SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३९२ प्रथमे काण्डे - र्भावात् घटस्यावस्थितेः कालान्तरस्थायितैव घटस्य भवेन्न क्षणिकता । न च कपालरूपप्रच्युत्यभ्युपगमे मुद्गरादिव्यापारानन्तरमपि घटस्य ध्वंसः' इति पूर्ववदुपलब्ध्यादिप्रसङ्गः येतो न मुदिना घटरूपं क्रियते स्वहेतोरेव तस्य निष्पत्तेः । नाप्यसती स्वरूपप्रच्युतिरुत्पद्यते तत्र परैर्हेतुव्यापारानभ्युपगमात् यत् तु कपालादिषु मुद्गरादिना निष्पाद्यत इति अभ्युपगतम् न तस्य ५ विरोधान हेतुत्वं कुंड्या देरिवेति कथं न प्रागिवोपलब्ध्यादिकं भवेत् अथ स पत्र न तदा न तेन नित्यता न चोपलध्ध्यादिकं स्व (दिकस्व) कार्यका (क) रणम्, नैतदेवम्ः यतः 'सः' 'न' इतिशब्दयोः किं भिन्नार्थत्वम् आहोस्विदेकार्थत्वमिति वक्तव्यम् । यदि भिन्नार्थता कथं न 'नश्र्'शब्दवाच्यः पदार्थान्तरमभावोऽभ्युपगतो भवेत् । अभिन्नार्थत्वे तु पूर्वमपि 'मंत्र' प्रयोगप्रसक्तिः, न चानुपलम्भे सति 'नत्र प्रयोगाभ्युपगम इति वक्तव्यम् यतो व्यवधानाद्यभावे स्वैरूपादप्रच्युतस्य १० तस्यैवानुपपत्तिर्भवेत् । अथ स्वरूपात् प्रच्युतिः कथं न कपालकाले मुद्गरादिहेतुकं भावान्तरं प्रच्युतिर्भवेत् ? ? ? ] [?? अथ कपालकाले घट विनाशा (नाशान) भ्युवर्गेमे स्वभावत एव घटस्याविनश्वरस्य परतोऽपि नाशासम्भवतो यः स्वभावो घटस्य प्रथमक्षणात् क्रियकालावस्थानोत्तरकालविनाशलक्षणस्तस्य मुद्रदिसन्निधानकालेऽपि भावात् अभावे वा स्वभावनानात्वा (त्वात्) क्षणिकत्वप्रसक्तेः पुनरपि ताव१५ कालमव स्थानमनुभूय तेन (तेन न ) नंपुष्ये मिति घटादेः कीटस्थ्यप्रसङ्गः । विनाशहेतुस्व (स्त्व) भावस्याकिञ्चित्करतयाऽनपेक्षणीयः न हासौ भावमेव करोति कृतस्य करणायोगात् । न च भावान्तरं करोति तत्करणेऽपि भावस्य किं सञ्जातमिति तथोपलब्ध्यादिप्रसङ्गात् । न च तस्य तेन सम्बन्धो येन 'तस्यायं विनाशः' इति व्यपदेशभाग् भवेत् तयोरुपकार्योपकारकभावाभावात् तदभावे च पारमार्थिकसम्बन्धायोगात् । यदि पुनर्भावान्तरं विना स्वयमेव क्रियते विनाश हेतु बैक (फ) ल्यम् २० स्वत एव तस्य तत्करणसमर्थत्वात् अन्यापेक्षानुपपत्तेः असमर्थत्वेऽन्य सन्निधानेऽपि करणानुपपत्तर्न भावान्तरमपि विनाशहेतु निर्वर्त्यम् । अभावकरणेऽपि पर्युदासपैक्षेऽयमेव दोषः । प्रसज्यपक्षे भावं करोतीति क्रियाप्रतिषेधमात्रमेव । तत्र च तद्धेतुरकिञ्चित्कर एवेत्यनपेक्षणीयः स्यात् तस्य निर्हेतुकत्वात् स्वरसनो भवन्नभावो भावस्य पावकोष्णत्ववन्न कालान्तरभावीति, असदेतत्; हेतुतः साध्यसिद्धेः प्रत्यक्षस्य च क्षणिकत्वग्राहकत्वेनाप्रवृत्तेः न तत्प्रतिबद्धत्वेन हेतुर्निश्चित २५ इत्युक्तत्वात् अहेतुकत्वेऽपि च नाशस्य जन्मान्त ( जन्मानन्त ) रभावित्वं नित्यस्यापि प्राक् प्रति'पादितत्वात् । न च पावकोष्णत्वदृष्टान्तस्तत्र सम्भवी प्रथमक्षणेऽपि भावध्वंसप्रसक्तेः तद्वदेवेत्यस्याप्यभिहितत्वात् । न च क्षणावस्थितिलक्षणस्य विनाशस्य तदैवेष्टत्वाददोषः, कालान्तर स्थायित्वस्यापि स्वभावत एव सम्भवाद् विशेषाभावात् । तथाहि पेंतदपि वकुं शक्यम् - कालान्तरस्थायी स्वहेतोरेव भाव उत्पन्नः न तद्भावे भावान्तरमपेक्षतो (ते) ऽग्निरे (रि) वोष्णत्व इति किं ३० न स्वत एव स्थिरस्वभावो भावो भवेत् ? न चैवं कौटस्थ्यप्रसङ्गः क्षणिकपक्षेऽप्यस्य समानत्वात् । १- गलादि- मां० । २ यतो मु-आ० हा० वि० । ३ कुतश्वादेरवेति आ० । ४ कथं प्रा-मां० आ० हा ० वि० विना । ५-बध्यादिकं स्वका - वि० । ६ तदा न तेन न नित्यता न चोपलब्ध्यादिकं भवेत् अथ स एव न तदा न तेन न नित्यता ( तेन नित्य- मां०) न चोपलब्ध्यादिक स्वका-भां० मां० हा० । ७ न वो हा० । ८ - रणे नै - हा० । ९ न नञ् आ० । १० सति तत्प्र-आ० हा० वि० । “न चानुपलम्भे सति न प्रयोग इत्यभिधातव्यम् " - प्रमेयक० पृ० १४६ प्र० पं० ३ । ११ “ खरूपादप्रच्युतार्थस्य अनुपलम्भानुपपत्तेः " - प्रमेयक० पृ० १४६ प्र० पं० ४ । स्वरूपात् “पृथुवुनोदरादेः " टि० ९। अर्थस्य " घटलक्षणस्य " टि० १० । १२-पा प्र-आ० हा ० वि० विना । १३- तुक भा-आ० विना । १४- गमे श्व स्व-आ० । घ-आ० । १६-स्था मनु-आ० | १७ - नुभूयं ते आ० हा० । १८- ते त नष्ट -आ० | १९ - व्यमिति ते घ - हा०वि० । २० - क्षणो न आ० । २१- नर्भवा-आ० हा० वि० विना । २२ स्वभायमे - हा० । स्वभावमे - वि० । २३- पक्षेपिऽयमे - मां० । २४ तस्यानिर्हेतु - हा० । तस्यार्निहेतु - वि• । तस्यार्निर्हेतुआ० । २५-वत्त भावस्य आ० वि० । २६-पि वा ना-आ० हा० वि० । २७स्य न ज-आ० हा० वि० । २८-त्वात्वददो - आ० हा ० वि० विना । २९ “ शक्यते हितत्राप्येवं वक्तुम् कालान्तरस्थायी स्वहेतोरेव उत्पन्नो भावो न तद्भावे भावान्तरमपेक्षते अग्निरिव उष्णत्वे" - प्रमेयक० पृ० १४६ प्र० पं० ६ । ३० - मपेक्षितो - आ० । १५ एवं ३१- भावो भवेत् भ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy