्पादकत्वाभ्युपगमप्रसक्तिः स्यात् । ऐवं च मुद्रादेर्न विरोधित्वम् विनाशस्याहेतुकत्वात् । नापि जनकत्वं पूर्वोक्तदोषप्रसक्तेरिति विलक्षणसन्तत्युत्पादे सन्तानोच्छेदे वा मुद्गरादेरन्वय-व्यतिरेकाननुविधानप्रसक्तितो नाच्यादीनां दहनादिकार्ये लोकस्योपादानं भवेत् । न च परमार्थकत्वस्याभावे घटादीनां ५ मुद्रादिव्यापारानन्तरमनुपलब्धिर्भवेत् । न च पूर्वसन्तानोच्छेदाद् विलक्षणसन्तानोत्पत्तेश्च तदा घटानुपलब्धिरिति वक्तव्यम् विलक्षणसन्तत्युत्पादस्य प्राक्तनन्यायेनाभावात् पूर्वसन्ततिनिवृत्तेरपि विवर्त्तमानेभ्योऽनन्तरत्वात् तथैवोपलब्ध्यादिप्रसक्तेः तदा तस्य खरूपक्षतेरभावात् । न च न तदा तस्य स्वरूपप्रच्युतिरुत्पद्यते किन्तु तस्यैकक्षणावस्थायित्वेन तदाऽभवनमिति नोपलम्भः यतः स्वरूपादप्रच्युतस्य नाभवनं नाम किश्चित् तत्सद्भावाभ्युपगमे वा कथं न स्वरूपप्रच्युतिस्ततो-१० ऽर्थान्तरभूतोत्पत्तिमती? अथ स एव न भवति न तु तस्यापरं सत्त्वम् न तु तदेवेदं पुना रूपाभवनमभिधीयते, तत्र च तदेवोत्तरम् । तस्माद् विनाशहेतुव्यापारानन्तरा(रं) पदार्थस्यासद्यवहारं विदधता तद्यतिरिक्तार्थान्तरंग्रहणमभ्युपगन्तव्यम् न तु तदग्रहणमात्रम् अन्यथा तस्याभावानिश्चयेक्तन्यादिव्यवहितस्य सद्यवहारनिषेध एव स्यात् नासद्यवहारप्रवर्त्तनम् यतो न कश्चिदभावानिश्चये तत्स्वरूपाग्रहणे वानुपलब्ध्योर्विशेषः येनैकत्रासद्यवहारप्रवृत्तिः अन्यत्र सयवहार-१५ निषेधमात्रौत् किंत्वभावोत्पत्तेः प्राग्भावस्याभावनिश्चय(ये) तदुत्पादककारणोपादानं कुर्वन्त उपलभ्यन्ते प्रेक्षापूर्वकारिणः। तदुत्पत्तौ च निवृत्तव्यापारा विनाशकहेतुव्यापारानन्तरं च स्वरूपातिरिक्तं पदार्थान्तरमवगत्य शत्रुध्वंसे सुखभाजो मित्रप्रक्षये तु दुःखानुषक्ता उपलभ्यन्ते । न च मित्रसद्भावो दुःखहेतुः प्रतीतः नापि शत्रुसद्भावः सुखजनक इति तद्यतिरिक्तोऽभावस्तजनकोऽभ्युपगन्तव्यः। न च मित्राऽमित्राभावे च न दुःख-सुखे विहितोत्तरत्वात् । न चाभावस्य २० भवितृत्वे भावरूपता अभावप्रत्ययविषयत्वेन भवितृत्वेऽप्यभावरूपत्वात् । यथा हि भवितृत्वेनाविशेषेऽपि धैट-पटयोस्तत्प्रतीतिविषयत्वेन तद्रूपता तथा भावाऽभावयोरपि तद्विषयात्(षयत्वात्) तद्रूपत्वे न किञ्चिद् दूषणमुत्पश्यामः । न वा भावस्य भवने विरोध एव दृषण(णम्) स्वरूपेऽबा. धितप्रत्ययविषये विरोधासिद्धेः अन्यथा सर्ववस्तुषु तत्सिद्धिप्रसक्तिः। तेन मुद्गरादिव्यापारात् प्राग् घटादेस्तवापारानन्तरमेव तस्या उपलब्धेः पदार्थात्मभूता प्रच्युतिः । अत एव तस्मिन्२५ 'गृहीतैव प्रमाणता' इति हेतोरसिद्धतेत्यपि न वाच्यम्, यतः किं घट एव प्रच्युतिः, उत कपाललक्षणं भ(भा)वान्तरम् , आहोस्वित् तदपरं पदार्थान्तरमिति विकल्पाः। तत्र यदि घटस्वरूपमेव प्रच्युतिस्तॉपरं तत्रामिधानान्तरं विहितम् घटस्वरूपं त्वविचलितं प्रतीयते कथं न नित्यम? अथैकक्षणस्थायि घटस्वरूपं प्रच्यतिरिति न घटस्य नित्यता; नन्वेकक्षणस्थायितया घटस्वरूपं न प्रतीतिगोचर इति कथं तस्य प्रच्युतिः? अथ कपालस्वरूपमेव घटप्रच्युतिस्तथापि प्राकपालप्रादु-३० १ न वा-आ० हा० वि०। २-रादे स्व-आ० । ३ क्षणे घ-मां०। ४ एवं मु-मा० हा० वि० । एव मु-आ०। ५-शस्य हे आ०। ६-क्षणांसंतत्युदसं-हा। ७-त्पादयं संतानोच्छे-वि० ।-त्पाद संततोच्छे-आ०। ८ पूर्वसंततिनिवृत्तैर-हा० वि० । पूर्वसंतिनिवृत्तैर-आ०। ९-स्य रू-आ० हा० वि० । १० तदा भ-आ० । ११ न नु त-आ०। १२ न नु तदेवेद पु-आ० । १३-शहेतुया-आ० । १४-हार विदधतां त-हा०।-हार विदधता त-वि० । १५-रमग्र-आ. हा० वि०। १६ तस्माभा-हा०वि०। १७-श्चयेत्कन्यादि-आ०।-श्चयेक्तव्यादि-हा०वि०। १८-न यता म कश्चि-आ०। १९-त्रात् किंच भा-मां० ।-त्रा किन्त्व भा-आ० हा० वि०। २० "किञ्च भावोत्पत्तेः प्राग्भावस्य अभावनिश्चये तदुत्पादककारणापादनं कुर्वन्तः प्रतीयन्ते प्रेक्षापूर्वकारिणः"-प्रमेयक० पृ० १४५ द्वि. पं० ११। २१-दकार-आ०। २२ इति त्पद्य-आ० । “ततस्तव्यतिरिक्तोऽभावस्त तुरभ्युपगन्तव्यः"-प्रमेयक० पृ. १४५ द्वि. पं० १३। तद्धेतुः “स मुद्रादिर्हेतुर्यस्य सः" इति तत्रैव टि. २८। २३-प्यभावाभाव-वि०। २४ घटयोस्त-मां. भा. हा.वि. विना। २५-त्यये विषेये विरो-हा. वि० ।-त्यये विषेय विरो-आ०। २६ तत्र मु-हा०बि०। २७-व्यति प्रच्युतित एष आ०। २८-यि स्व-आ. हा०वि०। २९ “अथैकक्षणस्थायि घटखरूपं प्रध्वंसा, न; एकक्षणस्थायितया तपस्याद्यापि अप्रसिद्धेः"-प्रमेयक• पृ. १४६ प्र. पं० १।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy