SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३८८ प्रथमे काण्डेभावाः तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पादकदर्शननिमित्ततया नीलादिव्यवहारभाक्त्वं प्रतिपत्स्यन्त इति तेषामपि निःस्वभावताप्रसक्तिः। अत एव प्रतिक्षणं भिन्नस्वभावान् भावान् पश्यन्नपि “विषमज्ञ इव नावधारयति" [ ] इत्यभिधानं न युक्तम् । स्वयमद्वयखरूपाणामन्तयनिर्भासदर्शनाद् बहिरप्यनाविलाक्षविज्ञानानां खण्डशः प्रतिभासोपलब्धिः ५याथात्म्येनैवार्थप्रतिभासोऽनुभवैरित्येतस्यासिद्धेः विकल्पवशेने चाध्यक्षस्य प्रामाण्यव्यवस्था अन्यथा दान-हिंसाविरतचेतसामपि स्वर्गप्रापणशक्तेरध्यक्षत एवाधिगमव्यवस्थितेन तत्र विप्रतिपत्तिरिति तव्यदासार्थमनुमानप्रवर्त्तनम शास्त्रविरचनं वा वैयर्थ्यमनुभवेत् । विकल्पस्तु स्थिरस्थरार्था ध्यवसायात् प्रतीतिः कथमध्यक्षतः क्षणिकनिरंशे परमाणुस्वलक्षणे व्यवस्थायामेव सर्वविकल्पानामवस्तुविषयत्वमबाधितार्थ तथा विकल्पस्यावा(वस्तु)विषयत्वे अन्यथाभूतसंवेदनस्यानुपलक्षणाद् १० वस्तुव्यवस्थाभावप्रसक्तेः । संहृतसकलविकल्पावस्थायामश्वविकल्पनसमये एंव चक्षुःप्रणिधाना मन्तरं पुरोग्यवस्थितस्य गवादेर्विशदतया स्थिरस्थूररूपस्यैवानुभवात् अन्यथा भूतार्थप्रतिभासस्य कदाचिदप्यनुपलब्धेः नं च वस्तुनः प्रतिक्षणध्वंसित्वात् तत्सामर्थ्यबलोद्भूतेनाध्यक्षेण तद्रूपमेवानुकरणीयम् अन्यरूपानुकरणे असदर्थग्राहकत्वेन तस्य भ्रान्तताप्रसक्तेः क्षणपरिणामग्रीह्ये वाध्य क्षमिति वक्तव्यम् इतरेतराश्रयप्रसक्तेः-सिद्धे हि क्षणक्षयित्वे भावानां तत्सामर्थ्यभाविनोऽध्यक्षस्य १५ तद्रूपानुकरणं सिद्ध्यति तत्सिद्धौ च क्षणक्षयित्वं तेषां सिध्यतीति व्यक्तमितरेतराश्रयत्वम् । अपि च, क्षणस्थायित्वेऽपि भावानां यथास्वभावमनुभवः, उतान्यथेति चेत् वस्तुस्वभावानुभवनियमाभावात् कुत आशङ्काव्यावृत्तिरिति चक्षुरादिज्ञानं प्रतिकलमपरापरमेव वस्तुस्वभावमनभवति किन्तु विकल्पवासनाप्रभवाध्यवसायस्य तन्निश्चयं प्रत्यशक्तिरित्यसकतं नीलादिस्वभावेष्वप्यनाश्वासप्रसक्तिरित्यक्तत्वाच्च । तन्न क्षणक्षयिता भावानामध्यक्षावसेया। ??] २० नाप्यनुमानान्निश्चेतव्या, तत्र अध्यक्षावृत्तावनुमानस्याप्यनवतारात् । तथाहि-अध्यक्षाधिगत मविनाभावमाश्रित्य पक्षधर्मतावगमबलादनुमानमुदयमासादयतीति अध्यक्षानवगते तु विषये स्वर्गादाविवाध्यवसायफलस्यानुमानस्य(स्या)प्रवृत्तिरेव सौगतैरभ्युपगता। तथा चाचार्यः-"अष्टेऽर्थेऽर्थविकल्पनमात्रम्” [ ] इत्युक्तवान् । यदपि 'निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावी देश-कालपदार्थान्तरमॅपेक्ष्य ? भवतस्तत्सापेक्षतया निर्हेतुत्वाभावप्रसक्तेः' इत्युक्तम् यतो २५ (तत्र) यदि नाम अहेतुकः प्रध्वंसस्तथापि यदैव मुद्गरव्यापारानन्तरमुपलब्धिगोचरस्तदैव तत्सद्भावोऽभ्युपगमनीयः भावोदयानन्तरं तु न कस्यचिदुपलम्भगोचरतामुपगच्छतीति कथं तदैवास्य सद्भावावगतिः? न च मुद्रादिव्यापारानन्तरमस्य दर्शनात् प्रागपि सद्भावः कल्पनीयः तथाकल्पने ह्यादौ तस्यादर्शनाद् मुद्गरव्यापारसमनन्तरमप्यभावप्रकृतिप्रसक्तिः(वप्रसक्तिः) विशेषाभावात् । न चान्ते क्षयदर्शनाद् आदावण्यसावभ्युपगन्तव्यः सन्तानेनानेकान्तात् । न च ३० मुद्रादिसंयोगादिकं कारणान्तरमनपेक्षमाणः पदार्थसत्तामात्रानुबन्धित्वात् ? तदुदयानन्तरमेव १-धारतीत्य-मा० । २-न बाध्य-आ० हा० वि०। ३-माण्याव्य-आ० हा०वि०। ४-वावस्थिआ. हा० वि०। ५-म् न च शा-भां० बहिः। ६-त् किं विक-मा०। ७ प्रततिः आ. हा. वि.। ८-याम व आ. हा० वि०। ९ “विकल्पोऽवस्तुनिर्भास इत्यस्य विरोधः"-प्रमेयक० पृ. ९ द्वि. पं. ४ । तथा तत्रैव 'अवस्तुनिर्भासः' “अवस्तुनि निर्भासः प्रतिभासो यस्य विकल्पस्य सः" टि. १६। "खलक्षणविषयत्वे च "विकल्पो वास्तनिर्भासादसंवादादुपप्लवः" । इति खवचनविरोधः"-अष्टस०पृ० १७० टि. १८। १० एवं च-हा०। ११ "न च अर्थस्य प्रतिविनाशित्वात् तत्सामर्थ्यबलोद्भूतेन अध्यक्षेणापि तद्रूपमेव अनुकरणीयमिति"-प्रमेयक. पृ. १४४ द्वि०पं. १४ । १२-ग्राह्ये चा-भां० मा० ।-ग्राह्यो वा-मां० बहिः। १३-सायेतस्य आ० हा० वि०। १४ "प्रत्यक्षाविषये तु स्वर्गादाविव अनुमानस्याप्रवृत्तिरेव"-प्रमेयक. पृ. १४४ द्वि. पं. १६ । १५-दृष्टार्थ र्थविक-हा। -दृष्टोर्थ यविक-आ० ।-दृष्टार्थविक-वि०। १६-तत्वान् भां. आ०। १७-मपेक्ष भ-आ. हा. वि. विना। १८-का तथा प्र-आ. हा० वि०। "किश्च, यदि नाम अहेतुको विनाशस्तथापि"-प्रमेयक. पृ० १४५प्र. पं०८। १९-द्भावं क-आ० । “प्रागपि सद्भावः कल्पनीयः प्रथमक्षणे तस्य अनुपलम्भात् मुद्गरादिव्यापारानन्तरमपि अभावानुषडातू"-प्रमेयक० पृ० १४५ प्र. पं०९।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy