SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३८९ सत्त्वमासादयतीति वक्तव्यम् । यतो यदि नाम भावसत्तामात्रानुवन्धिता नाशस्य तथापि न प्रति. भणध्वंसित्वं सिध्यति सत्ताया एव तथात्वेनानिश्चयात् । तथाहि-असावेकक्षणसंगता वा भवेत् , अनेकक्षणपरिगता वा? तत्र यद्याद्यः पक्षः स न युक्तः, तस्या एकैकक्षणावस्थानासिद्धः तदसिद्धी च तदनुबन्धिनः प्रध्वंसस्य कथं प्रतिक्षणभावित्वं निश्चेतुं शक्यम् । विशेषणाप्रतिपत्ती तद्विशेष्यस्य प्रतिपत्तुमशक्तेर्न क्षणिकसत्तामात्रानुबन्धित्वान्नाशस्योदयानन्तरभावित्वं सिद्धिमासादयति । अर्था-'५ (था)नेकक्षणस्थायिसत्तामात्रानुबन्धी ध्वंसः तथासति सत्तायाः क्षणान्तरावस्थानादक्षणिकतैव भावस्य न्यायादनुपतति अनेकक्षणस्थितिसत्तानुवन्धे प्रध्वंसस्यानेकक्षणस्थितिसत्तानन्तरं भावेन नंष्टव्यम् अन्यथा तथाभूतसत्तानुर्वन्धित्वयोगा( त्वायोगो) ध्वंसस्यति कथं क्षणिकत्वम् ? किञ्च, उदयानन्तरमेव भावानां ध्वंस इति कुतः प्रतीयते-किं मिन्नाभिन्नविकल्पाभ्यां ध्वंसस्याघटमानत्वात् आहोस्विदन्यतः प्रमाणादिति विकल्पद्वयम् । तत्र यद्याद्यः पक्षस्तदा नोदयानन्तरं ध्वंसः सिद्धिमा-१० सादयति यतो भिन्नाभिन्नविकल्पाभ्यां मुद्रादिनिरपेक्षि(क्ष)त्वं तस्य सिद्धिमासादयति न पुनर्जन्मान्तरं (न्मानन्तरं ) भावः। नहि निहंतुकस्य शशविषाणादेः पदार्थोदयानन्तरभावितोपलब्धा । अथ निर्हेतुकत्वे ध्वंसस्य सर्वदा भावात् कालाद्यपेक्षाऽसम्भवतः पदार्थादयानन्तरमेव भावःः नन्वेवं निर्हेतुकत्वे सर्वदा भावात् प्रथमे क्षणे एव भावप्रसक्तिोंदयानन्तरं सद्भावो ध्वंसस्य न ह्यनपेक्षत्वात् निर्हेतुकः क्वचित् कदाचिच्च भवति तद्भावस्य सापेक्षत्वं न(क्षत्वेन ) निर्हेतुकत्य-१५ विरोधादिति अभ्युपगतमेव एतत् सौगतैः । अथ स्वोत्पत्तिहेतुत एव पदार्था ध्वंसमासादयन्तीति प्रथमक्षण एव तेषां प्रध्वंसे न तथा(तदा) सत्तानुषङ्ग इति पदार्थाभावात् कुतः तत्प्रच्युतिलक्षणो ध्वंसः प्रथमक्षणे भवेत्, असदेतत्; यतो यदि भावहेतुरेव तत्प्रच्युतिहेतुस्तदा किमेकक्षणस्थायिभावहेतोस्तत्प्रच्युतिहेतुत्वम् , किं वानेकक्षणस्थायिभावहेतोरिति वक्तव्यम् । यद्याद्यः पक्ष स्तदोऽसिद्धम् एकक्षणस्थायिभावहेतुत्वस्याप्यसिद्धेः तत्कृतकत्वं तत्प्रच्युतेरसिद्धमेव । द्वितीयपक्ष २० तु 'क्षणिकताऽभावः' इति प्रतिपादितं प्राक् । किञ्च, यदि भावहेतुरेव तत्प्रच्युतिहेतुरभ्युपगम्यते तदा वक्तव्यं किं भावजननादसौ प्राक् तत्प्रच्युतिं जनयति, आहोस्विदुत्तरकालम् , उत समानकालम् ? यद्याद्यः पक्षस्तदा प्रागभावः प्रच्युतिर्भवेन्न प्रध्वंसाभावः । अथ द्वितीयस्तथासति भावप्रभववेलायां तत्प्रच्युतिर्नोत्पन्नेति न भावहेतोस्तस्या उत्पत्तिरिति न भावहेतुस्तद्धेतुः। एवं चोत्तरोत्तरकालभाविभावपरिणतिमपेक्ष्योपजायमाना तत्प्रच्युतिः कथं भावोदयानन्तरभाविनी २५ स्यात् ? अथ तृतीयपक्षोऽभ्युपगमविषयस्तथापि भावोदयसमयभाविन्या प्रच्युत्या सह भावस्य प्रथमक्षणेऽवस्थानेनाविरोधान्न तत्सद्भावेऽपि सति भावेन नंष्टव्यमिति न कदाचिद् भावाभावसद्भावः । किञ्च, यद्यप्युदयानन्तरोदयवती तत्प्रच्युतिस्तथापि न तदैव मुद्रादिव्यापारानन्तरमिव प्रतीतिपथमवतरति किन्तु मुद्रादिव्यापारानन्तरमेव ततश्च प्रागनुपलब्धा मुद्रादिव्यापारानन्तरमुपलभ्यमाना पुनस्तभावेऽनुपलभ्यमाना तजन्यतयासी व्यवस्थाप्यते अन्यत्रापि हेतु-३० फलभावस्यान्वयव्यतिरेकानुविधानलक्षणत्वात् । न च मुद्गरव्यापारानन्तरं न प्रच्युतेरुपलम्भः किन्तु कपालसन्ततेरिति तदुद्य एव मुद्रादेापारः प्रच्युन्युपलब्धिस्तु विषयाभावादुपजा. यमाना वितथैवेति वक्तव्यम् यतो घटीदेः स्वरूपेणैवाधि(वि)कृतस्यावस्थाना(ने) पूर्ववदुपलब्ध्या १-ता नावंशस्य हा० । २-क्षणं ध्वं-आ० विना। ३-भावि श्चेतु श-हा० वि० ।-भावि स्था निश्चेतुं श-आ०। ४-बन्धि ध्वं-आ० हा० वि०। ५ ध्वंस ति सत्ता-वि० । ध्वंस त्ति सत्ता-मां । वंसनाहा। इ-बन्धित्वंयो-मां० विना। ७-सस्य ति क चं क्ष-हा०। ८-न्मान्तरभा-आ० ।-मान्तराभाभां. मां० । “प्रथमविकल्पे तु भिन्नाभिन्न विकल्पाभ्यां मुद्गराद्यनपेक्षत्वमेव अस्य स्यात् न तु उदयानन्तरं भावः"पृ. १४५प्र. पं० ११। ९ "तथाभावस्य सापेक्षत्वेन अहेतुकत्वविरोधिना सहेतुकत्वेन व्याप्तत्वात् तथा सौगतैरपि अ. भ्युपगमात्"-प्रमेयक पृ० १४५ प्र. पं० १३ । १० "ननु प्रथमक्षणे एव तेषां ध्वंसे सत्त्वस्यैव असंभवात् कुतस्तत्प्रच्युतिलक्षणो ध्वंसः स्यात् ? ततः ख हेतोरेव अर्था ध्वंसखभावाः प्रादुर्भवन्तीत्यप्यविचारितरमणीयम् यतो यदि"-प्रमेयका पृ० १४५ प्र. पं० १४ । ११ “प्रथमपक्षोऽयुक्त एव क्षणस्थायिभावहेतुत्वस्य अद्यापि असिद्धेः"-प्रमेयक पृ० १४५ द्वि. पं० २। १२-न तद्भा-मा०। १३ यदप्युदयानन्त-आ० । १४-टादेऽस्व-वि०।-टादेस्व-आ. हा.। "घटादेः खरूपेण अविकृतस्यावस्थाने पूर्ववदुपलन्ध्यादिप्रसङ्गात्"-प्रमेयक० पृ. १४५ द्वि.पं. ७॥ ५० स० त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy