SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। न च चक्षुरादिव्यापारादेव नीलादयोऽनुभवरूपा जायन्ते यतश्चक्षुरादयोऽपि नानुव्य(नुभवव्य)तिरिक्ताः सत्य(त्या)र्थवादप्रसक्तेः, नैतदेवम् ; स्वप्नादेशावेजा(शाव जाग्रद्दशायामपि वासनावशादेव नियतावभासोदयो भविष्यतीति न कार्यव्यतिरेकादप्यर्थवादकल्पना युक्तिमतीति सर्वत्र विज्ञप्त(प्ति)मात्रैतैव । ?? ] [?? ननु यदि विज्ञप्तिमात्रतैव(वा)भ्युपेय(या) तथासति मेय-मानमिति व्यवहारविलोपः तस्य ५ भेदपूर्वकत्वात्-अर्थो हि प्रेमितिक्रियया व्याप्यमानत्वात् प्रमेयम् कर्मणि कृत्यविधानात् । तथा नीलादयो यदि बोधः स्यात् तदाऽसौ स्वतन्त्रा(तन्त्रो) नीलदृशं प्रतीत्य प्रमाता भवेत् चक्षुरादयश्च करणतया मानं भवेयुरर्थमितिम् उपलम्भसाध्यत्वात् स्यात् तदभावे तु न नीलादयः संविद्रूपाः सिध्यन्ति सिद्धः प्रमाणनिबन्धनत्वात् । न च स्वसंवेदनमेव प्रमाणं व्यवस्थाकारि तंत्र दृष्टान्तासिद्धेः। प्रदीपादयोऽपि हि परप्रकाश्या एव च (न च) तेनैवात्मना स एवाधिगन्तुं शक्यम् १० न ह्यङ्गल्यग्रेण तेनैव तदेवाङ्गल्यग्रं स्पृश्यत इति, असदेतत् ; यतो यथा बाह्यार्थवादे सुखादीनामात्मा विषये प्रमाणम् तेषामेव वेदनं वित्तिः फेलं सुखादयश्च मेयं यथैवापरेषामात्मा अपरोक्षो म(मे)यः तस्य च प्रकाशरूपता मानम् तत्प्रतिभासः फलम् तदन्यग्राहकाभावेऽप्यनवस्थाप्राप्तर्मतनि(र्मतमि)यमेव म(मे)य-मान-फलानां व्यवस्था सर्वत्र नीलादौ योजनीया विज्ञा(ज्ञान)वादे। ??] [?? अथ नीलादीनां जडत्वान्न संविदस्ति सुखादेरात्मनश्च प्रकाशरूपत्वात् संविदिति, अत्रो-१५ च्यते; तत्रापि ज्ञानवादेऽनुभवात्मकत्वात् प्रकाशरूपत्वापत्तेः नीलादयः स्वात्मनः संविदि कर्तव्यायां योग्या नहि ते तत्र दर्शने जडरूपाः संविदस्तथाऽयोगादित्युक्तेरिति तस्मात् सा नीलादीनां प्रकाशाख्याभेदोल्लेखः। यथा स्वरूपमेयं स्वसंवित् फलमित्यस्ति प्रमाणादिव्यवस्थेत्यर्थः श्लोकद्वयस्य "तत्रात्मनि सुखादीनां यथा वित्तिः फलं तैरें। २० तथा सर्वत्र संयोज्या मान-मेय-फलस्थितिः” ॥ [ अत्राप्यनुभवात्मत्वीयोग्योऽस्ती संविदि इति सा योग्यता मानं मेयं रूपं फलं स्ववित्याचार्योक्तस्य यदि तर्हि नीलादीनां स्वप्रकाशो वित्तिश्च ‘कथमहं नीलं वेद्मि' इति कर्तृ-कर्म-क्रियाभेदोल्लेखः यथा लतिसुखादौचामात्राप्यहमात्मानं वेद्मि सुखादीनि वासौ दृष्ट एव । अथान्यग्राहकाभावात तत्रासौ मिथ्योल्लेखस्तर्हि नीलादावपि व्यतिरिक्त प्रकाशाभावात् भेदोऽवसेयः कर्तृ-कर्मादितया २५ मिथ्यो वा परोक्षस्य नीलादेरेव प्रकाशनात् । अथास्याः कर्म-कर्तृ-क्रियाभेदाध्यवसितेबी(तेर्वी) वक्तव्य॑म् निर्बीजं वान्ययोगात्, नैव; तत् क्वचिदपि कादिभेदस्य वास्तवस्यानुपलब्धेर्वातिपरम्परामात्रं अनादिवासनाप्रभवप्रधानादिविकल्पवदसावभ्युपगन्तव्यः। यदपि 'विरोधान्न संवेदनं भवत्यङ्गुल्य १ यश्चक्षु-आ० । २-रिक्तः स-वा० बा०। ३-दशावेजाग्रद्द-वा. बा. आ. हा. वि. विना। ४-त्रतैवाभ्युपेय तथा-वा. बा. विना। ५ प्रमितिक्रि या व्याप्य-आ०। ६-मितिस्तु पलम्भवा० बा०। ७ सिध्यं सि-वा. बा० आ० हा० वि० विना। ८-माण व्य-आ० हा० वि०। ९ तव दृवा० बा० विना। १०-गन्तुं शक्य न वा. बा० । ११-वादे मुखा-वा० बा० ।-वादे नुखा-आ० । १२-मात्मविषाये प्रमाण तेषा-वा० बा०। १३ फलं तु मुखा-आ०। १४-प्राप्तेर्मतिनि-आ०। १५ सर्वग्रनी-वा० बा०। १६-नश्चा प्र-आ० ।-नश्चऽप्र-मां० ।-नश्वा प्र-भां०। १७-दयः संवि-वा. बा. विना। १८ नहि ते त्र वा० बा। १९-थायो-वा. बा. विना । २०-काश्याख्या-वा. बा. विना। २१-ख्याभेदेल्ले-वा० बा०। २२ तरां । त-आ० हा० वि० । ततं । त-वा० बा०। २३ संयोज्य मान-मां. आ० हा०वि० । संयोज्य मानं मे-भां०। २४-त्वान्न यो-वा० बा०। २५-ग्यास्ता संविद इति आ० । २६ मान मेयं रूप फलं आ० । मान मेयं रूपं वि०। २७-चायोकस्य वा० बा० विना। २८-थात्मनि सु-वि० सं०। २९-खादौ वा मा-मां. आ० हा० वि०।-खादी चामत्रा-वा• बा०। ३०-नि नासौ आ। ३१-रिक्तःप्र-वि० ।-रिक्ताप्र-भां०। ३२-वसायः वा० बा०। ३३-कर्मदितया सिद्भ्यो वा प-आ। ३४ मिथ्यो चाप-वा. बा. हा० वि०। ३५-लादेरव प्र-आ०। ३६-व्यं तिबीज वाआ० ।-व्यं निबीजं वा हा. वि.। ३७ वान्यं वा योगात् वा. बा० । ३८-दस्य यास्तचस्या-वा० बा। ४७ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy