SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३८७ द्रव्यसाधाद् द्रष्यार्थिकनिक्षेपः शब्दः य(त)था द्रव्यार्थताया अपि सर्वत्राभ्युपगमाद्वाच्य-वाचकयो. नित्यत्वात् तत्सम्बन्धस्यापि नित्यता समस्त्येव सङ्केतश्च तदभिव्यक्तिरिति द्रव्यार्थिकनिक्षेपः शब्दः। _ [२ स्थापनानिक्षेपः] [स्थापना व्याख्याय मुख्य-प्रतिनिध्योर्भेदाभेदपक्षद्वयेऽपि तस्या द्रव्यार्थिकनिक्षेपरूपत्वव्यवस्थापनम् ] सङ्केताभिधानस्यार्थस्य प्रतिकृतिप्रकल्पना स्थापनेति यद् वस्तु सद्भूताकारेण स्थाप्यत इति णिजन्तात् कर्मणि धु(यु)प्रत्ययः । सापि द्रव्यार्थिकस्य निक्षेपः मुख्य प्रतिनिधिविभागाभावात् सदविशेषात् सर्वस्य मुख्यार्थक्रियाका(क)रणात् अन्यथोपयाचितादेस्ततोऽसिद्धिप्रसक्तेः तन्निमित्त. द्रव्यादिविनियोगव्यवहाराभावप्रसक्तेश्च मुख्यपदार्थरूपत्वात् स्थापनाया द्रव्यार्थत्वात् । अथवा अध्यवसायोपरचितमेव स्थापनायास्तदेकत्वम् न पुनर्वास्तवम् अन्यथा मुख्य-प्रतिनिधिविभागाभा-१० वप्रसक्तेस्तद्रपोपलक्षकत्वाभावप्रसक्तेश्च । नाभेदे उपलक्ष्योपलक्षकभाव उपपन्नः। नापि भिन्नदेशकालचेतनाऽचेतनमुक्तादिविभागो न्यायानुगतो भवेदिति सर्वत्र सद्भावासद्भावरूपतया प्रवर्त्तमानत्वात् द्रव्यधर्मसद्भावादेकत्वाध्यवसायकृतमेव तस्या द्रव्यार्थत्वमिति द्रव्यार्थिकनिक्षेपः स्थापना। [३ द्रव्यनिक्षेपः] [द्रव्यं व्याख्याय तत्र द्रव्यार्थिकनिक्षेपत्वभावनम्] द्रवति अतीताऽनागतपर्यायानधिकरणत्वेन अविचलितरूपं स(सत्) गच्छतीति ,व्यम् तच्च भूतभाविपर्यायकारणत्वात् चेतनमचेतनं वा अनुपचरितमेव द्रव्यार्थिकनिक्षेपः। [द्रव्यार्थिकनिक्षेपेण भावनिक्षेपसंमतस्य क्षणभङ्गस्य विस्तरेण अनेकधा निरासः] न च प्रतिक्षणविशरारुतया भावानां नित्यताऽसम्भवान्न द्रव्यार्थिकनिक्षेपः सत्य इति वक्तव्यम् निरन्वयनाशितायां प्रमाणानवतारात् । तथाहि-अध्यक्षम् अनुमानं वा ताहित्वेन प्रवर्तते नान्य-२० (अन्य )स्य प्रमाणत्वेन सौगतैरनभ्युपगमात् ? न तावदध्यक्षं क्षणक्षयितां भावानामवगमयितुमलम् प्रतिक्षणमुदयापर्वर्गसंसर्गितया भावानां तत्राप्रतिभासनात् । नहि प्रतिक्षणं त्रुट्यद्रूपतां बिभ्राणाः पदार्थमात्रास्तैत्रावभान्ति स्थिरस्थूररूपतया तेषां तत्र प्रतिभाससंवेदनात् । न चान्यादृग्भूतप्रतिभासोऽन्याहग्भूतार्थव्यवस्थापकः अतिप्रसङ्गात् । न च प्रतिक्षणं भिन्नस्वभावानुभवेऽपि सहशापरापरोत्पत्तिविप्रलम्भात् यथानुभवव्यवसायाँनुत्पत्तेः क्षणक्षयानुभवेऽपि स्थिरस्थूररूपाध्यवसाय२५ इति वक्तव्यम् प्रमाणाभावात् । न चान्यादृग्भूतार्थानुभवेऽन्यादृग्भूतार्थनिश्चयोत्पत्तिकल्पना ज्यायसी, नीलानुभवेऽपि पीतनिश्चयोत्पत्तिकल्पनायाः सर्वत्र प्रतिनियतार्थव्यवस्थितेरभावप्रसक्तः। [?? न च भावव्यतिरिक्तस्य वा सादृश्यस्यान्यथा सामान्यपक्षोक्तदोषस्यात्रापि प्रसक्तेः सम्भवः यतो निमित्तात् सदृशापरापरोत्पत्तिविभ्रमात् यथानुभवं विकल्पोत्पत्तिर्न भवेत् न वा सहशेष्वपि समानविकल्पजनकेषु दर्शनद्वारेण सदृशव्यवहारहेतुत्वमिति वक्तव्यम् नीलादिविशेषाणामप्यभाव-३० प्रसक्तेः । यथा हि परमार्थतोऽसदृशा अपि तथाभूतविकल्पोत्पादकदर्शनहेतवः सदृशव्यवहारभाजो १-निक्षेप श-हा.-निक्षेपः शब्द सङ्के-वि.। २ "ण्यासश्रन्थो युच्" ३।३।१०। सिद्धान्तकौ० प्र० ५७५ अं० ३२८४ । “णिवेत्त्यासश्रन्थघट्टवन्देरनः" ५।३।१११ । हेम। ३ सर्वस्य -र्थ-हा०। ४-याकर-प्र० मा० बहिः । ५ सद्भावरू-हा० । ६-त्वा द्र-आ० हा० वि० । -रूपं स च्छ-आ० हा०वि०।-रूप गच्छ-मां०1८ द्रष्टव्यम् आ० हा० वि०। ९ “प्रत्यक्षमनुमानं वा प्रवर्तेत अन्यस्य प्रमाणत्वेन सौगतैरनभ्युपगमात्"-प्रमेयक पृ० १४४ द्वि. पं०९। १०-मात् तत्र न तथावद्ध्यक्षं प्र० भ० बहिः । ११-धर्गसर्गि-आ० हा० वि०। १२-स्तवाव-भां० ।-स्तदावभीति आ० ।-स्तदाचभीति हा० वि० । १३ "स्थिरस्थूलसाधारणरूपतयैव तत्र तेषां प्रतिभासनात्"-प्रमेयक. पृ. १४४ द्वि० पं०१०। १४ “न च अन्यादृग्भूतः प्रतिभासः"-प्रमेयक. पृ. १४४ द्वि. पं०११। १५-यादुत्प-मां० । “सदृशापरापरोत्पत्तिविप्रलम्भात् यथानुभवं व्यवसायानुपपत्तेः"-प्रमेयक. पृ. १४४ द्वि. पं० ११ । १६-त्पत्तिवि-आ०। १७ नचास-आ० । न स-मां०। १८-सक्त था हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy