SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३६३ [?? भीम कमपि नीलं प्रत्यक्षं बुद्धिस्तु तद्धेतुभूता प्रवेशप्रत्यक्षार्थान्यथानुपपत्या पश्चात् प्रतीयत इति सहोपलम्भोऽसिद्ध इति प्राग् दि (नि) रस्तमेव । यदि तेनोकम् - "पश्चादुपलभ्यते बुर्द्धिः" [ ] इति, तत्रापि बुद्धिप्रतीतिकाले यद्यर्थस्यापि प्रतीतिस्तदा द्वयोर्युगपदुपलम्भः स्यात् । नं चैतदिम् इष्टो वा हेतुर्न सिद्धः । न च युगपदुपलभ्यमानयोः ग्राह्यग्राहकभावः सम्भवतीति ज्ञानमिति न सिद्धो (सिध्येत्) यदि तु तदा नार्थप्रतिभासस्तथापि केवलायास्तस्याः प्रति- ५ भासनात् 'अर्थस्य बुद्धि:' इति न युक्तं भवेदित्यादेः प्राक् प्रतिपादितत्वान्नासिद्धो हेतुः । नाप्यनैकान्तिकः सर्वज्ञज्ञानस्य पृथगुपलम्भाद् भेदः यतः सर्वज्ञा ( वैज्ञज्ञा ) नं पृथग्जनचित्ता ( त्तात् ) पृथंगू भाति पृथग्जनस्यापि स्वचित्तं सर्वविद्विज्ञानं विनापि भातीति भेदः नीलतद्धियोस्तु न कदाचित् पृथगुपलम्भः एकलोकी (लोली) भावेन सर्वदोपलम्भात् । नहि नीलव्यतिरिक्ता या प्रत्यक्षता भाँति तद्यतिरिक्तं वा नीलम् एवं स्वै रूपोपलम्भाच्चे ( चै) कत्वव्यवहारः अन्यथा तदयोगात् सर्वे चात्र नीलादयोऽभि- १० नरूपोपलम्भा एकत्र (कत्व) व्यवहारे साध्ये स्वरूपे (रूपापेक्षया दृष्टान्तीभवन्तीति दृष्टान्तासिद्धिरपि न प्रेरणीया । न च सन्दिग्धविपक्षव्यावृत्तिरयं हेतुः अभिन्नोपलम्भेऽपि भेदे सर्वत्राभेदोच्छेदप्रसक्तेः । दपि 'भेदो (दे ) ऽप्येक सामग्र्यधीनतया नीलनद्धियोः सहोपलम्भः' इत्युक्तम् द्रष्टव्यम् मेदाऽनवभासनेन तस्याभावात् । यदपि 'रूपालोकयोः सहोपलम्भेऽपि भेदः' इत्युक्तम्, तद्यसम्यकू यतो रूपालोकैोर्ययोरपृथगुपलम्भ (लम्भः) भेदोऽपि तयोर्न सम्भवत्येव यतो न नीलमालोक्य वा (लोको वा ) १५ तदपि निर्भागावर्त्ती पृथगभ्युपगम्यते प्रकाशात्मनो नीलस्यैवोत्पादात् । ययोः पुनर्भेदस्तयोरपृथगुपलम्भो नास्तीति नीलादिभिन्नस्याप्रत्यक्षरूपस्य तस्यानुपलम्भात् । यदप्युक्तम् 'सह' शब्दद्दष्टत्वाद् विरुद्धो हेतुः' इति, तत्रापि विकल्पारूढं भेदमाश्रित्य 'सह'शब्दः प्रयुक्तः परमार्थतस्तदभावेऽपि अथ यदि भेदे विकल्पैरुल्लिख्यते किमिति सत्यो न वस्तुरूपासंस्पर्शित्वाद्धि न तत्र नीलतद्धियोरमेदे एकरूपोपलम्भात् सिध्यत्येव तथा संवेदनादप्यभेदः सिद्धः । नीलादीनां प्रत्यक्षं च २० स्वरूपं संवेदनमुच्यते । विज्ञानस्यापि ह्यपरोक्षस्तद्भेदात् तदर्थस्य सहशब्दस्यावृत्तिर्युक्ता परमातोऽभेदेऽपि ?? ] [ ?? यद्वा एकस्मिन्नप्येर्थे सहशब्दो ष्टो (ट) एव यथा 'सहदेशोऽयमस्माकम्' इत्यकरूपोपलब्धिरेकत्वेन व्याप्ता प्रत्यक्षत एव ते गैंता । ततो ने विरुद्धत्वं विपर्ययव्याप्तेरभावात् । यदत्युक्तम् 'एकरूपोपलब्धिवि(ब्धिर्वि ) ज्ञानस्यार्थस्य वा प्रथमपक्षेऽपि बौद्धं प्रति इति तदपि निराकृतमेव ; २५ नील-तद्बुद्ध्योरेकरूपोपलम्भस्य प्रतिपादितत्वात् विवादश्च तयोर्भेदाभेदा (दो) प्रति न स्वरूपं प्रति तस्य सिद्धत्वात् । न चैकरूपोपलम्भस्तयोरध्यक्षसिद्धो वचनमात्रादेवासिद्धो भवति । तस्मान्नीलतयोरभेद एकरूपोपलम्भात् सिध्यत्येव । तथा संवेदनादप्यभेदः सिद्धः । नीलादीनां प्रत्यक्षं च वि० सं० । । ३-ति प्रारि । १ प्रवे प्रत्य-भां मां० । प्रवशप्रत्य - ० २ पृ० ३५३ पं० २ । वा० बा० । ४ प्राग् विर- वि० । प्राग् निर - वि० ५ पृ० ३५३ पं० ४ । ६ - द्धिति तत्रावि०।- द्धिरि तत्रा वा० बा० भ० मां०हा० । ७ न तैवदि -आ० विना । ८-ष्टमष्टो वा० बा० । ९ सिद्धोद्यदि वा० वा० । १०- थम् भाविति आ० ११-पि स्तवित्तं स वा० वा० ।-पि स्तैर्वित्तं सहा० वि० ।-पि स्तैष्वित्तं स-आ० । १२ भावि त - मां० विना । १३ - लम्भाश्वेक त्व- वा० वा० । लम्भात्वेकं त्व-आ० | १४ - न्यदा त वा० वा० विना | १५- कव्य-आ० । १६ यदि भे-भां० । ३५३ पं० १० । १८ भेदोऽन वा० वा० विना । १९- लम्भो - वा० बा० विना । ६ । २१- कयोयोर - हा० वि० । २२- लम्भेदो वा० बा० । २३-लोक्ये वा वा० भोगावती पृ-आ० हा० ।-पि निर्सागोवर्ती पृ-मां० ।-पि भेद प्युक्तं निर्भागावत्ती ३५३ पं० १८। २६ - रूपां सं-आ० वि० । २७ - रभेदो ए वा० बा० । २८ २९- प्यर्थ स - भां०• मां० आ०।- प्यर्थ स - हा० । ३० दृष्टो एवं य-वा० बा० विना । ब्रा० । ३२ न विरुद्धत्व विप- हा० । न विरुद्धत्व विरुद्धत्वं विप-भां० । न विरुद्धत्वं विरुद्धत्वं विषमां० । ३३ पृ० ३५३ पं० २३ । ३४-पि बौद्ध प्र-आ० हा ० वि० । १७ पृ० २० पृ० ३५३ पं० बा० । २४-पि निपृ-वि० । २५ पृ० संवादना - मां० विना । ३१ गतौ न विरु-वा०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy