SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३८६ प्रथमे काण्डेयदपि 'अभेदेन सङ्केतकरणं शब्दार्थयोस्ताद्रूप्यं ख्यापयति' इत्युच्यते, तदप्ययुक्तम् ; नहि 'अयं घटः' इति घटशब्दस्य घटार्थता घटशब्दता(घटार्थस्य वा घटशब्दता) प्रकाश्यते किन्तु 'अयं घटशब्दवाच्यः घटार्थवाचको वा' इत्ययमत्रार्थः प्रकाशयितुमभिप्रेतः अन्यथा प्रत्यक्षप्रतीतिबाधितार्थप्रकाशकत्वेन इदमुन्मत्तकवचनवदनादरणीयं स्यात् । शब्दार्थयोश्च तादात्म्ये क्षुराऽग्नि-मोद५ कादिशब्दोच्चारणे आस्यपाटन-दहन-पूरणादिप्रसक्तिः अनवगतसमयस्याभिधानोपलब्धौ तदर्थस्य अर्थोपलब्धौ च तद्वाचकस्यावगतिप्रसक्तिश्च अन्यथा तादात्म्यायोगात् "निश्चीयमानानिश्चीयमानयोर्भेदान्निश्चायकं वाध्यक्षं परपक्षे" [ ___] इत्युक्तत्वात् । न च यो यत्प्रतिपादकः स तदात्मको धूमक्षा(धूमाश्या)दिभिर्व्यभिचारात् । न च शब्दस्य अर्थविशेषणत्वेन प्रतीतेस्तदात्मकता, देशभेदेन शब्दार्थयोरुपलब्धेः । न च भेदे तस्य तद्यवच्छेदकत्वमनुपपन्नम्, काका१० देर्भिन्नस्यापि गृहादिकं प्रति व्यवच्छेदकत्वप्रेतीतेः। तन्न शुद्धद्रव्यास्तिकाभिमतनामनिक्षेपो युक्ति युक्त इति भावनिक्षेपप्रतिपादकपर्यायास्तिकाभिप्रायः। [शब्दार्थयोरनित्यसम्बन्धवादिना स्वपक्षं समुद्धर्तुं मीमांसकसंमतनित्यसम्बन्धवादस्य निराकरणम्] अशुद्धद्रव्यास्तिकप्रकृतिव्यवहारनयमतावलम्बिनस्तु मीमांसका भिन्नानेव शब्दार्थसम्बन्धानित्यानाहुः-"औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः" [मीमां० १-१-५ पृ० ५] इति वचनात् । १५ औत्पत्तिकः' इति विरुद्धलक्षणया नित्यस्तैाख्यातः । नित्यत्वे च सम्बन्धस्य कृतकसम्बन्ध वादिनो येनाधगतसम्बन्धेन 'अयम्' इत्यादिना शब्देनाप्रसिद्धसम्बन्धस्य घंटादेः सम्बन्धः क्रियते तस्यापि यद्यन्येन प्रसिद्धसम्बन्धेन सम्बन्धः तदा तस्याप्यने(न्ये)नेति अनवस्थाप्रसक्तिरिति दोषः सः अकृतसम्बन्धवादिनोऽस्मान्न श्लिष्यतीत्ययुक्तवादिन एतेऽपीति भावनिक्षेपवादी पयोयास्तिकः । अयुक्तवादिता च नित्यवस्तुनः शब्दादेः कस्यचिदसम्भवादिति प्रतिपादितत्वावगन्तव्यो:२० (व्या) । अनवस्थादूषणमपि कृतकसम्बन्धपक्षप्रतिपादितमयुक्तमेव 'अयम्' इत्यादेः शब्दस्यानादिव्यवहारपरम्परातः सिद्धसम्बन्धत्वात्, तेनोनवगतसम्बन्धस्य घटादिशब्दस्य सङ्केतकरणाद् अकृतसम्बन्धवादिनोऽपि चानवस्थादोषस्तुल्य एव । तथाहि-अनभिव्यक्तसम्बन्धस्याभिव्यक्तसम्बन्धेन शब्देन यदि सम्बन्धाभिव्यक्तिः क्रियते तदा तस्यापि सम्बन्धाभिव्यक्तिरन्यतोऽभिव्यक्तसम्ब न्धादिति कथं नानवस्थादोषस्तुल्यः? यदि पुनः कस्यचित् स्वत एव सम्बन्धाभिव्यक्तिः अपरस्यापि २५ तथैवास्तु इति सङ्केतक्रिया व्यर्था । शब्दविभागाभ्युपगमे चास्मन्मतानुप्रवेशः प्रदर्शितन्यायेन । 'द्रव्य-पर्यायरूपमुभयमपि परस्परविविक्तमेकत्र विद्यते' इत्यभिप्रायो नैगमोऽशुद्धद्रव्यास्तिक प्रकृतिः । [सिद्धान्तिना शब्दस्य नित्यत्वानित्यत्वपक्षद्वयमाश्रित्य यथायथं द्रव्यार्थिकनिक्षेपरूप त्वव्यवस्थापनम् ] ३० कृतकत्वेऽपिशब्दस्य यत्र यत्र सङ्केतद्वारेण शब्दो नियुज्यते तत्र तत्र प्रतिपादकत्वेन प्रवर्तत इति १-बाधतार्थ-हा० वि० ।-वाधनार्थ-आ० । २ निश्चायमानीनिश्चायमानीनिनिश्चायमानयोर्भआनिश्चीयमानानिनश्चीयमानानिनश्चीयमानयोर्भ-वि०। ३-यकं चाध्य-मां। ४-मक्षोदिभिर्व्यमां०।-मक्षोदिभिचा-भां०। ५-प्रतीतिः आ० हा० वि० विना ।-प्रतीतेप्र० मा० बहिः। ६-नात् नुत्पआ. हा०वि०विना। ७ “घटादेः शब्दस्य संबन्धः क्रियते"-प्रमेयक० पृ० १२४ प्र. पं० ११ । तत्र चेयं टिप्पणी-"यथा प्रसिद्धसंबन्धेन घटशब्देन घट एव वाच्यस्तथा अप्रसिद्धसंबन्धेनापि घटशब्देन घट एव वाच्य इति"-टि. ४०। ८-द्यनेन आ० हा० वि० । ९-प्यनेनैति आ० हा०। १०-क अ-हा. वि. विना । ११ पृ. ३३ पं० २५। १२-व्याम् । आ०। १३ "अनादिपरम्परातोऽर्थमात्रे प्रसिद्धसंबन्धत्वात्"-प्रमेयक० पृ. १२४ द्वि. पं. ७ । अर्थमात्रे "पुरोवर्तिनि अनिर्धारितार्थे"-टि. ३२। १४-नानगत-आ० । “तेन अवगतसंबन्धस्य घटादिशब्दस्य संकेतकरणात्"-प्रमेयक० पृ० १२४ द्वि० पं० ७। तेन “अर्थेन सह"-टि० ३३ । १५-गमे वाआ. हा०। १६-स्य यस्य यत्र यत्र मां० ।-स्य यत्र सङ्के-आ० हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy